________________
का०पृ०११२, वि०पृ०५४८ ] न्यायमअरोप्रन्थिभङ्गः
२२३ तस्या नानुभवोऽपर इति' । अनुभव इति ग्राहकांशमाह । ग्राह्यग्राहकवैधुर्यादिति' ग्राह्यग्राहकलक्षणवैकल्यादित्यर्थः । [40] उत्पत्तिसारूप्याम्यां हि बाह्यस्य ग्राह्यत्वं व्यवस्थापितम्--तत उत्पत्तेस्तत्स्वरूपत्वाच्च बाह्यं ग्राह्य ज्ञानं च ग्राहकमिति । तदेतत् ग्राह्यग्राहकयोर्लक्षणं विधुरम् , व्यभिचारादसम्भवाच्च । तथा च समनन्तरप्रत्ययादुत्पद्यते तज्ज्ञानं तत्स्वरूपं च, अथ तस्य न ग्राहकमिति व्यभिचारः । असम्भवस्तु ज्ञाने स्थूलस्याऽऽकारस्य प्रतिभासाद् बहिस्त्ववयव्यादेरसत्त्वादिति ।
__ अहं नील[मित्य प्रतिभासादिति । ग्राहकस्यापि साकारत्वाभ्युपगमात् तदीयस्य नीलाकारस्य 'अहं'शब्दसामानाधिकरण्येनाप्रतिभासनात् ।
तदिदमर्थस्य मूर्तिद्रवत्वेति । तद्विपरीतस्य गुण-कर्म-सामान्यादेः ।
भवेदानुमेयत्वं यत् त्वयैव च दूषितमिति । “बाह्यसिद्धिः स्याद् व्यतिरेकतः” इति [ ] सौत्रान्तिकमतं दूषयता त्वया दूषितमिति ।
- सर्व एव घटादयः स्वप्रकाशाः स्युरिति । यदि हि दीपो दीपान्तरं नापेक्षत इति स्वप्रकाशस्तर्हि मार्जारचक्षुषा प्रकाशनिरपेक्षेण गृह्यन्त इति अन्येनापि पदार्था गृह्यमाणाः स्वप्रकाशाः स्युरिति ।
न च ज्ञानत्वं सामान्यमिति । यदि हि ज्ञानत्वमुभयोरनुगतं प्रतिभासेत ज्ञानयोर्ग्राह्यग्राहकत्वं कथञ्चित् कल्प्येत । अतो विच्छिन्नश्चेदिति । यत एव ज्ञानत्वे च ग्राह्यांशस्य परामर्शो नास्ति तत एव ।
दृष्टश्च चित्रादावनेकवर्णसमावेश इति । न चासौ दृष्टत्वादेवापारमार्थिक इति शेषः ।
तथा शक्नोति भाषितम् बहुवचनादियुक्तो नान्यथा ।
किञ्च भिक्षुपक्षे क्षणिकत्वेन ज्ञानानामित्यादिना वास[ना]मा[त्रेण] शब्दाघटमानतामाह ।
१-२ प्र०वा०२.३२७ । ३ तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम् । संवेद्यं स्यात् समानार्थ विज्ञानं समनन्तरम् ॥ प्र०या० २.३२३। ४ सरूपयन्ति तत् केन स्थलाभासं च तेऽणवः । प्र०वा.२.३२१ । ५ किञ्च, यदि बाह्य नास्ति किमिदानीं नियताकारं प्रतीयते नीलमेतदिति । विज्ञानाकारोऽयमिति चेन्न, ज्ञानाद् बहिर्भूतस्य संवेदनात् । ज्ञानाकारत्वे तु 'अहं नीलम्' इति प्रीतिः स्यात् न तु 'इदं नीलम्' इति । न्या०कं पृ०३१० । द्र० स्याद्वादमं पृ०११२, सर्वदर्शनसं० पृ.३४। ६ मुद्रितमार्या तु "अनेकबल' इति पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org