________________
का०पू०११७, वि० पृ०५५३ ]
न्यायमञ्जरीग्रन्थिभङ्गः
२२५
S.
धारणाsssर्षणादि त्विति । एकस्यावयवस्य धारणे सर्वस्य धारणमेकस्य चाssकर्षणे सर्वस्याऽऽकर्षणमसत्यवयविनि न स्यादिति' । काष्ठेति काष्ठ [मूल] केऽनारब्धकार्यत्वम् अन्त्यावयवि(वा)नामनारम्भकत्वात् । षट्केन युगपद् योगादित्यस्योत्तर मर्धम्[तेषां] समानदेशत्वे पिण्डः स्यादणुमात्रकः ॥ [ विज्ञप्तिमात्रताविंशतिका १२] इति ॥ दिक्चतुष्टयादूर्ध्वभागादधोभागाच्चागतैः परमाणुभिरेकस्य परमाणोरवश्यं योगो वक्तव्योऽन्यथा सञ्चयाभावाद । तत्र भिन्नैर्भागैर्योगः परमाणोः । सावयवत्वात् तस्यान्येऽवयवाः कल्प्याः, तेषामपि कल्पितावयवानां परस्परमयमेव न्याय इत्यनवस्था । अथ निर्भागत्वात् परमाणोर्यथैकेन सम्बन्धस्तथाऽपरेणापीति, तदेवमेकदेशत्वादणुमात्रपरिमाणस्तत्सञ्चयः स्यादित्यर्थः ।
"अवयविविनाशोऽपि नानुल्लिखितो भवेद् अवयवविभागहेतुत्वात् तन्नाशस्य । वृत्तिश्च व्यासज्यैवेति । कात्स्न्येन सकलावयवेषु न, एकैकपरिसमाप्त्या । किसमुदायालम्बनइति । केषां समुदाय इति किंसमुदायः ।
तस्मात् प्रमाणतोऽशक्य इति । यदि प्रामाणिको वस्तुनिर्णयस्तत्तूष्णीं स्थातव्यम्, अप्रामाणिकश्चेत् प्रमाणाभाव एवोद्भाव्य इति ।
कस्तो नियन्तुं क्षमः इति यदुक्तं तदेव स्फुटयितुमाह- - पुंसा न किञ्चिदि
- त्यादिना ।
यदपीह केचिदित्यादिना पाशुपतमतमाह । महेश्वरप्रणिधानात् तदेह (तदेह)प्राप्तिं मोक्षमाहुः ।
Jain Education International
भट्टश्रीशङ्करात्मजचक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे नवममाह्निकम्
१ धारणाकर्षणोपपत्तेश्च । न्यायसू० २.१.३५ । धारणाकर्षणोपपत्तेश्व अवयव्यर्था - न्तरभूत इति चार्थः । किमिदं धारणं नाम ? एकदेशग्रहण साहचर्ये सत्यवयविनो देशान्तरप्राप्तिप्रतिषेधो धारणम् । यदाऽयमवयविन एकदेशं गृह्णाति तदैकदेशग्रहणेन सहावयविनमपि गृह्णाति । तेन च ग्रहणेन यदवयविनो देशान्तरप्राप्तिनिराकरणं तद्धारणम् । आकर्षण नाम एकदेशग्रहण साहचर्येण यदवयविनो देशान्तरप्रापणं पूर्ववत् । कुत एतत् ? लोकतः । लोकः खलु धारणाकर्षणे एवं प्रयुङ्क्ते इति । ते एते धारणाकर्षणेऽवयविनं साधयतः । कथमिति ? निरवयवे चावयवे चादर्शनात् । न हि धारणाकर्षणे निरवयवे अवयवे च दृष्टे, दृष्टे च धारणाकर्षणे, तस्मादवयविधर्माविति । न्यायवा० २.१.३५ । २ मुद्रितमञ्जर्या तु 'अवयव' इति पाठः । ३ अन्यत्र दुःखनिवृत्तिरेव दुःखान्तः । इह तु पारमेश्वर्यप्राप्तिश्च । ... अन्यत्र पुनरावृत्तिरूपस्वर्गादिफलको विधिः । इह पुनरपुनरावृत्तिरूपसामीप्यादिफलकः । सर्वदर्शनसं० पृ० १७१ ।
२९
For Private & Personal Use Only
www.jainelibrary.org