Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 277
________________ भट्टश्रीचक्रधरप्रणीतः पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः । अविनाभावनियमाद् हेत्वाभासास्ततोऽपरे ॥ [ प्रमाणवा०, ३. १] तदा नासतो विद्यते भावो नाभावो विद्यते सत इति । पूर्वधर्मान्तरनिरोधाभ्युपगमे हि सतः अभावोऽभ्युपगतः, अपूर्वधर्मान्तरप्रादुर्भावे चासतो भावोऽभ्युपगत इति । अव्यक्तधर्मान्वये' हि विकाराणां प्रवृत्तिनिवृत्त्यात्मकत्वं न स्यादिति । प्रधानस्य नित्यत्वे तद्धर्मस्य नित्यत्वस्यान्वये विकाराणामपि नित्यत्वादुत्पत्तिनिरोधयोरभावः स्यादित्यर्थः । २४६ [ का०पृ०२०७, वि० पृ०६५७ पूर्वोक्तलक्षणैरेव लक्षिता इति । पूर्वोक्तानि यानि हेत्वाभासानां लक्षणानि तैरेव न निग्रहस्थानत्वेन पृथग् लक्षणान्तरप्रणयनं कार्यम् । प्रमाणस्य प्रमिति - विषयत्वेन प्रमेयत्वम्, प्रमेयस्य प्रमितिकरत्वेन प्रमाणत्वं यथा न स्वरूपेणैव नैवं हेत्वाभासानां निग्रहस्थानत्वम्, हेत्वाभासरूपतयैव तेषां निग्रहस्थानत्वमित्यर्थः । धर्मकीर्तेरपि च न विमतिः इति । स ह्याह -- "हेत्वाभासाश्च यथान्यायाद निग्रहस्थानमिति एतावन्मात्रमिष्टमिति" । [ वादन्याय, पृ० १४२ ] ॥ भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरी ग्रन्थिभङ्गे द्वादशमाह्निकम् १ मुद्रितमञ्जर्या तु 'अव्यक्तान्वये' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312