________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०१५७, वि०पृ० ६००
काशादिषु सपक्षेषु स्पर्शत्वस्य अभावात् परमावो ( माण्वा) दिषु च भावात् सपक्षैकदेशवृत्तिता, विपक्षेषु चानित्येषु बुद्धयादिषु (ष्व?) भावात् घटादिष्व (पु) भावाद विपक्षैकदेशवृत्तित्वम् । उभयपक्षव्यापी यथा नित्यः [54] शब्दः प्रमेयत्वादिति ।
२३८
विरुद्धश्चतुष्प्रकार इति । धर्मस्वरूपविपरोतसाधनः, यथा नित्यः शब्दः कृतकत्वादिति । धर्मिस्वरूप विपरीतसाधनः, यथा समवायो धर्मी द्रव्यादिभ्यो व्यतिरिच्यत इति साध्यम्, इहप्रत्ययहेतुत्वात् संयोगवदिति; इहप्रत्ययहेतुत्वं संयोगत्वेन सह व्याप्तमुपलब्धं दृष्टान्तः इति समवायस्यासमवायरूपतां साधयति । धर्मविशेषविपरीतसाधनः, यथा परार्थाश्चक्षुरादयः सङ्घातत्वाद् शयनासनादिवदिति सङ्घातत्वस्य संहतपरार्थत्वेन शयनादिषु व्याप्तस्योपलम्भाच्चक्षुरादिष्वपि संहतपरार्थत्वं साधयन्नसंहतपरार्थतारूपधर्मविपर्ययसाधनः । धर्मिविशेषविपरीत साधनः, यथा न द्रव्यं न गुणः कर्म वा भावः सत्प्रत्ययहेतुत्वात् सामान्यविशेषवदिति, अयं हेतुर्यथा सत्ताया द्रव्यादिवैलक्षण्यं साधयति तथा सत्प्रत्ययकर्तृत्वं विशेषमपि बाधते, गोवादिषु सामान्यविशेषेषु तस्यासम्भवादिति ।
सोऽयं विकारो व्यक्तेरपैतीति । तथा च भाष्यम् – “सोऽयं विकारो व्यक्तेरपैति नित्यत्वप्रतिषेधात् न नित्यो विकार उपपद्यते । अपेतोऽपि विकारोऽस्ति विनाशप्रतिषेधात् । सोऽयं नित्यत्वप्रतिषेधादिति हेतुर्व्यक्तेरपेतोऽपि विकारोSस्तीत्यनेन स्वसिद्धान्तेन विरुध्यते । कथम् ? व्यक्तिरात्मलाभः । अपायः प्रच्युतिः । यद्यात्मलाभात् प्रच्युतो विकारोऽस्ति नित्यत्वप्रतिषेधो नोपपद्यते । यत् खलु व्यक्तेरपेतस्यापि विकारस्यास्तित्वं तत् खलु नित्यत्वमिति । नित्यत्वप्रतिषेधो नाम विकारस्या - त्मलाभात् प्रच्युतेरुपपत्ति: । यदात्मलाभात् प्रच्यवते तदनित्यम्, यदस्ति न तदात्मलाभात् प्रच्यवते । अस्तित्वं चात्मलाभात् प्रच्युतिरिति च विरुद्धावेतौ धर्मों सह न सम्भवत इति । सोऽयं हेतुर्यं सिद्धान्तमाश्रित्य प्रवर्तते तमेव व्याहन्तीति [ न्यायभाष्य, १.२.६] । परिदृश्यमानोऽयं महाभूतादिविकारो व्यक्तेरपैत्यभिव्यक्ताद् रूपात् प्रच्यवते, प्रतिषिद्धनित्यधर्मकत्वादिति साङ्ख्यप्रयोगः ।
77
विशेषबाधादिनिबन्धनमिति । यथा [55] प्रतिपादितं धर्मविशेषबाधादि । विशेषानुपलब्धेरप्रत्याख्येयत्वादिति । अयमाशयः । उभयधर्मानुपलब्ध्या तावदुभयोः संशयोऽस्ति, यस्य चोभयधर्मानुपलब्धिः संशयहेतुत्वेनाभिप्रेता स कथमन्यतरधर्मानुपलब्धिः प्रत्याचक्षीत, यो ह्युभयधर्मानुपलब्धिमभ्युपगच्छत्यभ्युपगच्छत्येवासौ अन्यतरधर्मानुपलब्धिमपि तया विनोभयधर्मानुपलब्धेरभावादिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org