________________
२३४
भट्टश्रीचक्रधरप्रणीतः [का०पृ०१४६, वि०पृ०५८८ कथं चापूर्व साधयेदित्येतन्न ज्ञायते। इह त्वपूर्व साधयेदित्येतावन्मात्रमुक्तम्, कथं साधयेदितीतिकर्तव्यता नोक्ता । येषां चार्थानां ज्ञायत एवेतिकर्तव्यता तेषां कर्तव्यतामात्रमुपदिश्यते यथोदनं पचेति । येषां तु न ज्ञायते ते सहेतिकर्तव्यतयोपदिश्यन्ते यथा दर्शपूर्णमासौ, एवं चेत्तन्न ज्ञायते यागेनापूर्वनिर्वृत्तावितिकर्तव्यता यस्मान्नोक्ता । सा चास्ति लौकिकी वैदिकी च । अत इतिकर्तव्यताया अविधिः, अविधानेन यजतेः पूर्ववत्त्वं विहितेतिकर्तव्यताकत्वम् । एवं च लौकिकी । सा कार्या स्याद् वैदिकी निःसंशया । “स लौकिकः स्याद् दृष्टप्रवृत्तित्वा]त्" [मी०सू०७.४.२.२] इति लौकिकीमाश[]क्य “लिङ्गेन वा नियम्येत लिङ्गस्य तद्गुणत्वात्" [मी०सू०७.४.२.४]इत्यादिना वैदिक्येवेति सिद्धान्तितम् । स कर्तव्यतोपायो लौकिकः स्यात् पार्वणस्थालीपाकादौ तस्यैव प्रवृत्तिदृष्टेरिति पूर्वपक्षसूत्रार्थः । लिङ्गेन वेतिकर्तव्यता नियम्येत वैदिक्येव न लौकिकीति, लिङ्गं चा(च) सौर्ये चरौ प्रयाजे कृष्ण]लं जुहोतीत्यादि, एवमादिभिर्लिङ्गैर्ज्ञायते वैदिकीति, कथं कृत्वा ?, लिङ्गस्य तद्गुणत्वात् । एते हि प्रयाजादयो वैदिकस्य दर्शपूर्णमासापूर्वस्य गुणाः । अतो वैदिकाः । पूर्वाङ्गत्वादेषां विकृतौ दर्शनमेवमुपपद्यते । यदि तद् वैदिकमपूर्वं तेभ्यो विकृतियागेभ्यो धर्मान् प्रयच्छति, ते च तद्ग्रहणेन तत्पूर्वका भवेयुः, नान्यथा । अस्ति च दर्शनम्, अतो वैदिक्येवेति द्वितीयसूत्रार्थः । प्राकृतवद् वैकृतं कर्म कर्तव्यमिति । विहितेतिकर्तव्यताकस्य धर्मा अविहितेतिकर्तव्यताके कर्तव्या इत्यर्थः । द्रव्यदेवतादिचोदनासारूप्येति । तथा च सूत्रम्-~-“यस्य लिङ्गमर्थसंयोगादभिधानवत्” इति [मी०सू०८.१.२] । यस्य वैदिकस्य विध्यन्तस्य लिङ्गं किञ्चिच्छद्गतमर्थगतं वा वैदिक्यां कर्मचोदनायां तद्गुणवाक्ये वा दृश्येत, तत्र स विध्यन्तः स्यात्, कुतः १, अर्थसंयोगात् । तस्यार्थस्य लिङ्गस्य तेन विध्यन्तेन संयोगोऽनुभूतपूर्वः संयोगिनोश्चान्यतरो दृश्यमान इतरददृश्यमानमनुमानाद् बुद्धौ सन्निधापयति, अभिधानवत्, यथाऽग्निहोत्रमित्यभिधा[50]नं कौण्डपायिनामयने श्रूयमाणं तैयमिकाग्निहोत्रधर्मान् बुद्धावुपस्थापयति ।
... ननूहमवरेति । तदुक्तम्--"अनाम्नातेषूहमात्र(म्नातेष्वमन्त्रोत्वमाम्नातेषु हि विभागः” इति [मी०सू०२.१.९.३४] । ऊहः 'अग्नये' इत्यस्य स्थाने 'सूर्याय' इति पदस्य प्रयोगः । अध्वर्युणा प्रवरानुश्रावणे क्रियमाणे ये यजमानसम्बन्धिगोत्रप्रसिद्धाद् उपयोगमभिः स्वैरु(मभिस्वरैः उ)च्चार्यन्ते ते प्रवराः । सुब्रह्मण्य इन्द्र आगच्छेति सुब्रह्मण्यनिगदे अमुकगोत्रो यजत इति । यद् यजमानस्य संकीर्तनं तन्नामधेयं येषूहप्रवरनामधेयेषु । अमन्त्रत्वं शिष्टैमन्त्रत्वेनानभिधानादिति । रथन्तरमुत्तरयोर्गाय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org