________________
२३६
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०१४८, वि० पृ०५८९
कुतः ? समवायात् । यतोऽसौ धर्मः प्रोक्षणादि व्रीहीन् प्रोक्षतीति व्रीह्यादिसम्ब न्धेन श्रुतः, तत्र तत्र समवैति सम्भाव्यते कारणान्तरादतः कारणान्तरसम्भाव्यमानात् तत्समवायात् कर्तव्या एव ते धर्मा इत्यर्थः । किन्तु कारणान्तरमित्याह-धर्मस्यार्थकृतत्वादिति । प्रकृतौ तावद् धर्माणामर्थ कृतत्वमपूर्वप्रयुक्तत्वं प्रतिपादितम् योऽसावपूर्वसाधनभूतोंऽशो व्रीह्यादेः, तमुद्दिश्य धर्मप्रयोगः, प्रयोजनत्वात् । न स्वरूपोद्देशेनानर्थत्वप्रसङ्गादिति । तस्य चांशस्य नीवारादीषु भावात् तेषु तद्धर्मप्राप्तिरिति तत्र ताह्वर्थम् (नानर्थत्वम्) । तदेवमुदाहरणपञ्चकेनोहपञ्चकमत्र सूत्रे दर्शितम् । भट्टेन तु दृष्टमुख्यार्थता स्वार्थसमवेतार्थतादिभिः प्रयुक्ताः प्रकृतौ मन्त्रागताः कार्यातिदेशतः विकारेष्वनिषिद्धहकार्यापन्नेषु पञ्चधेति पञ्चविधत्वं यत् प्रतिपादितं तद् मन्त्रोहस्यैवेत्यलम् ।
तदभावेऽपि मन्त्र संस्कारसमानयोगक्षेमत्वमिति उत्तराधरं रथन्तरं योनाविव विशिष्टस्तोत्र सम्पादकत्वेनोपकारि रथन्तरत्वात् प्रकृतरथन्त [52] रवदिति । मन्त्रसंस्कारसमानयोगक्षेमत्वम्, यथा मन्त्रसंस्कारयोरनुमानं प्रदर्शितं तथाऽत्रापीत्यर्थः । न च वितर्कासहायः शब्दस्तात्त्विकमर्थं प्रतिपादयत्यतो वितर्क मात्रस्य शब्द एवान्तरभावो वितर्कविशेषेऽस्तूोऽनुमानमेवेत्याह- न्यायविशेषात्मकस्त्विति । नास्ति मीमांसकदृष्ट्या पृथगूहः कश्चिदिति । अथ 'सूर्यायेति पदप्रक्षेप ऊह: ' स कथमनुमानं स्यादिति । तत्राप्याह- - अग्नय इत्यस्य स्थाने इति ।
॥ निर्णयलक्षणे | मुख्यमभिधाय तदितरो लक्ष्यत इति । पक्ष - प्रतिपक्षाभ्यां पक्षप्रतिपक्षविषयाभ्यां साधनदूषणाभ्यां पक्षप्रतिक्षयोः साधनोपलम्भाविति ।
विषयनिर्देशा [] पदमति । अर्थ : पक्ष इति ।
I
अत एव हि मन्यन्त इति । यत एव बुभुत्सा निवर्ततेऽत एव बुभुत्सापूर्वकत्वात् संशयस्य, तदभावे तत्पूर्वकन्यायप्रवृत्त्यभावः । अविमृश्यापि भावादिति । इन्द्रयादिजन्मन इति शेषः । न निर्णय एव त[र्क]स्यापि कचिदनिवृत्तेरिति । प्रतिबन्धसामग्रीवैकल्याभ्यामिति शेषः ।
वस्तुयोग्यतावशेन सन्दिग्धविषयमेवानुमानमिति । सन्दिग्धं हि वस्तु परीक्ष्यते तत्त्वज्ञानार्थं न निश्चितमिति वस्तुयोग्यता ।
संशयपूर्वकत्वमुपदेशातिदेशाभ्यामिति । उपदेशेन यथा संशयादीनां “समानानेकधर्माध्यवसायादन्यतरधर्माध्यवसायाच्च न संशयः” [ न्यायसू० २ १. १.] इत्यादिना; प्रयोजनादीनां तु "यत्र संशयस्तत्रैवमुत्तरोत्तरप्रसङ्गः " [ न्यायसू० २.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org