________________
२३१
का पृ०१४४, वि०पृ०५८४ ] न्यायमञ्जरीग्रन्थिमङ्गः
उद्देश्यो व्याप्यते धर्मों व्यापकश्चेतरो मतः । यवृत्तयोगः प्राथम्यमित्याधुद्देश्यलक्षणम् ॥ तवृत्तमेवकारश्च स्यादुपादेयलक्षणम् ।
[श्लो॰वा०, अनुमान०, १०९-११०] इति । दोषश्च स्फुट एव मनसो नित्यस्याप्यमूर्तत्वाभावात् । पक्षधर्मोपसंहारः पक्षधर्मस्य हेतोरुपसंहारः - 'तथा चायं कृतकः' इति ।
नन्वाधारविवक्षायामिति । अथास्यानाघा(श्वा ?)स इतिवत् । सम्बन्धमात्रापेक्षया षष्ठया निर्देशस्तथाप्याधाराधेयभाव एवासौ सम्बन्ध इति कुतो लभ्यत इति तदेवाह-सम्बन्धमात्रे वाच्ये वेति । सर्वत्र विशेषोऽन्तर्व्यवस्थित इति । राज(जा) पुरुषं बिभर्ति यतो राजपुरुष इति ।
अतश्च धर्माय जिज्ञासेति । यथात्र सामान्येन भाष्यकृता 'सा हि तस्य ज्ञातुमिच्छा' [शाबरभा.१.१.१.] इत्यनेन षष्ठीसमासनिर्देशाय प्रदर्शिता, 'धर्माय जिज्ञासा' [शाबरभा.१.१.१.] इति त्वनेन तादर्थ्याख्यसम्बन्धविशेषपर्यवसायित्वं प्रतिपादितम् , तदुक्तम्-'सा हि तस्य' इत्यनेनोक्तधर्मस्येत्येष विग्रहः, 'धर्माय' इति तु पूर्वोक्तमस्यैवार्थोपवर्णनमिति । [47] तद्वदिह ।
डिण्डिकरागं परित्यज्येति । क्षपणकाभिनिवेशं त्यक्त्वेत्यर्थः' । विदुषां वाच्यो हेतुरेवेति ।। तद्भावहेतुभावौ हि दृष्टान्ते तदवेदिनः । ख्याप्येते विदुषां वाच्यो हेतुरेव हि केवलः ॥
प्रमाणवा०, ३.२६] इति परिपूर्णः श्लोकः । प्रतिज्ञायास्तावदागमोऽनुग्राहक उपेयत इति । सर्वा एव हि प्रतिज्ञाः प्रथममुच्चरन्त्य आग[म]वत् प्रतिभान्तीति तत्तुल्यविषया एव भवन्त्यतः तेनानुगुह्यन्ते । आगच्छति [आगमवत् ?] प्रतिभानेन तद(द्)विषयोपादेयतासंभवादागमानुग्रहः । यद्येवमागमवत् प्रतिभानात् प्रतिज्ञायाः कथं हेतुवचनमित्याह-उक्त्वा त्विति ।
१ डिण्डिकरागं परित्यज्य.... । हेतुबि० पृ०५६। डिण्डिकाः नग्नाचार्याः। हेतुबिल्टो पृ० ७१ । ततः प्रविशति डिण्डिकवेषो विदूषकः । प्रतिज्ञायौग० तृतीयोऽङ्कः । डिण्डिकादीनां त्रिपादारूढानाम् । प्रज्ञापना०हरि० पृ० १३४ । डिण्डिको नाम रक्तवर्णो मूषकविशेषः । डिण्डिका हि प्रथमनामलिखने विवादं कुर्वन्ति । प्रमाणमी. (सिंघी) टिप्पण पृ० ५१ । २ आगमः प्रतिज्ञा। न्यायभा० १.१.१। तत्र आगमः प्रतिज्ञेति न युक्तम , आगमस्य तत्त्वव्यवच्छेदकत्वात् प्रतिज्ञार्थस्य च प्रतिपाद्यत्वात् । आगमाधिगतस्य प्रतिपाद्यत्वात् आगमः प्रतिक्षेति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org