Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०१२७, वि०पृ० ५६४ विक्षेपादनर्थित्वाद्वा विशेषस्मृत्यभावे न संशय इति तदर्थं विशेषापेक्ष इति पदम् । एवमनुपलब्धावपि पदत्रययोजना कार्या ।
॥ सिद्धान्तलक्षणे ॥ इत्थम्भावव्यवस्थेति' अस्य विवरणं धर्मनियम इति । शब्दस्य सामान्येन सिद्धस्येत्थम्भावव्यवस्था अनित्य एव शब्द इत्यनित्यत्वाख्यधर्मनियमः । इतरेतरसम्बद्धस्यार्थसमूहस्येति । नासम्बद्वस्य दशदाडिमादिवत् । ब्रह्मवादिनां हि सर्वेवेयमविद्येति । ग्राह्यस्य प्रपञ्चस्यासत्यत्वात् । तद्ग्राहकस्य ज्ञानस्याविद्यात्वम् । सङ्ख्या- लक्षण - विषयविप्रतिपत्ति[स्त्विति ] | सङ्ख्याविप्रतिपत्तिः - "द्वे एव प्रमाणे" इत्यादिका । लक्षणविप्रतिपत्तिः - 'प्रत्यक्षं कल्पनापोढम्" इत्यादिका । विषयविप्रतिपत्तिः -- 'स्वलक्षणविषयं प्रत्यक्षम् इत्यादिका ।
———
२२८
इन्द्रियव्यतिरिक्तो ज्ञातेति । एकार्थग्रहणादेकार्थताप्रसाधकात् प्रतिसन्धानलक्षणाद् हेतोरित्यर्थः । यदि हि एकमिन्द्रियं स्यात् तदा यमहमद्राक्षं तं स्पृशामीति तत्कृतमेव प्रतिसन्धानं भवेत् । यदि वाऽनियतविषयं स्यात् तदाऽप्यनियतविषयत्वादेकेनैवेन्द्रियेण प्रतिसन्धानं सिद्धयेद् विनाऽप्येकेनानियत विषयेण ज्ञात्रा । यदि गुणव्यतिरिक्तं द्रव्यं न स्यात् तदा विषयशून्यत्वात् प्रतिसन्धानस्य अप्रमाणं तत् स्यादेकार्थसिद्धौ ं ।
अभ्युपगमार्थः कीदृश इति । प्रमाणेनैव स्वार्थस्य साधयितुमभिप्रेतत्वादिति । अन्यत्रैव तैः सूत्रार्थी नीत इति । आकाशविशेषगुणत्वादिधर्मपरीक्षारहितस्याभ्युपगमादित्यत्रार्थे तैः सूत्रार्थी योजितः ।
॥ अवयवलक्षणे ॥ साध्यनिर्देशस्त्वनियमित इति । तमपहायापि भवेदित्यतिव्यापकं लक्षणमिति । एवं हि सति यः साध्यनिर्देशः सा प्रतिज्ञेति न स्यात्, अप्रतिज्ञारूपस्यापि साध्यनिर्देशस्य सम्भवात् । यथैष पन्थाः सुघ्नं गच्छतीति । नन्वत्रापि वाक्ये गच्छत्येवेति अवधारणमस्त्येव । नैतदेवम् । अवधारणं हि विशेषणेन समानविषयम् । न च 'एष पन्थाः स्रघ्नं गच्छति' इति अत्र विशेषणं सफलम् । तस्य हीष्टानिष्टसंदेहेऽनिष्टव्यवच्छेदः फलम् । यथा च विशेषणस्येष्टानिष्टप्रसक्तौ 'नीलमेवोत्पलं नानीलम्' इत्यनिष्टव्यवच्छेदः प्रयोजनं तथाs [45] वधारणस्य । न चोत्पलस्येव नीलानी -
1
१-२ न्यायभा० १. १. २६ ( उत्थानिका ) । ३ न्यायभा० १. १. २६ । ४ " अनर्थकानि - 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । अधरोरुकमेतत् कुमार्याः स्कैयकृतस्य पिता प्रतिशीनः ॥” इति पातञ्जलमहाभाष्ये १. १. १, १. ४. ४५ । एतन्महाभाष्यपाठः हरिभद्रसूरिकृत - आवश्यक निर्युक्तौ ( पृ० ३७५) श्लोकरूपेण लब्धः । तद्यथा - 'दश दाडिमानि षडपूपाः कुण्डमजाजिनं पललपिण्डः । चर कीटके दिशमुदीचीं स्पर्शनकस्य पिता प्रतिशीनः ॥ ५ बौद्ध-वैशेषिकयोः सिद्धान्तः । ६ दिङ्नागस्य प्रत्यक्षलक्षणम् । प्रमाणसमु० १.३ । ७ बौद्धराद्धान्तः । ८ दर्शनस्पर्शनाभ्यामेकार्थग्रहणात् । न्यायसू० ३. १. १ । ९ द्र० न्यायवा० १. १. ३३ । अत्रान्यव्यवच्छेदं वाक्यार्थ मन्वानो भदन्तः प्रतिज्ञालक्षणम तिव्याप्त्यव्याप्तिभ्यामाक्षिपति । न्या०वा०तात्प० १. १. ३३ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312