________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ०१४४, वि० पृ०५८४
तत्प्रतिज्ञायाः शब्दविषयत्वादिति । शब्दप्रमाणविषयत्वादिति । इयं [तद् ] विषयभूतेन शब्देनानुगृह्यते स [शब्दो] ह्यभिधेयत्वेनास्यां प्रतिज्ञायां स्थित इति । अयं तु सर्वप्रतिज्ञा सम्भवी न भवत्यागमानुग्रह इति भाष्यकृन्मतं त्विदमपीति कृत्वा केवलं दर्शितम् । हेतुवचनं त्वनुमानेनानुगृह्यते । सत्यर्थरूपेऽनुमाने तत्प्रतिपादकस्य वचनस्य सम्भवोऽनुग्रहः ।
२३२
इत्यारब्धोषकारा इति प्राङ्नीत्या कृतानुग्रहाः । तदनुगुणफलैरिति । तथाहि प्रत्यक्षेण व्याप्तिग्रहे सत्युदाहरणं प्रवर्तते, इतरथा व्याप्त्यग्रहाद् उदाहरणाप्रवृत्तिरित्युदाहरणानुगुणं प्रत्यक्षफलं व्याप्तिपरिच्छेद इति । इति हि व्याहरद् वृत्तिकार इति । वृत्तिकारो भाष्यकारः । स ह्याह- " न ह्येतस्यां हेतूदाहरणविशुद्ध साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जाति [ निग्रहस्थान ] बहुलत्वं प्रक्रमते । अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते । व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य [धर्मस्य] हेतुत्वेनोपादानं न साधर्म्यमात्र [स्य न वैधर्म्यमात्र ] स्य [वा ] " इति [ न्यायभाष्य, १.१.३९]। अस्य पञ्चावयवस्य वाक्यस्य लौकिकत्वाद् नाग्निहोत्रादिवाक्यवत् स्वतन्त्रप्रामाण्यमपि तु प्रमाणोपस्थापकत्वेन, तत्कस्यावयवस्य किंप्रमाणोपस्थापकत्वमित्याशङ्कानिवारणाय प्रमाणानुग्रहचिन्ता भाष्यकृताऽमुना सूचितेति ॥ भद्रम् ॥
भट्ट श्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे दशममाह्निकम्
न दोषः, य एवार्थ आगमेनाधिगतस्तमेव परस्मा आचष्ट इत्यागमः प्रतिज्ञेत्युच्यते । न्यायवा० १. १. १ । प्रतिज्ञा आगमार्थविषया साक्षाद्विषयाऽऽगमप्रामाण्यप्रतिपादकस्य च परम्प रया । न्या०वा०तात्प० १. १. १ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org