SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ का पृ०१४७, वि०पृ०५८९] न्यायमञ्जरीग्रन्थिभङ्गः २३५ तीति । यद् योनिभूतायाम् ऋचि कवतीषु रथन्तरं गायतीति वचनात् "कयानश्चित्र आभुवदूती" [सा०सं०उ०१.१.१२] 'इत्यस्यामुत्पन्नम्, तदुत्तरयोः धातोरुत्तराख्यग्रन्थविशेषविपठितयोः, गायतीति प्राकृतं रूपं येन विशिष्टस्तोत्रसाधनता रथन्तरस्य प्रकृतौ जाता ऊह्यते । प्रोक्षिताभ्यामुलूखलेति । प्रोक्षणाख्यो यः संस्कारः तुषकणविप्रमोकाख्यसंस्कारजनकयोरुलूस्खलमुशलयोः कृतः, स नखेषु तत्संस्कारजनकत्वादूह्यते । धर्मस्यार्थकृतत्वाद द्रव्य-गुणविकारेति तत्र द्रव्योदाहरणं प्रतिपादितम् । बार्हस्पत्यं चरुं नैवारं सप्तदशशरावं निर्वपेदिति नीवारव्यक्तिरूपद्रव्याश्रयणेन तत्प्रवृत्तेः । गुणोदाहरणं तु संस्थिते घडहे मध्वनातीति, षडहेनोपासीतेति द्वादशाहे चोदना स्वतन्त्रा वा । तत उक्तम्-संस्थिते षडहे मध्वनातीति । यदि दैवात् षडहः संतिष्ठते न क्रियतेऽशनम् । मध्वशनं कर्तव्यमिति षडहकायें मध्वशनं विधीयते । गुणत्वं तु मध्वशनस्य प्रदेशान्तरे षडहाङ्गत्वेन विधा ना]त् । यदा षडहेनोपासनं क्रियते तदा तदङ्गत्वेन मध्वशनमपि कचित् प्रतिपादितमिति । तद् दृष्ट्वा गुणशब्देन मध्वशनस्य प्रतिपादनम् । विकारोदाहरणम्-नखनिर्भिन्नश्चर्भवतीत्यत्र नखा विकारशब्देनामिधीयन्ते, तुषकणविप्रमोकलक्षणे वाधिकारे नखाः श्रुताः । व्यतिक्रमः पुनरप्रागागम्यसमर्थस्य यूपस्य परित्यागोऽन्यस्यासमर्थस्याश्रयणं यथा परिधौ पशु नियुञ्जीतेति । न हि परिधिरल्पपरिमाणस्य पशोरप्यागम्ये समर्थः इति[51] । प्रतिषेधस्तु न गिरा गिरेति ब्रूयादैरं कृत्वोद्गायेदिति ज्योतिष्टोमे यज्ञ-याज्ञीयं सामप्रकृत्यस्तुतं, न गिरा गिरेति कुर्यादिति । तत्र साम्नि यद्रेिति पदमस्ति तन्न ब्रूयात् किं तर्हि कुर्यादित्याह-ऐरं कृत्वोद्गायेदिति इराशब्दस्य विकारमिरा इरेत्यादिकं कृत्वा गायेदित्यर्थः । तदेतेषु नीवारमधुभक्षणनखपरिधीरापदेषु द्रव्य-गुण-विकार-व्यतिक्रम-प्रतिषेधरूपेषु व्रीहि-षडहोलखलमुशल-यूप-गिरापदधर्माः कर्त्तव्याः । नेति तत्र पूर्वपक्षवादी-ये ब्रीहौ विहितास्ते कथमविहितत्वाद् नीवारेषु क्रियेरन् , ये च षडहधर्मास्ते कथं मध्वशने, ये चोलखलमुशलयोः श्रुताः प्रोक्षणादयस्ते कथं नखेषु, यूपोपदिष्टाश्च कथं परिधौ, गिरापदे च ये श्रुता गीत्यादयस्ते कथम् इरापदे श्रुत्यभावादनुष्ठीयेरन्नित्याह ततः सिद्धान्तसूत्रमिदं धर्मस्यार्थकृतत्वादिति । एतेषु नीवारादिषु चोदनानुबन्धः । ब्रीह्यादिसम्बन्धेन या धर्माणां चोदना तयाऽनुबन्धः सम्बन्धः, तत्सम्बन्धेन नीवारादिसम्बन्धेन व्रीह्यादिगतत्वचोदितधर्मसम्बन्धः स्यात् । १ द्र० मीमांसाकोश पृ० १२३१ । २ मी० सू० ९.२.१२.४० । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy