SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ मा०पू०३५, वि०पू०४६३ ] न्यायमञ्जरीग्रन्थिभङ्गः १९५ इदं प्रतीत्येति । इदं प्रतीत्य ज्ञात्वा समनन्तरमेवेदं प्रतीयत इत्येतावन्मात्रं कोत्तरभावित्वं कार्यकारणत्वहेतुः, न पुनर्व्यापारात् कारणत्वमिति । इदं पूर्वमिदमुत्तरमित्येवंरूप इदंप्रत्ययो ययोः कार्य-कारणयोस्ताविदंप्रत्ययौ, तयोर्भाव इदंप्रत्ययता । तथापि लब्धात्मन इति । न ह्यनुत्पन्नस्य प्रतीतिः सम्भवति । सर्वस्य सुखदुःखादि यत् तद्धेतुत्वेन प्राणिकर्मविपाकस्य धर्माधर्मलक्षणस्योपपादनात् । न हि भवति कृष्णाच्छुक्लतर इति । अपि तु शुक्लात् शुक्लतरः, एवं साधकतम इति । ___ अहो महान् [14] प्रमाद इति । अनेन 'यदि नित्योऽपि कदाचित् स्यात् तत् कस्य क्षतिः' इत्याह । पुनरनेनैवाभिप्रायेण-सोत्पासमुत्सनाः प्रजा इत्यादि । तैलवतिक्षयाद्यनुमानबाधितत्वादिति । तैलवर्तिरूपस्य क्षयदर्शनात् कारणभेदः पूर्वकालात उत्तरकालानां गम्यते । न हि यदेव तैलवर्तिरूपपूर्वकालायाः कारणं तदेवोत्तरासामिति वक्तुं शक्यम् । प्रत्यक्षेण पूर्वकालाकारणस्य तैलवर्तिरूपस्य क्षयदर्शनादेतत्कारणभेदस्तावदिति । ततश्च काला धर्मिण्यः परस्परभिन्ना इति साध्यम्, भिन्नकारणजन्यत्वाद् घटपटादिवदित्यनुमानप्रवृत्तिः । प्रत्यक्षस्याप्यनुमानबाधितत्वदर्शनादिति । चक्रं हि परिमण्डलाकारत्वात् सर्वदिग्भिर्युगपत् सम्बध्यते, तथारूपत्वं च अलातस्य नास्ति, अतोऽनुमानेन बाधः । तथाहि-अलातधर्मी युगपत् सर्वाभिर्दिम्भिर्न सम्बध्यत इति साध्यम्, अलातत्वात् , भूमिस्थितालातवदित्यनुमानम् । क्षणिकत्वानुमानमन्यथासिद्धम् , क्षणिकत्वपरिहारेणैव सत्त्वस्य प्राङ्नीत्या सम्भवात् । निमोपकृतस्थाऽपीति । अनिमेषदृष्टिमङ्गीकृत्य कथनात् तत्कृतो दर्शनविच्छेदोऽनवकाशोऽसम्भवीति । तद्ग्रहणे यावति दर्शनं न विच्छिन्नं तावद्वर्तमानकालविशिष्टवस्तुग्रहणे । ननु तावानसौ काल इति । क्षणसमुदायो वर्तमानादिक्षणसमुदायः, न वर्तमान एक एवेत्यर्थः । कालस्य तु भेदाः क्रियोपजनेति । यदा क्रियोपजायते तदा वर्तमानता, उपरतायामतीतता, अनागतायां भविष्यत्तेति ।। १ भिन्नकाला वर्तयः इत्यर्थः । २ तुलना-क्रियाव्युपरमे भूतः, सम्भावितायां क्रियायां भविष्यन् , क्षणप्रवाहरूपेण बतमानरूपायां मुख्य एवायम् । हेलाराजटीका (वाक्यप०), पृ० ३५० । - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.002637
Book TitleNyayamanjari Granthibhanga
Original Sutra AuthorChakradhar
AuthorNagin J Shah
PublisherL D Indology Ahmedabad
Publication Year1972
Total Pages312
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & Philosophy
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy