________________
१९४
भश्रीचक्रधरप्रणीतः [का पृ०२७, चिपृ०४५५ नानात्वे त्वस्थैर्यमसत्त्वं चेति । नानास्वभावत्वेऽपि यथा दर्शनेवात्रैकत्वेन ब्राह्मण न विरुध्यते तथा तद[त]त्स्वभावत्वेऽप्यक्षणिका(नामेकत्वेन ग्रहणं न विरोत्स्थत इति' स्थैर्यापत्तिर्वस्तुनो वा विरुद्धस्वभावयोगात् काल्पनिकत्वम् ।।
अस्त्येवैषां लाक्षणिको विरोध इति । लक्षणमिति स्वरूपम्, तद्वयवस्थापको लाक्षणिकः परस्परपरिहारस्थिततालक्षणः । तौ हि द्वौ स्वभावौ परस्पररूपपरिहारेण स्थितौ नीलपीताविव, अन्यथा तयोर्भेद एव न स्यादिति । पदार्थो हि स्वप्रकृत्या विरुध्यते। न हि नीलं च नीलाभावश्च युगपद् भवतः । यथा नीलानीलप्रकृत्योर्युगपदसम्भवाद् विरोधः तथाऽनीलप्रकृत्यविनाभूतैः पीतादिभिरपि विरोध एव । स्वप्रकृत्या यद् विरुध्यते वस्तुनो रूपं तत् तदविनाभूतेन स्वभावान्तरेणापि । तस्य विरोधः केन वार्यते भवन्मते । तदेवं वस्तुव्यवस्थापको विरोधो भवद्भिः सर्वत्राभ्युपेय इति । परलोकचर्चा [13] चार्वाकवदपेक्षिता स्यादिति । 'यस्मिन्नेव हि सन्ताने आहिता कर्मवासना' इत्यस्य पक्षस्य परित्यागात् । येन हि ज्ञानक्षणेन कृतं कर्म तस्य विनाशेऽपि कार्यकारणभावेन ज्ञानप्रवाहस्य सन्तानरूपस्याभ्युपगमेन जन्मान्तरोपपत्तिलक्षमाऽस्य परलोकसिद्धिरुपपादिता; सैवं त्रुटयति । सन्तानस्य ह्यात्मकल्पस्याविच्छेदे जन्मान्तरसम्भव आत्मन इव आत्मवादिनां न पुनस्तद्विनाशे । यथैकस्मिन् शरीरे कार्यकारणभावेनावस्थानवशाद् भिन्नानामपि क्षणानामभेदेनाध्यवसानं क्षणान्तरकृतस्य च कर्मणः क्षणान्तरोपभोगेऽपि नान्येन भुक्तमिति प्रत्ययः, न च सन्तानान्तरेण तत्कलोपभोगः, तद्वत् सन्तानानाशे जन्मान्तरभावि]क्षणेष्वपि भवति, नान्यथेति भावः । निर्विकल्पज्ञानं वेति । तद् वस्तुसाक्षात्कारि, सविकल्पकं न तथा । तथा प्रतिबन्धस्मृतिरपि, स्मृतेर्वस्तुसंस्पर्शाभावात् ।
सन्तानभूयस्त्वादिति । रसज्ञानरूपज्ञानस्मरणादिसन्तामानां भेदाभ्युपगमपक्षे । रूपमपि ज्ञानोपादानकारणत्वं प्रतिपद्यते तदाकारस्योत्पादाद ज्ञानस्य ।
१ क्षणिकस्य कारणस्य सर्वथा कार्य प्रति उपयोगाभावेऽपि तस्येदं गार्थमिति व्यपदिश्यते, न पुनर्नित्यस्य तादृश इति न किञ्चिन्निबन्धनमन्यत्र महामोहात् । नित्या प्रतिक्षणमनेककार्यकारित्वे क्रमशोऽनेकस्वभावत्वसिद्धेः कथमेकत्वं स्यादिति चेत् शाणिकस्य कथामिति समः पर्यनुयोगः । स हि क्षणस्थितिरेकोऽपि भावोऽनेकस्वभामाश्चित्रकार्यत्वाद् नामार्थवत् । न हि कारणशक्तिभेदमन्तरेण कार्यनानात्वं यतं रूपादिज्ञानवत् । अष्टास०प०१३।. न्यायवातात्प० पृ०५५७-५५८ । सामग्रीवशात् कार्यभेदेऽपि यथा अक्षेपकारिणां क्षणिकानां स्वभावभेदो न भवति अनाधेयाप्रहेयातिशयत्वात् तथैव कालान्तरस्थाथिनां कमोत्पित्सुकार्यवियोऽपि स्वभावभेदो मा भूत् । सिद्धिवि. पृ० १९७। २ ग्रन्थिरयं मुद्रितमञ्जर्या नोपळन्धः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org