Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
का पृ०८१, वि०पृ०५१२ ] न्यायमञ्जरीप्रन्थिभङ्गः
२११ कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत्सुषुप्तम्' तत्र कथं ज्ञानमुत्पद्यत इत्याह-सुषुप्ते धीः प्रकल्प्यते । कथं प्रकल्यत इति चेत् तदाह-पश्चात् प्रत्यवमर्शनादिति । पश्चाभाविनः प्रत्यवमर्शात् स्मरणादित्यर्थः । ननु कथं चतुर्थी दशा नास्ति ? यावता तुर्यावस्थायाम् आत्मस्वरूपप्रतिपादिकां श्रुति पठन्ति "नान्तःप्रज्ञम्, न बहिःप्रज्ञम् , नोभयतःप्रज्ञम्, न प्रज्ञानघनम्, न प्रज्ञम् , नाप्रज्ञम्, अदृष्टम् , अव्यवहार्यम् , अग्राह्यम् , अलक्षणम् , प्रपञ्चोपशमम् , शिवम् , अद्वैतम् , चतुर्थी मन्यन्ते, स आत्मा, स विज्ञेयः ।" इति ॥ [माण्डूक्योपनिषद्, ७] । [३०] तदाह-तुर्यावस्था विति । संवित्तिशून्यस्यात्मनो या स्थितिः सा तुर्यावस्था, न युष्मत्परिकल्पितेत्यर्थः। आगमस्त्वन्यपर इति । अन्ये त्ववस्थाचतुष्टयमेवं वर्णयन्ति-इन्द्रियमनोऽर्थसन्निकर्षेण व्यवहारो जाग्रत् । इन्द्रियदौर्बल्येन ग्राह्यार्थ प्रति मनसः स्मृतिमात्रशेषा बहिरप्रसृतेन्द्रियत्वेन च स्वप्नावस्था । ज्ञातुज्ञेयग्रहणासामध्ये मौढयेनावस्थानं सुषुप्तम् । अविलुप्तवेदनावृत्तित्वात् तिसृणामवस्थानां वेदनं तुर्यमिति । आगमं च पठन्ति
१ तुलना---यत्र सुप्तो न कञ्चन कामं कामयते न कञ्चन स्वप्नं पश्यति तत् सुषुप्तम् । माण्डूक्योप० ५। २ स एव तु कर्मानुस्मृतिशब्दविधिभ्यः । ब्रह्मसु० ३.२.९. । योऽहम् अस्वासं स जागर्मि इति एकानुसन्धातृसूत्रनिबद्धत्वेन...... स्प०काविवृति १.३ । तथाहियदा विगलितसकलवेद्यविकल्पत्वात् निष्केवलां सुषुप्तावस्थां प्रबोधदशायाम् आत्मनः परामृशति तदा......। स्प०काविवृति २.१ । ३ तत्र जाग्रत् इति जागरावस्थैव शास्त्रेषु प्रसिद्धा, यस्यां श्रोत्रादिभिः इन्द्रियैः शब्दादीन् इन्द्रियार्थान् गृह्णन् प्रसृतशक्तिः पुरुषः परिस्पन्दते । स्प०काविवति १.३ । ४ स्वप्नः स्वापावस्था, यस्यां स्वव्यापारपरिश्रान्तः श्रोत्रादिविहारविरतावपि मनसैव असौ विषयान् परिगृह्णाति । स्प०का०विवृति १.३ । ५ सुषुप्तं गाढनिद्रारूपा सुखस्वापावस्था, मनोव्यापारस्यापि व्युपरमे सति यत्र व्यतिरितवेद्यसंवेदनं तात्कालिकं नास्ति । स्प०काविवृति १.३।६ तुलना-सर्वासु एतासु च अनुभवितृरूपस्य व्यापकस्य एकस्य स्वभावस्य सत्ता स्थितैव । स्प०का०विवृति १.४।...यत् एवंविशिष्टतया व्याख्यातं तत् वस्तु परमार्थतः अस्ति, सततम् अविलुप्तोपलब्धृमात्रलक्षणस्वभावत्वात् । स्प०काविवृति १.५ ।...तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी । नित्यं स्यात् सुप्रबुद्धस्य तदाद्यन्तेऽपरस्य तु ॥ स्प०का० २.१ । स्पन्दकारिकाविवृतिकाररामकण्ठाचार्येण जागराद्यवस्थानां योगदर्शनसम्मतधारणा-ध्यान-संप्रज्ञातसमाधि-असंप्रज्ञातसमाधिभ्यस्तुलना कृता । साऽ. त्रावतार्यते-"एताभिरेव अवस्थाभिः योगशास्त्रप्रसिद्धास्वपि जागराद्यवस्थासु तस्य अभेदः प्रति. पादितो वेदितव्यः । तास्वपि तस्य उपलब्धृत्वेन व्यापकतया अवस्थानात् । ताश्च संक्षेपतो लक्ष्यन्ते । तत्र ध्येयेऽर्थे चेतसा झगिति प्रवृत्तिमात्रं जागरावस्था, धारणा इति क्वचित्प्रसिद्धा । तत्रैव विसदृशप्रत्ययपरिहारेण समानप्रत्ययप्रवाहैकतानतानुसन्धानं स्वप्नावस्था, ध्यानमिति यामाहुः । क्रमेण ऐकाग्र्यातिशयात् प्रत्ययान्तरासङ्कीर्ण सूक्ष्मध्येयाभासमात्रविशेषता चित्तस्य सवेद्यसुषुप्तावस्था, यां वितर्कविचारानन्दास्मितानुरूपानुगमलक्षणस्य संप्रज्ञातस्य समाधेः आनन्दास्मितामात्रानुगतम् अवस्थाविशेषमाचक्षते । यस्तु 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः' पायो सू. १.७] इति कृतलक्षणः असंप्रज्ञातः समाधिः, तत् अपवेद्यसुषुप्तम् ।" स्प०का विवृति १.३ । माण्डू क्योपनिषदि.[३-७ भिन्नभणधा जागरादिअवस्थाचतुष्कस्य निरूपणमस्ति । द्र, लक्ष्मीसन्त्रम् २४.२६-३१, ४०.११-१२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312