________________
॥ दशममासिकम् ॥ तच्चानुगतं वा भवतु व्यावृत्तं वेति । सर्वथा यादृक्तादृग् भवतु सामान्यरूपतामात्मनोऽनाक्षिपन्न संशयः जन्मनि समर्थं भवतीति आक्षिप्तसामान्यवाचकः; यत्पुनः साक्षादेवोभयवृत्तित्वेन सामान्यं नाक्षेपवृत्त्या तद्वाचकः अनुगतसामान्यवाचको विशेषलक्षण इति ।
नार्थान्तरविशेषत्वादिति[42] । प्राक्तनचोद्यपरिहाराय भाष्यकृतोक्तम् । तदेव भाष्यं पठित्वोत्तरग्रन्थेन व्याचष्टे अर्थान्तरविशेषश्च धय॑वेत्यादिना । तथापि प्रेङ्वारूढस्येति । प्रेङ्खारूढो हि द्रुततरं गच्छन् वृक्षत्वं ध[व]खदिरसामान्यधर्म पश्यति, अनध्यवसायाच्च व्याक्षेपेण दृश्यानपि विशेषान् नावधारयति, न च संशयः; विशेषस्मृत्यभावादिति । चलवृक्षादिज्ञानं वा यत् प्रेखाद्यारूढस्य न तत् संशयज्ञानम् अनध्यवसायरूपत्वात् तस्येति' ।
इन्द्रियार्थसन्निकर्पोत्पन्नग्रहणवदिति । यथा प्रत्यक्षलक्षणे 'इन्द्रियार्थसन्निकर्षोत्पन्न'ग्रहणमसाधारणलक्षणमुक्तम् , न तु कारणान्तरव्यवच्छेदकम् 'इन्द्रियसन्निकर्षादेव' इति ।
एकैकपदोपादानफलं च पूर्ववद् अत्रापि दर्शयितव्यमिति । पनसत्वाद्यसाधारणधर्मिदर्शनादुपलब्ध्यनुपलब्ध्यव्यवस्था[तः अनेकधर्मोपपत्तेः इत्येता]वदस्तु [मा भूद् 'विशेषापेक्षः' इति पदम् । उक्तमत्र]--विशेषानुपलम्भादपि न संशय इति विशेषापेक्षया इति पदम् । यद्येवमनेकधर्मोपपत्तेर्विशेषापेक्ष इत्येतावदस्तु मा भूदुपलब्ध्यनुपलब्ध्यव्यवस्थापदम् । उक्तमत्र-असाधारणधर्मनिश्चये द्रव्यत्वाद्यनुस्मृतावपि अधिगतविशेषस्य संशयाभावात् । यद्येवं विशेषापेक्ष इति न वाच्यं पूर्वोक्तादेव पदद्वयात् संशयोऽस्तु । न, पनसत्वाद्यसाधारणधर्मदर्शनेऽपि विशेषस्मृत्यभावाद् न संशयः किन्त्वनध्यवसाय एव । अनेकधर्मोपपत्तेरिति पदं विना उपलब्ध्यनुपलब्ध्यव्यवस्थातो विशेषापेक्ष इति च पदद्वयं संशयहेतुत्वेन नाशङ्कनीयम् , अनेकधर्मोपलब्धि विना कस्य द्वितीयपदेनाभिधानम् , पूर्वपदार्थस्य विशेषणत्वेनोत्तरपदार्थस्य व्यवस्थितत्वादिति । तदेवमत्रापि पदत्रयसाफल्यम् ।
१ एवं समानधर्मोपपत्तेरुपलब्ध्यनुपलब्ध्यव्यवस्थातश्चेति पदद्वयेऽपि नौयानप्रेङखादिगतस्य न भवति संशयः । न्यायवा० १.१. २३ । नौदोलाद्यारूढो हि गच्छन् विदूरे आरोहपरिणाहवद्वस्तुदर्शने सत्यपि च साधकबाधकप्रमाणाभावे विशेषस्मृत्यभावान्नग इति वा नाग इति वा न सन्दिग्धे। न्याय०वा०तात्प० १.१.२३ । २ किं तावदयं कारणोपदेश आहो संशयस्वरूपावधारणमिति ? । यदि कारणनिर्देशः अत्यल्पमिदमुच्यते समानानेकधर्मादिभ्य इति, अन्या-- न्यपि संशयकारणानि, तान्युपसङ्ख्येयानि । यथाऽऽत्ममनःसंयोग आन्तरस्य, आत्ममनःसन्निकर्षः इन्द्रियार्थसन्निकर्षों बाह्यस्येति । न्यायवा०१.१.२३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org