Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 263
________________ भट्टश्रीचक्रधरप्रणीतः [ का०पृ०१४४, वि० पृ०५८४ तत्प्रतिज्ञायाः शब्दविषयत्वादिति । शब्दप्रमाणविषयत्वादिति । इयं [तद् ] विषयभूतेन शब्देनानुगृह्यते स [शब्दो] ह्यभिधेयत्वेनास्यां प्रतिज्ञायां स्थित इति । अयं तु सर्वप्रतिज्ञा सम्भवी न भवत्यागमानुग्रह इति भाष्यकृन्मतं त्विदमपीति कृत्वा केवलं दर्शितम् । हेतुवचनं त्वनुमानेनानुगृह्यते । सत्यर्थरूपेऽनुमाने तत्प्रतिपादकस्य वचनस्य सम्भवोऽनुग्रहः । २३२ इत्यारब्धोषकारा इति प्राङ्नीत्या कृतानुग्रहाः । तदनुगुणफलैरिति । तथाहि प्रत्यक्षेण व्याप्तिग्रहे सत्युदाहरणं प्रवर्तते, इतरथा व्याप्त्यग्रहाद् उदाहरणाप्रवृत्तिरित्युदाहरणानुगुणं प्रत्यक्षफलं व्याप्तिपरिच्छेद इति । इति हि व्याहरद् वृत्तिकार इति । वृत्तिकारो भाष्यकारः । स ह्याह- " न ह्येतस्यां हेतूदाहरणविशुद्ध साधर्म्यवैधर्म्याभ्यां प्रत्यवस्थानस्य विकल्पाज्जाति [ निग्रहस्थान ] बहुलत्वं प्रक्रमते । अव्यवस्थाप्य खलु धर्मयोः साध्यसाधनभावमुदाहरणे जातिवादी प्रत्यवतिष्ठते । व्यवस्थिते तु खलु धर्मयोः साध्यसाधनभावे दृष्टान्तस्थे गृह्यमाणे साधनभूतस्य [धर्मस्य] हेतुत्वेनोपादानं न साधर्म्यमात्र [स्य न वैधर्म्यमात्र ] स्य [वा ] " इति [ न्यायभाष्य, १.१.३९]। अस्य पञ्चावयवस्य वाक्यस्य लौकिकत्वाद् नाग्निहोत्रादिवाक्यवत् स्वतन्त्रप्रामाण्यमपि तु प्रमाणोपस्थापकत्वेन, तत्कस्यावयवस्य किंप्रमाणोपस्थापकत्वमित्याशङ्कानिवारणाय प्रमाणानुग्रहचिन्ता भाष्यकृताऽमुना सूचितेति ॥ भद्रम् ॥ भट्ट श्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे दशममाह्निकम् न दोषः, य एवार्थ आगमेनाधिगतस्तमेव परस्मा आचष्ट इत्यागमः प्रतिज्ञेत्युच्यते । न्यायवा० १. १. १ । प्रतिज्ञा आगमार्थविषया साक्षाद्विषयाऽऽगमप्रामाण्यप्रतिपादकस्य च परम्प रया । न्या०वा०तात्प० १. १. १ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312