Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२२७
का०पृ०१२५, वि०पृ०५६२] न्यायमञ्जरीग्रन्थिभङ्गः
२२७ कारणाकारणविभागपूर्वकस्त्विति । हस्तस्य कारणमङ्गुलयः, आकाशं त्वकारणम्, तयोविभागः कारणाकारणविभाग इति'।
विरुद्धदिग्वृत्तेः संयोगस्य निवर्तकमिति नातिप्रसङ्गः इति । यदि हि कर्म स्वाश्रयादन्यस्य संयोगं निवर्तयेत् तदा विभागजविभागानभ्युपगमः, न तु 'अङ्गुलिविभागः कुण्डबदरसंयोगोपमर्दाय प्रभवति' इति सूचितो योऽतिप्रसङ्गः स आपतेद् न त्वेमस्तीति भावः । [43] एवं कर्माविष्टस्योत्तरसंयोगदर्शनमदूषणमिति । कर्माविष्टस्य कर्म विनोत्तरसंयोगाभावात् संयोगोत्पत्तौ कर्मण एव कारणत्वमवगतम् । यच्च यस्योत्पत्तिकारणं तदेव तस्य विनाशहेतुरिति न वाच्यम् , विरुद्धदिग्संयोगोपमद विनोत्तरसंयोगस्यैव कर्तुमशक्यत्वादिति भावः ।।
कर्मणां विचित्रकार्यहेतुत्वादिति । न ह्येकेन कर्मणा नोदानाख्यः संयोगविशेषो जनित इत्यन्येनापि जनयितव्यो नाभिघातादिरिति ।
कार्यकारणैकार्थसमवायेन तु प्रत्यासन्नमिति । कार्यस्य पटरूपस्य कारणं समवायिकारणम् , यः पटस्तेन सहैकस्मिंस्तन्तुलक्षणेऽर्थे समवायस्तन्तुरूपस्य ।
___ अत्रापि त्रिपदपरिग्रहेण लक्षणवर्णनमिति । तथाहि-विप्रतिपत्तेः संशयः इत्युक्ते अग्रहणेऽपि तस्याः संशयप्रसक्तिस्तदर्थ विप्रतिपत्युपपत्तेरिति । तथापि विप्रतिपत्तिशब्दार्थमुपलभमानस्यावि(व)गतविशेषस्य न संशय इति तदर्थमुपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि द्रुततरं गच्छतो विप्रतिपत्तिशब्दार्थोपलम्भे उपलब्ध्यनुपलब्ध्योश्वाव्यवस्थाने न दृष्टः संशय इति । तदर्थे विशेषापेक्ष इति पदम् । ननूपलब्ध्यव्यवस्थातश्चेत् संशयस्तदानीं सर्वत्र संशयप्रसङ्ग इत्याशङ्ख्यातिप्रसङ्गं निराकर्तुमाह-- अव्यवस्थापदेनात्र पूर्वमिति । पूर्व सदाश्रिता विशेषा अर्थक्रियासमर्थत्वाच(द)योऽसदाश्रिताश्च तद्विपरीता उपलब्धाः पुनर्यदा- सदाश्रितान् अर्थक्रियासमर्थत्वादीन् विशेषान् नोपलभते तदैव संशयो न सर्वदेति तात्पर्यम् । एतदेव च न चैवं सति सर्वत्रानाश्वास इति इत्यादिनाऽऽह । अत्रापि पदत्रयेणेति । नोपलब्धिमात्रं संशयजनकमिति । तदर्थमुपलब्ध्युपपत्तेरिति । उपलब्ध्युपलम्भादित्युक्तेऽधिगतविशेषस्यापि संशयप्रसङ्ग इत्यतस्तव्यावृत्तये उपलब्ध्यनुपलब्ध्यव्यवस्थात इति । तथापि कुतश्चिद्
१ प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः-अन्यतरकर्मजः, उभयकर्मजः, विभागजश्च विभाग इति । तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् । विभागजस्तु द्विविधः-कारणविभागात्, कारणाकारणविभागाच्च । ......कारणाकारणविभागादपि कथम् ? यदा हस्ते कर्मोत्पन्नमवयवान्तराद् विभागमकुर्वदाकाशादिदेशेभ्यो विभागानारभ्य प्रदेशान्तरे संयोगानारभते तदा ते कारणाकारणविभागाः ... । प्रशस्तपादा० पृ० ४९५ । २ मुद्रितमजा तु 'त्रिरूप ' इति पाठः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312