Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 257
________________ ॥ दशममासिकम् ॥ तच्चानुगतं वा भवतु व्यावृत्तं वेति । सर्वथा यादृक्तादृग् भवतु सामान्यरूपतामात्मनोऽनाक्षिपन्न संशयः जन्मनि समर्थं भवतीति आक्षिप्तसामान्यवाचकः; यत्पुनः साक्षादेवोभयवृत्तित्वेन सामान्यं नाक्षेपवृत्त्या तद्वाचकः अनुगतसामान्यवाचको विशेषलक्षण इति । नार्थान्तरविशेषत्वादिति[42] । प्राक्तनचोद्यपरिहाराय भाष्यकृतोक्तम् । तदेव भाष्यं पठित्वोत्तरग्रन्थेन व्याचष्टे अर्थान्तरविशेषश्च धय॑वेत्यादिना । तथापि प्रेङ्वारूढस्येति । प्रेङ्खारूढो हि द्रुततरं गच्छन् वृक्षत्वं ध[व]खदिरसामान्यधर्म पश्यति, अनध्यवसायाच्च व्याक्षेपेण दृश्यानपि विशेषान् नावधारयति, न च संशयः; विशेषस्मृत्यभावादिति । चलवृक्षादिज्ञानं वा यत् प्रेखाद्यारूढस्य न तत् संशयज्ञानम् अनध्यवसायरूपत्वात् तस्येति' । इन्द्रियार्थसन्निकर्पोत्पन्नग्रहणवदिति । यथा प्रत्यक्षलक्षणे 'इन्द्रियार्थसन्निकर्षोत्पन्न'ग्रहणमसाधारणलक्षणमुक्तम् , न तु कारणान्तरव्यवच्छेदकम् 'इन्द्रियसन्निकर्षादेव' इति । एकैकपदोपादानफलं च पूर्ववद् अत्रापि दर्शयितव्यमिति । पनसत्वाद्यसाधारणधर्मिदर्शनादुपलब्ध्यनुपलब्ध्यव्यवस्था[तः अनेकधर्मोपपत्तेः इत्येता]वदस्तु [मा भूद् 'विशेषापेक्षः' इति पदम् । उक्तमत्र]--विशेषानुपलम्भादपि न संशय इति विशेषापेक्षया इति पदम् । यद्येवमनेकधर्मोपपत्तेर्विशेषापेक्ष इत्येतावदस्तु मा भूदुपलब्ध्यनुपलब्ध्यव्यवस्थापदम् । उक्तमत्र-असाधारणधर्मनिश्चये द्रव्यत्वाद्यनुस्मृतावपि अधिगतविशेषस्य संशयाभावात् । यद्येवं विशेषापेक्ष इति न वाच्यं पूर्वोक्तादेव पदद्वयात् संशयोऽस्तु । न, पनसत्वाद्यसाधारणधर्मदर्शनेऽपि विशेषस्मृत्यभावाद् न संशयः किन्त्वनध्यवसाय एव । अनेकधर्मोपपत्तेरिति पदं विना उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति च पदद्वयं संशयहेतुत्वेन नाशङ्कनीयम् , अनेकधर्मोपलब्धि विना कस्य द्वितीयपदेनाभिधानम् , पूर्वपदार्थस्य विशेषणत्वेनोत्तरपदार्थस्य व्यवस्थितत्वादिति । तदेवमत्रापि पदत्रयसाफल्यम् । १ एवं समानधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्चेति पदद्वयेऽपि नौयानप्रेङखादिगतस्य न भवति संशयः । न्यायवा० १.१. २३ । नौदोलाद्यारूढो हि गच्छन् विदूरे आरोहपरिणाहवद्वस्तुदर्शने सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यभावान्नग इति वा नाग इति वा न सन्दिग्धे। न्याय०वा०तात्प० १.१.२३ । २ किं तावदयं कारणोपदेश आहो संशयस्वरूपावधारणमिति ? । यदि कारणनिर्देशः अत्यल्पमिदमुच्यते समानानेकधर्मादिभ्य इति, अन्या-- न्यपि संशयकारणानि, तान्युपसङ्ख्येयानि । यथाऽऽत्ममनःसंयोग आन्तरस्य, आत्ममनःसन्निकर्षः इन्द्रियार्थसन्निकर्षों बाह्यस्येति । न्यायवा०१.१.२३ । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312