Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
का पृ०१४७, वि०पृ०५८९]
न्यायमञ्जरीग्रन्थिभङ्गः
२३५
तीति । यद् योनिभूतायाम् ऋचि कवतीषु रथन्तरं गायतीति वचनात् "कयानश्चित्र आभुवदूती" [सा०सं०उ०१.१.१२] 'इत्यस्यामुत्पन्नम्, तदुत्तरयोः धातोरुत्तराख्यग्रन्थविशेषविपठितयोः, गायतीति प्राकृतं रूपं येन विशिष्टस्तोत्रसाधनता रथन्तरस्य प्रकृतौ जाता ऊह्यते । प्रोक्षिताभ्यामुलूखलेति । प्रोक्षणाख्यो यः संस्कारः तुषकणविप्रमोकाख्यसंस्कारजनकयोरुलूस्खलमुशलयोः कृतः, स नखेषु तत्संस्कारजनकत्वादूह्यते ।
धर्मस्यार्थकृतत्वाद द्रव्य-गुणविकारेति तत्र द्रव्योदाहरणं प्रतिपादितम् । बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नीवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः । गुणोदाहरणं तु संस्थिते घडहे मध्वनातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा । तत उक्तम्-संस्थिते षडहे मध्वनातीति । यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम् । मध्वशनं कर्तव्यमिति षडहकायें मध्वशनं विधीयते । गुणत्वं तु मध्वशनस्य प्रदेशान्तरे षडहाङ्गत्वेन विधा ना]त् । यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि कचित् प्रतिपादितमिति । तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम् । विकारोदाहरणम्-नखनिर्भिन्नश्चर्भवतीत्यत्र नखा विकारशब्देनामिधीयन्ते, तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः । व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशु नियुञ्जीतेति । न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः इति[51] । प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्टोमे यज्ञ-याज्ञीयं सामप्रकृत्यस्तुतं, न गिरा गिरेति कुर्यादिति । तत्र साम्नि यद्रेिति पदमस्ति तन्न ब्रूयात् किं तर्हि कुर्यादित्याह-ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः । तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रम-प्रतिषेधरूपेषु व्रीहि-षडहोलखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः । नेति तत्र पूर्वपक्षवादी-ये ब्रीहौ विहितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन् , ये च षडहधर्मास्ते कथं मध्वशने, ये चोलखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गीत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं धर्मस्यार्थकृतत्वादिति । एतेषु नीवारादिषु चोदनानुबन्धः । ब्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयाऽनुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन व्रीह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात् ।
१ द्र० मीमांसाकोश पृ० १२३१ । २ मी० सू० ९.२.१२.४० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312