Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
२०९
का पृ०७६, विपृ०५०७] न्यायमञ्जरीग्रन्थिभङ्गः तथाहि-परमाणूनां परमाणुत्वं सामान्यम् , अन्त्यविशेषाश्च विद्यन्त एव । सत्त्वरजस्-तमसामपि अचेतनत्वं सामान्यम् , परस्परं च विशेषा विद्यन्त एव, अन्यथा त्रित्वानुपपत्तेरिति । श्रुतिमप्याहुः-'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः सम्भवन्ति । यथा सतः पुरुषात् केशलोमानि त[28]थाऽक्षरात् सम्भवतीह विश्वम्" इति' [ मुण्डकोपनिषद् १. १. ७] ।
नन्दीश्वर-नहुषयोरिति । नन्दिनामा ब्राह्मणकुमारको विप्रेभ्य आत्मनोऽ ल्पायुस्त्वमवगम्य तादृशं तीव्रतपोविशेषरूपं कर्माकरोद् येन तेनैव शरीरेण भगवतः शङ्करस्य गणाधिपत्यपूर्वकमजरामरत्वमवाप येनाद्यापि नन्दीश्वर इति ईश्वरशब्देन व्यवहियते । नहुषाख्यश्च सोमवंशप्रभवो राजर्षिर्मेहता पुण्यकर्मसम्भारेणैन्द्रपदमवाप्य ब्राह्मणान् स्ववाहनकर्मण्यश्ववद् नियुञ्जानो ब्राह्मणशापात् सद्य एवाजगरत्वमवाप । तीवसंवेगेति । तीव्रसंवेगेन महता प्रयत्नेन सर्वात्मना तत्परायणत्वेन निवृत्तम् ।
फलस्य च पुत्रपश्चादेरन्यत्रसमवेतत्वादिति । अन्यत्रसमवेतत्वं स्वावयवसमवेतत्वम् पुत्रादेरत्र विवक्षितम् । मुख्यस्य पुत्रजन्मजस्य । तद्धेतुरागेण सुखहेतु[रागेण] ।
न पूर्वापरविरोधादिति । पूर्व दुःखवत् सुखस्यापि फलतया प्रतिपादनात् ।
तत्कारणयोरनुकूल प्रतिकूलयोरिति । तदा हि तयोरकारणत्वाद् न तद्विषयौ राग-द्वेषौ युक्तौ।
अजममरम् जन्म-विनाशरहितम् , अनन्तमात्मनस्तेन रूपेणावस्थानात् , शाश्वतम् व्यापकमिति ।
भट्टश्रीशङ्करात्मज चक्रधरकृते न्यायमञ्जरीग्रन्थिभङ्गे अष्टमम् आह्निकम्
१ ईश्वरः कारणम्...। न्या०स०४.१.१९ । मा भूदयं नामरूपप्रपञ्चः शून्यतोपादानः, अपि तु ब्रह्मोपादानो भविष्यति । ब्रह्मैव हि प्रपञ्चरूपेण परिणमते मृत्तिकेव घटशरावोदञ्चनादिभावेन । न्यावा तात्प० ४. १. १९ । २ द्र० व्यासभा० (योगसू ० २-१३)। ३ मुद्रितमञ्जर्या तु संयोग इति पाठः । ४-५ न पुत्रपशुस्त्रीपरिच्छदहिरण्यान्नादिफलनिर्देशात् । तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः । न्यासू० ४.१.५३-५४।
२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312