________________
का०पृ०१३५, वि०पृ०५७४] न्यायमञ्जरीग्रन्थिभङ्गः
२२९ लत्वं गमनस्य द्वैरूप्यमस्ति येन गच्छत्येवेत्यनेन रूपान्तरस्य व्यवच्छेदः क्रियेत' । न हि तत्रैष एवेति । एष एवेति नियमो मार्गान्तराणामपि सुनगामिनां सम्भवाद् वक्तुं न पार्यते । स्रघ्नमेवेति वेति । न चासौ नियमेन स्रुघ्नमेव गच्छति, प्नात् परतोऽवस्थितानामपि नगरान्तरनामान्तराणां तेन मार्गेण प्राप्यत्वात् ।
नियमस्तद्विपक्षादिति । तस्यानित्यत्वस्य विपक्षो नित्यत्वम् । ततो नियमः क्रियते अनित्य एवेत्यनेन । नाविरोधिनों गुणत्वादेः ।
बाधोऽनुमानसारूप्येति । सारूप्यकृत उपमानकृतः ।
पक्ष-विपक्षवृत्तेस्तत्साधर्म्यस्वभावत्वादिति । विरुद्धस्य असति पक्षवृत्तित्वेऽसिद्धत्वं स्यान्न विरुद्धत्वमिति । तदुदाहरणसाधम्ये साध्यदृष्टान्तधर्मिसाधारणो धर्मों हेतुरिति । ननु साधर्म्यशब्देन कथं धर्मोऽभिधीयते । समानो धर्मो यस्यासौ सधर्मा तद्भावः साधर्म्यमिति सधर्मशब्दस्य धर्मिणि प्रवृत्तिनिमित्तं धर्म एवेति स एव साधर्म्यशब्देनोच्यत इत्यदोषः ।।
सोऽपि च प्रयोज्यप्रयोजकभावगर्भः साधनाङ्गतामेतीति । असति साधनधर्मस्य साध्यधर्मप्रयोजकत्वे हेतुत्वाभावात् । न वाक्यांशो न पञ्चमीति । साधHप्रतिपादकं हि वचो वाक्यांशो न साधर्म्यमित्यर्थः ।
१ सर्वस्मिन् वाक्येऽवधारणमिति तु न बुद्धयामहे । तद्यथा-गोपालकेन मार्गेऽपदिष्टे 'एष पन्थाः श्रुघ्नं गच्छति' इति नावधारणस्य विषयं पश्यामः, अवधारणस्य तु विषयः सामान्यश्रुतौ नियमः । न्यायवा०१. १. ३३ । २-३ श्लोवा० अनु०५५। ४ मुद्रितमञ्जर्या तु 'बाधोऽनुमानरूपस्य' इति पाठः । ५ दिङ्नागवचनमिदम् । उदाहरणसाधाच्च किमन्यत् साध्यसाधनमित्येके । न किलोदाहरणसाधर्म्यव्यतिरेकेण साध्यसाधनमस्तीत्यत एवं सूत्रं कर्तव्यं 'उदाहरणसाधय हेतुः' इति । अथ पुनः साध्यसाधनशब्दोपादानमुदाहरणसाधर्म्यविशेषणार्थम् , एवमपि पञ्चम्यपदेशोऽनर्थकः इति । न हि भवति नीलादुत्पलमिति । अन्ये तु पञ्चम्यपदेशानर्थक्यमन्यथा वर्णयन्ति । अर्थान्तरे दृष्टत्वादिहानर्थक इति । अर्थान्तरे किल पञ्चमी दृष्टया यथा ग्रामादिति । न पुनरिहोदाहरणसाधर्म्यव्यतिरेकेण साध्यस्य साधनमस्तीत्यतः पञ्चम्यपदेशोऽनर्थकः ।...न्यायवा० १. १. ३४ । एतत् किल हेतुलक्षणं भदन्तो दूषयां बभूव-साधनं यदि साधर्म्य न वाक्यांशः, न ह्यर्थः पञ्चावयववाक्यस्यावयवः । न पञ्चमी, यदि साधनसाधर्म्ययोरत्यन्ताभेदो यदि वा सामान्यविशेषभावेन कथञ्चिद् भेद उभयथापि न पञ्चमी, साधनसामानाधिकरण्येन प्रथमाप्रसङ्गात् । अत्यन्तामेदे चैकतरपदाप्रयोगात् । वाक्यं चेत् ततः पञ्चम्युपपद्यते, साधनं हि वाक्यरूपं साधादर्थादत्थितं यतः तद्विशेष्यं स्यात् । न हि वाक्यमेवार्थादुत्थितम्, अपि तु विवक्षाद्यपि इति न विशेष्यम् , कुतः ? साधनत्वादसम्भवः । अर्थसमुत्थानामपि ज्ञानविवक्षादीनामप्रसङ्गोऽसाधनत्वादिति, न, तत्रापि द्विधा दोषात साक्षात् साधनम् ? पारम्पर्येण वा ? यदि पारम्पर्येण वक्तृज्ञानं तर्हि साक्षात् साधयेसमुत्थं पारम्पर्येण च श्रोतुः साध्यविज्ञानसाधनं हेतुः स्यात् । अथ साक्षात् साधनम् तर्हि श्रोतृज्ञानं पारम्पर्येण साधर्म्य समुत्थं साक्षात्साधनं हेतुः स्यात् । प्रकृते त्वन्यसंभवः, यदि तु पञ्चावयववाक्यस्य प्रकृतत्वाद् ज्ञानादिव्यवच्छेदः, तथाप्यन्यसंभवः, उपनयस्यापि साधर्म्यसमुत्थत्वात् । स्वलक्षणेन बाधा चेत् , न, विकल्पादिसंभवात् । तस्मात् षष्ठयस्तु, तत्रापि विशेषणमनर्थकम् , 'साधर्म्यस्य हेतुः' इत्येतावन्मात्रं वक्तव्यमिति । तदेतद् दिङ्नागदूषणमुपन्यस्यति-उदाहरणसाधाच्चेति । न्यायवा० तात्प० १.१.३४ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org