Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad

View full book text
Previous | Next

Page 227
________________ भट्टश्रीचक्रधरप्रणीतः [ का०पृ० ३५, वि०० ४६३ पदार्थ एव परिदृश्यमानो वर्तमानादिव्यवहारहेतुः, यथा सामान्यादिव्यवहारो न व्यक्तिव्यतिरिक्तालम्बनोऽपि त्वेकार्थक्रियाकारित्वाद्युपाधिनिबन्धनोऽसौ तत्रे, तथा दृश्यमानत्वोपाधिनिबन्धनं पदार्थेषु वर्तमानता[15]व्यवहार इति । तत् कीदृशमिति कुतो विद्मः । कीदृशं क्षीयते न वेति ।। मुद्गरदलितेति । यथा मुद्गरभग्नघटाभावज्ञानं न पूर्वस्य घटसत्ताकालभाविघटज्ञानस्य बाधकं तथा नेदं रजतमित्यपि न स्यात् पूर्वानुभूतस्यौनष्टत्वात् । सन्तानछद्मनो विनिवारणात् । सन्तान एव छद्म; अङ्गीक्रियते लोकयात्रा अथ च सन्तानच्छद्मना, न साक्षात् स्थिरपदार्थाश्रयणेन । सन्तानान्तरबुद्धिभिरिति । उपाध्यायबुद्धि-शिष्यबुद्धयोः कार्यकारणभावेऽप्यन्यत्वस्य स्फुटतया दर्शनात् । फलभोगस्तु दुर्घट इति । अकृताभ्यागमदोषस्य तदवस्थत्वात् । न चैष नियमो लोक इति । अस्मिन् हि नियमे सिद्धे सति गर्भशरीरज्ञानस्य वैसदृश्यादुत्पत्त्यसम्भवात् मुमूर्षुशरीरस्तु न तस्योपादानत्वे कल्पते, ततश्च न परलोकसिद्धिः । आतिवाहिकदेहेनेति । अतिवाहो मुमूर्षुशरीराद् गर्भशरीरसञ्चरणं ज्ञानस्य, तत् प्रयोजनं यस्य तदातिवाहिकम् अन्तराभवशरीरम् । तदुक्तम् ---- नात्माऽस्ति स्कन्धमानं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या याति कुक्षि प्रदीपवत् ॥ [अभिधर्मको०, ३. १८]इति । कुरुकुची लोकवञ्चनार्थ क्षान्तिमा धार्यते दम्भरूपा । सुखदुःखजन्मनो न हि तादृशीति । सुखदुःखजन्मन इति पञ्चमी । ननु विमृशति भोग इति । अतश्च भोगकाले 'एवंरूपं कर्म यन्मया कृतं तस्यैव फलमथवाऽन्यकृतस्य, को विशेषः?' इति विमृशति नैव कश्चित् कर्मकरणे प्रवर्तते इति । कार्योपभोगसमय इति उत्तरकाले । यस्तु प्रवृत्तिजननौपयिक इति । संसारानित्यत्वादि १ एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ प्रवा० ३.१०८ । तस्मादेककार्यतैव भावानामभेदः । स्वार्थानुमानपरि० पृ० ३७ । २ बौद्धानां मते क्षणपदेन घटादिरेव पदार्थों व्यवह्रियते, न तु तदतिरिक्तः कश्चित् क्षणो नाम कालोऽस्ति.........क्षणिकः पदार्थ इति व्यवहारस्तु भेदकल्पनया । ब्रह्मविद्याभरण २. २.२० । विशिष्टसमयोतमनस्कारनिबन्धनम् । परापरादिविज्ञानं न कालान्न दिशश्च तत् ॥ निरंशैकस्वभावत्वात् पौर्वापर्याद्यसम्भवः । तयोः सम्बन्धिमेदाच्चेदेवं तौ निष्फलौ ननु ॥ तत्त्व०सं० ६२९-३० । ३ 'रजतमिदम्' इति ज्ञानस्य 1 ४ यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः । तेन नैव कृतं कर्म तस्य पूर्वमसम्भवात् ॥ कर्मतत्फलयोरेवमेककर्बपरिग्रहात् । कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥ तत्त्व०सं० ४७८-९। ५ द्र० न्यायमजरो (काशी), द्वितीयभाग पृ० ८०; Buddhsit Hybrid Sanskrit Grammar and Dictionary, vol ii, p. 187. Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312