________________
भट्टश्रीचक्रधरप्रणीतः [ का०पृ० ३५, वि०० ४६३ पदार्थ एव परिदृश्यमानो वर्तमानादिव्यवहारहेतुः, यथा सामान्यादिव्यवहारो न व्यक्तिव्यतिरिक्तालम्बनोऽपि त्वेकार्थक्रियाकारित्वाद्युपाधिनिबन्धनोऽसौ तत्रे, तथा दृश्यमानत्वोपाधिनिबन्धनं पदार्थेषु वर्तमानता[15]व्यवहार इति ।
तत् कीदृशमिति कुतो विद्मः । कीदृशं क्षीयते न वेति ।।
मुद्गरदलितेति । यथा मुद्गरभग्नघटाभावज्ञानं न पूर्वस्य घटसत्ताकालभाविघटज्ञानस्य बाधकं तथा नेदं रजतमित्यपि न स्यात् पूर्वानुभूतस्यौनष्टत्वात् ।
सन्तानछद्मनो विनिवारणात् । सन्तान एव छद्म; अङ्गीक्रियते लोकयात्रा अथ च सन्तानच्छद्मना, न साक्षात् स्थिरपदार्थाश्रयणेन । सन्तानान्तरबुद्धिभिरिति । उपाध्यायबुद्धि-शिष्यबुद्धयोः कार्यकारणभावेऽप्यन्यत्वस्य स्फुटतया दर्शनात् । फलभोगस्तु दुर्घट इति । अकृताभ्यागमदोषस्य तदवस्थत्वात् । न चैष नियमो लोक इति । अस्मिन् हि नियमे सिद्धे सति गर्भशरीरज्ञानस्य वैसदृश्यादुत्पत्त्यसम्भवात् मुमूर्षुशरीरस्तु न तस्योपादानत्वे कल्पते, ततश्च न परलोकसिद्धिः । आतिवाहिकदेहेनेति । अतिवाहो मुमूर्षुशरीराद् गर्भशरीरसञ्चरणं ज्ञानस्य, तत् प्रयोजनं यस्य तदातिवाहिकम् अन्तराभवशरीरम् । तदुक्तम् ----
नात्माऽस्ति स्कन्धमानं तु क्लेशकर्माभिसंस्कृतम् । अन्तराभवसन्तत्या याति कुक्षि प्रदीपवत् ॥ [अभिधर्मको०, ३. १८]इति ।
कुरुकुची लोकवञ्चनार्थ क्षान्तिमा धार्यते दम्भरूपा । सुखदुःखजन्मनो न हि तादृशीति । सुखदुःखजन्मन इति पञ्चमी । ननु विमृशति भोग इति । अतश्च भोगकाले 'एवंरूपं कर्म यन्मया कृतं तस्यैव फलमथवाऽन्यकृतस्य, को विशेषः?' इति विमृशति नैव कश्चित् कर्मकरणे प्रवर्तते इति । कार्योपभोगसमय इति उत्तरकाले । यस्तु प्रवृत्तिजननौपयिक इति । संसारानित्यत्वादि
१ एकप्रत्यवमर्शस्य हेतुत्वाद् धीरभेदिनी। एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता ॥ प्रवा० ३.१०८ । तस्मादेककार्यतैव भावानामभेदः । स्वार्थानुमानपरि० पृ० ३७ । २ बौद्धानां मते क्षणपदेन घटादिरेव पदार्थों व्यवह्रियते, न तु तदतिरिक्तः कश्चित् क्षणो नाम कालोऽस्ति.........क्षणिकः पदार्थ इति व्यवहारस्तु भेदकल्पनया । ब्रह्मविद्याभरण २. २.२० । विशिष्टसमयोतमनस्कारनिबन्धनम् । परापरादिविज्ञानं न कालान्न दिशश्च तत् ॥ निरंशैकस्वभावत्वात् पौर्वापर्याद्यसम्भवः । तयोः सम्बन्धिमेदाच्चेदेवं तौ निष्फलौ ननु ॥ तत्त्व०सं० ६२९-३० । ३ 'रजतमिदम्' इति ज्ञानस्य 1 ४ यः फलस्य प्रसूतौ च भोक्ता संवर्ण्यते क्षणः । तेन नैव कृतं कर्म तस्य पूर्वमसम्भवात् ॥ कर्मतत्फलयोरेवमेककर्बपरिग्रहात् । कृतनाशाकृतप्राप्तिरासक्ताऽतिविरोधिनी ॥ तत्त्व०सं० ४७८-९। ५ द्र० न्यायमजरो (काशी), द्वितीयभाग पृ० ८०; Buddhsit Hybrid Sanskrit Grammar and Dictionary, vol ii, p. 187.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org