________________
का पृ०१५५, वि०पृ०५९८ ] न्यायमञ्जरोग्रन्थिभङ्गः
२३७ १. ७] इत्यतिदेशेन । वादेऽपि विमर्शरहितो भवति निर्णय इति । न हि तत्र सन्देहविषयः परस्मै निश्चितत्वेन प्रतिपद्यते, वीतरागकथात्वात् तस्य ।
॥ वादलक्षणे ॥ कतिपयनिग्रहस्थानेति । पञ्चावयवोत्पन्नं न न्यूनावयवमधिकावयवं वेति व्यवच्छेदो लभ्यत एव ।
विरुद्ध एव हेत्वाभासो वादे चोद्यते नानैकान्तिकादिरिति कथमेतद् युज्यत इति । प्रापक्षे हि विरुद्ध एव हेत्वाभासो विशेषेणोपदिष्ट इतीतरानैकान्तिकादिहेत्वाभासप्रतिषेधोऽर्थादायात इति स्थितम्, तदनेन निराकरोति । नतु यद्यष्टौ निग्रहस्थानानि पञ्च हेत्वाभासा हीनाधिकापसिद्धान्तैः सह तदा भाष्यविरोधः । भाष्यकारेण हि सिद्धान्ताविरुद्धपदव्याख्यानावसरे[१.२.१] “सिद्धान्तमभ्युपेत्य तद्विरोधी[53] विरुद्धः" इति विरुद्ध एव हेत्वाभासो विशेषेण संगृहीत इति । नैक्स् । 'सिद्धान्तमभ्युपेत्यानियमात् कथाप्रसङ्गोऽपसिद्धान्तः' इति भाष्यकारेण पठितम् , सूत्रप्रतीकसाम्यात् लेखकदोषेणासौ पाठो नास्त्यत्रेति अष्टनिग्रहस्थानवाद्यभिप्रायः ।
॥ वितण्डायाम् ॥ 'तहि साधनाद् विना पक्षोऽपिसोऽस्य नास्तीति । साध्यो हि पक्षो' भवति न साधनशून्य इति । औपचारिको वा परमतनिराकरणरूप इति । परमतनिराकरणं परमतप्रतिषेधवाक्यम्, तस्य च यद्यपि स्वतः साध्यत्वाभावात् पक्षत्वं नास्ति तथापि पक्षसिद्धिहेतुत्वेनोपचरितं पक्षत्वम्, पक्ष एव च प्रतिपक्षः । तदेवं पक्षोऽस्यास्तीति वदत् । सप्रतिपक्षस्थापनाहीन इत्यनेन प्रतिपक्षस्य स्थापना प्रतिपक्षस्थापना, तया हीनम् । न प्रतिपक्षेण स्वपक्षेणापीति प्रतिपादितं भवतीति मन्यते, अन्यथा हि स्थापनापदं निरर्थकं स्यादिति । .
हेत्वाभासलक्षणे।। यथा नेक्षेतोद्यन्तमादित्यमिति । अत्र हि ऐ(ई)क्षयासम्बद्रेन, ततोक्ष(तत ईक्ष)णादन्यो धात्वर्थः प्रतिपद्यते सङ्कल्पाख्यः, नेक्षेतानीक्षणसङ्कल्पं कुर्यादि त्यर्थः । प्रकरणसामर्थ्यानुरोधादिति । तत्र हि तस्य व्रतानीत्युपक्रमः] नेक्ष [क्षे]तोद्यन्तमादित्यमित्यादीनां प्रजापतिव्रतानां प्रतिपादनात् । व्रतशब्दश्च विशिष्ट एव सङ्कल्पे रूढ इति तद्वशानन्तः(शात् ततः) प्रकृतिप्रतिपादितेऽर्थे वृत्तिः ।
ननु षट्प्रकाराः परैरनैकान्तिका इष्यन्त इति । सपक्षकदेशवृत्तिः, यथा अगौरयं विषाणित्वादिति; विपक्षव्यापी चायम्, सर्वेषु गोषु विषाणित्वस्य सद्भावादिति । विपक्षकदेशवृत्तिः सपक्षव्यापी यथा गौरयं विषाणित्वादिति, सर्वेषु गोषु सपक्षेषु विषाणित्वस्य भावादगोषु च विपक्षेषु केषुचिन्महिषादिषु भावादश्वादिषु चाभावात् । उभयपक्षैकदेशवृतिर्यथा नित्यः शब्दः स्पर्शत्वादिति, नित्येष्का
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org