________________
का० पृ० २७, बि० पृ० ४५४ ]
न्यायमञ्जरीग्रन्थिभङ्गः
१९३
प्रसङ्गात् । घटादीनामपरमार्थसत्त्वान्मा भूत् पारमार्थिकं बाह्यं वस्तु, ज्ञानमेव परमार्थसत्, तत्र क्षणिकत्वमित्याह – ज्ञाने क्षणिकचिन्तेति ।
न क्रमेण स्थैर्यप्रसङ्गात् । द्वितीयकार्यकालेऽपि भावात् स्थैर्यप्रसङ्गः । सञ्चिता एव जन्यन्त इत्यभ्युपगमादिति । तदुक्तम्अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे ।
उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मनः ॥ [ प्रमाणवा ० २.१९५] इति । अन्यथा हि इति । कारणायत्तः कार्यस्वभाव इत्यनभ्युपगमे । नानाकालयोfreistrari [12] स्यात् । ततश्च स्थिरतापत्तिः । विषयाकारग्राहकेति । विषयाकारो ग्राह्याकारः । ग्राह्याकारग्राहकं प्रमाणम् । स्वसंवेदनं फलम् । निराकारत्वाद् विज्ञानस्य नास्ति विषयाकार इति चेत् तत्राह-- निराकारज्ञानेति । अथ नीलेन जनितत्वाद् नीलस्येदमिति प्रतिकर्मव्यवस्था सेत्स्यति । नेत्याह- जनकस्य कर्मण इति । एकसामग्र्यधीनपक्षस्य च सम्भवेऽपीति । न सम्भवति स पक्षः, क्षणिकत्वाभावादर्थक्षणस्य तदानीमुत्पत्त्यभावात् पूर्वोत्पन्नस्यैव ज्ञानेन विषयो (यी) करणात् । सम्भवाभ्युपगमे तु द्वयोरेकसामयुत्पन्नत्वेऽर्थ एव ग्राह्यो न बोध इति नियमो नोपपद्येत इत्यतोऽवश्यं साकारत्वमभ्युपेयमिति रूपभेद आयातः ।
"विजातीयप्रकारेणेति । विजातीयो मुद्गरादिः । विरूपाम्, कपालरूपाम् ।
१ यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते । इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थः प्रवेदितः ॥ विद्यमानेऽपि बाह्येऽर्थे यथानुभवमेव सः । निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषतः ॥ प्र०वा० २. ३४०-४१ । इष्टानिष्टत्वेन पुरुषाभ्यामेकस्यार्थस्य ग्रहणादनेकात्मत्वदोषः प्रसज्यते । मनोरथ० २.३४१ । २ स्वसंवेदनं फलम् ॥ प्र०वा०२.३५१ । तत्र बुद्धेः परिच्छेदो ग्राहकाकारसम्मतः । तादात्म्यादात्मवित्तस्य स तस्य साधनं ततः ॥ प्र०वा० २.३६४ । ३ द्र० तत्त्वसं० पं० पृ० ५६९-८२ : स्याद्वादरत्ना० पृ० १६२-३, प्रमेयकमलमा० पृ०१०३ - ९॥ न्यायकुमुद० पृ० १६५ - ७१; साकारसिद्धिशास्त्रम् साकार सङ्ग्रहसूत्रम् च ज्ञानश्री०नि० पृ० ३६७-५७८ । इह खलु सकलजडपदार्थराशौ प्रत्याख्याते निराकृते च निराकारविज्ञानवादे प्रतिहते चालीकाकार योगिनि पारमार्थिकप्रकाशमात्रे सम्यगुन्मूलिते च साकारविज्ञानालीकत्वसमा रोपे प्रतिसन्तानं च स्वप्नवदबाधितदेहभोगप्रतिष्ठाद्याकारप्रकाश मात्रात्मके जगति व्यवस्थिते यस्य यदा यावदाकारचक्रप्रतिभासं यद् विज्ञानं परिस्फुरति तस्य तदा तावदाकारचक्रपारिकरित तद् विज्ञानं चित्राद्वैतमिति स्थितिः । रत्नकी• नि० पृ० १२२ । ४ हेतुभावादृते नान्या ग्राह्यता नाम काचन । तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्रायमुच्यते ॥ प्र०वा० २. २२४ । अपि 'तु हेतुतैव प्रात्यता । एवं तर्हीन्द्रियादिकमपि हेतुत्वाद् ग्राह्यं स्यादित्याह । तत्र तेषु 'हेतुषु बुद्धिर्यदाकारा भवति तस्या बुद्धेस्तद् ग्राह्यमुच्यते । मनोरथः । -५ मुद्रितमञ्जर्या तु 'विजातीयकरणानुप्रवेशे' इति पाठः ।
२५.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org