Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
भट्टश्रीचक्रधरप्रणीतः
[ का०पृ०५७, वि० पृ०४८६ गन्धज्ञानप्रकृतिरिति । गन्धो ज्ञायते येन तद् गन्धज्ञानं घ्राणम् तत्र प्रकृतिः कारणम् । तद्व्यवस्थानम्, तेषां व्यवस्थानं नियतविषयग्राहकत्वम् ।
कृतकमधुरमिति । यत एवेदृशाः विभाव्यन्तेऽत एव तिक्ताहार इव । कथमिति चेत्, तदाह - 'परिणतिविपत्कारिणो हि' इति ।
२०२
शिंशपाचोद्यमिति । यथा 'सत्स्वन्येष्वशोकवनिकायां तालतमालप्रभृतिषु रावणेन जानकी किमिति शिंशपाया एवाधः स्थापिता' इति यदि चोद्येत तदा 'अन्यस्य वृक्षस्याधः स्थापिता इति' अस्य चोद्यस्यानिवृत्तिः 'किमिति शिंशपाया अधो न स्थापिता इति । बुद्धिरन्येति । बुद्धिर्महत्तत्त्वम् तस्या वृत्तिविशेषो ज्ञानम्, उपलब्धिस्त्वात्मनतत्प्रतिबिम्बम् इति ।
सर्वत्र च प्रीत्यप्रीतिविषाददर्शनादिति । शब्दादयो हि कस्यचित् प्रीतिं
"
कारः.
१ वैशे०सू० ८.१६ । २ न्यायसू० ३. १. ७१ । ३ बुद्धिः किल त्रैगुण्यवि.. तेन योऽसौ नीलाकारः परिणामो बुद्धेः स ज्ञानलक्षणा वृत्तिः, आत्मप्रतिबिम्बस्य तु बुद्धिसङ्क्रान्तस्य यो बुद्धधाकार नीलसम्बन्धः स आत्मनो व्यापार इवोपलब्धिरात्मनो वृत्तिरित्याख्यायते । न्यायवा० तात्प० १.१.१५ । अस्मिन्न्यायमञ्जरीग्रन्थिभङ्गे तु 'आत्मनः तत्प्रतिबिम्बनम्' इति पदसमूहद्वारेण चक्रधरः बुद्धिसङक्रान्तमात्मनः प्रतिबिम्बं स्पष्टरूपेण निर्दिशति । किन्तु एतद्विषये विदुषां मतभेदः । 'इन्द्रियप्रणालिकया चित्तस्य बाह्यवस्तू परागात् तद्विषया सामान्यविशेषात्मनोऽर्थस्य विशेषावधारणप्रधाना वृत्तिः प्रत्यक्ष प्रमाणम्, फलमविशिष्टः पौरुषेयश्चित्तवृत्तिबोध: ' इति व्यासभाष्यस्य ( योगसूत्र १. ७) व्याख्यानावसरे वाचस्पति विज्ञानभिक्षू स्वस्वमतं प्रतिपादयन्तौ एतन्मतभेदमाविष्कुरुतः । तद्यथा “ननु पुरुषवर्ती बोधः कथं चित्तगताया वृत्तेः फलम्, न हि खदिरगोचरव्यापारेण परशुना पलाशे छिदा क्रियत इत्यत आह- 'अविशिष्टः' इति । न हि पुरुषगतो बोधो जन्यतेऽपि तु चैतन्यमेव बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्याऽर्थाकारया तदाकारतामापद्यमानं फलम्...।” इति वाचस्पतेर्व्याख्यानम् । एतस्य वाचस्पतिमतस्य निरसनं विज्ञानभिक्षुः निम्नभङ्गथा करोति - "कश्चित्तु वृत्त्याख्यकारणसामानाधिकरण्येन बुद्धावेव प्रमाऽऽख्यं फलं जायते, चैतन्यमेव हि बुद्धिदर्पणप्रतिबिम्बितं बुद्धिवृत्त्या अर्थाकारया तदाकारतामापद्यमानं फलम्, तच्च चिच्छायाख्यं चित्प्रतिबिम्बं बुद्धेरेव धर्म इति वदति । तन्न, 'पौरुषेय' शब्दस्य यथाश्रुतार्थत्यागापत्तेः, प्रतिबिम्बस्य प्रकाशाद्यर्थक्रियाकारितायाः क्वाप्यदर्शनाच्च प्रतिबिम्बं हि तत्तदुपाधिषु बुद्धेर्बिम्बाकार परिणाममात्रमिति, किञ्च, परस्परं प्रतिबिम्बस्य श्रुतिस्मृतिसिद्धतया चितेरेव वृत्तिप्रतिबिम्बोपहितायाः फलत्वं युक्तम्...' इति विज्ञानभिक्षोर्व्याख्यानम् । द्र० द्वयोरेकतरस्येत्यादि साङ्ख्यसूत्रस्य ( १ ८७ ) प्रवचनभाष्यम् । ४ प्रीत्यप्रीतिविषादात्मकाः... गुणाः । सां०का ० १२ । अत्र च सुखदुःखमोहाः परस्परविरोधिनः स्वस्वानुरूपाणि सुखदुःखमोहात्मकान्येव निमित्तानि कल्पयन्ति तेषां च परस्परमभिभाव्याभिभावकभावान्नानात्वम् । तद्यथा - एकैव स्त्री रूपयौवनकुलसम्पन्ना स्वामिनं सुखाकरोति, तत् कस्य हेतोः ? स्वामिनं प्रति तस्याः सुखरूपसमुद्भवात् सैव स्त्री सपत्नीर्दुः खाकरोति, तत् कस्य हेतोः ? ताः प्रति तस्या दुःखरूपसमुद्भवात् । सां०तत्त्वकौ० १२ । साङ्ख्यपक्षे पुनर्वस्तु त्रिगुणं चलं च गुणवृत्तमिति धर्मादिनिमित्तापेक्षं चित्तैरभिसम्बध्यते, निमित्तानुरूपस्य च प्रत्ययस्योत्पद्यमानस्य तेन तेनात्मना हेतुर्भवति । व्यासभाष्य ( योगसूत्र ४.१५ ) ।
·
Jain Education International
For Private & Personal Use Only
"
www.jainelibrary.org

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312