________________
२२४
भट्टश्रीचक्रधरप्रणीतः काल्पृ०११२, वि०पृ०५४८ द्वौ हि विज्ञानसन्तानौ - शक्तिविज्ञानसन्तानः प्रवृत्तिविज्ञानसन्तानश्च । तत्र प्रवृत्तिविज्ञानं शक्तिविज्ञानात् सहभाविनो लब्धपरिपाकां वासनामपेक्ष्य विशिष्टमुत्तरं प्रवृत्तिज्ञानं जनयति । शक्तिविज्ञानं च सहजप्रवृत्तिविज्ञानसहितं विशिष्टमुत्तरमालयविज्ञानमित्येवमुत्तरोत्तराण्यपि ज्ञानानि । वासनापरिपाकहेतुश्च क्वचित् तदेव सहभावि प्रवृत्तिज्ञानम्, यथा धूमज्ञानं स्वयमालयविज्ञानगतामग्निज्ञानवासनामुबोधयत् तया सहितमग्निज्ञानं जनयतीत्येवं च ज्ञानवैचित्र्यस्यापि न निर्हेतुकत्वम्' । यदाह-[41]
अनादिवासनाहेतुरलीकस्यावभासनम् । आलयज्ञानसन्तत्या ततो नाहेतुकं भवेत् ॥ [ ]
तावुभौ ज्ञानसन्तानावेकत्रावस्थितावपटुत्वात् तु शक्तिरूपविज्ञानसन्तानान(व) नुभवपटुत्वेन चेतरस्य संवित्तिरिति, एवं च कथं निराधारत्वादिचोद्यावकाश इत्याशङ्क्याह-न चालयविज्ञानं नाम किश्चिदस्तीति । आलीयन्ते प्रवृत्तिज्ञाननिता वासना एकत्र यस्मिंस्तदालयविज्ञानं शक्तिविज्ञानमिति चोच्यते ।
१ यत्रात्माद्युपचारो धर्मोपचारश्च स पुनर्हेतुभावेन फलभावेन च विद्यते। तत्र हेतुपरिणामो याऽऽलयविज्ञाने विपाकनिष्यन्दवासनापरिपुष्टिः । फलपरिणामः पुनर्विपाकवासनावृत्तिलाभाद् आलयविज्ञानस्य पूर्वकर्माक्षेपपरिसमाप्तौ या निकायसभागान्तरेष्वभिनिवतिः निष्यन्दवासनावृत्तिलाभाच्च या प्रवृत्तिविज्ञानानां क्लिष्टस्य च मनस आलयविज्ञानाद् अभिनिर्वृत्तिः । तत्र प्रवृत्तिविज्ञानं कुशलाकुशलम् आलयविज्ञाने विपाकवासनां निष्यन्दवासनां चाऽऽधत्ते। अव्याकृतं क्लिष्टं च मनो निष्यन्दवासनामेव । त्रि.विज्ञप्ति भा० १। आलयविज्ञानं हि विज्ञानान्तराणां हेतुप्रत्ययविज्ञानमित्यालीयन्ते सर्वसावधर्मास्तत्र फलभावेन तच्च तेषु हेतुभावेनेत्यालयः । सत्त्वभाजनलोकविज्ञापनात् तन्निर्भासतया विज्ञानम् । तच्चैकान्तविपाकत्वादव्याकृतमेव । सर्वसासवधर्माणां बोजानुबद्धमन्येषां च प्रवृत्तिविज्ञानानां हैतुप्रत्ययत्वेन प्रत्ययविज्ञानम् । तत्प्रत्ययं प्रवृत्तिविज्ञानमौपभोगिकमिति । तस्मादालयविज्ञानात् प्रत्येति इति तत्प्रत्ययमुत्पद्यत इत्यर्थ । कथमुत्पद्यते? प्रवृत्तिविज्ञानं हि आलयविज्ञानात् प्रवर्तमानमनुत्पन्नस्य तज्जातीयस्य प्रवृत्तिविज्ञानस्योत्पादकं बीजमालयविज्ञाने विस्तारयति । तस्माद् विस्तारितबीजोत्पन्नविशेषलाभात् पुनस्तज्जातीय प्रवृत्तिविज्ञानमुत्पद्यते इत्येवं तत्प्रत्ययं प्रवृत्तिविज्ञानं भवति । मध्यान्तवि०सू०भा०टी०(स्थिरमति)१.१० । द्र० लङ्कावतारसूत्र २.९८, न्यायकणि पृ०२५८-९ । अथ पूर्वचित्तसहजाच्चेतनाविशेषात् पूर्वशक्तिविशिष्ट चित्तमुत्पद्यते सोऽस्य शक्तिविशिष्टचित्तोत्पादो वासना। तथा हि पूर्वचित्तं रूपादिविषयं प्रवृत्तिविज्ञानं यत् तत् षड्विधम् । पञ्च रूपादिविज्ञानान्यविकल्पकानि षष्ठं च विकल्पविज्ञानम् । तेन सह जातः समानकाल चेतनाविशेषोऽहङ्कारास्पदमालयविज्ञानम् । तस्मात् पूर्वशक्तिविशिष्टचितोत्पादो वासनेति । स्याद्वादमं०१९। द्र० Keith'sBuddhist Philosophy p. 253 २ तत्र सर्वसाङ्क्लेशिकधर्मबीजस्थानत्वाद् आलयः । आलयः स्थानमिति पर्यायौ। अथवाऽऽलीयन्ते उपनिबध्यन्तेऽस्मिन् सर्वधर्माः कार्यभावेन तद्वाऽऽलीयते उपनिबध्यते कारणभावेन सर्वधर्मेषु इति आलयः । त्रिविज्ञप्ति भा०.२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org