SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ॥ एकादशम् आह्निकम् ॥ ॥ तर्कलक्षणे ॥ विज्ञाततत्त्वेऽपि [पूर्व-तणावमृष्ट इति । यत्र तर्केणं तत्त्वविज्ञानमभूत् । त्रिशङ्कुरिवेति । त्रिशङ्कुर्नाम राजा वसिष्ठशापाच्चण्डालतां प्राप्तो विश्वामित्रेण याजयित्वा स्वर्ग प्रापितः, स्वर्गाच्च चण्डालत्वेन देवैः प्रच्याव्यमानो विश्वामित्रहुंकारेण नाधःप्राप्तो भूमिम्, मध्य एव व्योम्नोऽवलम्बमानोऽद्यापि तिष्ठतीति । जन्मोच्छेददर्शनात् कृतकतत्कारणप्रत्यय इति । यदि हि जन्मकारणमकृतकं नित्यं स्यात् कारणानुच्छेदः स्यादिति कृतकधर्माधर्मकारणनिश्चय इति । तथा च भाष्यम्-"तस्योदाहरणम्-किमिदं जन्म कृतकेन हेतुना निर्वय॑ते ? आहोस्विद् अकृतकेन? अथाकस्मिकम् ? इत्येवमविज्ञाततत्त्वेऽर्थे कारणोपपत्या ऊहः प्रवर्तते । यदि कृतकेन हेतुना निर्वय॑ते, हेतूच्छेदोपपन्नो जन्मोच्छेदः । अथाकृतकेन, हेतूच्छेदस्याशक्यत्वादनुपपन्नो जन्मोच्छेदः । अथाकं स्मिक]म्, ततोऽकस्मान्निवर्तमानं पुनर्न निर्वय॑तीत्यनुवृत्तिकारणं नोपपद्यते इति जन्मानुच्छेदः । एतस्मिंस्तर्कविषये कर्मनिमित्तं जन्मेति प्रमाणानि प्रवर्तमानानि तर्केणानुगृह्यन्ते, तत्त्वज्ञानविषयस्य च विभागात् तत्त्वज्ञानाय कल्प्यते तर्क इति" [न्यायभा० १.१.१.] । अथवा कार्योदाहरणत्वादस्येति । यथा वृद्धसंज्ञायां शालामालेति रूपोदाहरणं शालीयो मालीय इति तु कार्योदाहरणं तथाऽत्र तर्कः स्वरूपेण न दर्शितः तर्ककार्यः पुनर्निर्णयो दर्शित इति । तथाहि-धर्माधर्मरूपकृतकहेतुजन्यत्वे जन्मनो यावन्निर्णयफलमनुमानं सुप्रतिष्ठं नाभिहितं तावन्मध्ये तर्कदशाऽत्र स्थितैवेति । - हृदयशुद्धिप्रकाशनार्थमिति । मयैवमयमर्थो ज्ञात इति प्रकाशनेन हि वीतरागता ततो दर्शिता भवति । कापिलास्तु बुद्धिधर्ममूहमिति । शुश्रूषा-श्रवण-ग्रहण-धारण-विज्ञानोहापोहतत्त्वाभिनिवेशा अष्टौ ते बुद्धेर्धर्मा उक्ताः । तथा च 'विज्ञानमूहन' इत्याद्याहुः । ___ तत्रापूर्वप्रयुक्तत्वेन धर्माणां प्रतिकरणं भेदे स्थिते इति प्रथमाह्निके व्याख्यातम्। विध्यन्ताधिकरणसिद्धान्तन्यायेनेति । “इतिकर्तव्यताऽविधेर्यजतेः पूर्ववत्त्वम्" [मी. सू०-७.४.१.१] इत्यत्र विध्यन्ताधिकरणे चिन्तितम् । 'सौर्य चकै निर्वपेद् ब्रह्म[49]वर्चसकामः' इत्यत्र तावद् यागेनापूर्वसाधनमिति प्रतीयते, तत्र यागो लौकिकत्वाज्ज्ञायते, १ मुद्रितन्यायभाष्ये तु 'निवृत्तिकारणम्' इति पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy