________________
का०पू०१६, वि०पृ०४४३ ]
न्यायमज्जरीग्रन्थिभङ्गः
दि [[ ] प्रदर्शनमिदं कृतमिति सूत्रकारेणेति शेषः । बहुरन्य इति कोsसावित्याह-- कर्तृप्रयोज्यता खलु दृष्टेति । चेष्टा न दृष्टा नियता, अपि तु कादाचित्की गन्त्र्याः रथादेश्च यथा ँ। सहजनिजकर्मविकृतौ । सहजं यन्निजं कर्म तिर्यग्गतिलक्षणं तस्य विकृतिः ऊर्ध्वम् अधश्च गतिः । वृद्धिक्षत भग्न रोहणमिति। क्षतं मांसस्य भङ्गः, अस्योद्भेदो रोहणम् । वृद्धिश्च क्षतभग्नरोहणं च तत् । चेतो मनः । ज्ञानप्रयत्नादिमत इति । करणं धर्मं ज्ञानप्रयत्नादिमदधिष्ठितकरणत्वाद वास्यादिवदित्यत्र वास्यादौ किमधिष्ठातृ विवक्षितम्, शरीरमन्यद्वा ? शरीरस्याधिष्ठातृत्वे साध्यविकलत्वं साध्यविपरीतसाधनाद् विरुद्ध[श्च] हेतुः; तदन्यस्त्वसिद्ध एवेति । सामान्यमात्रस्य तवापि सिद्धेः । प्रयत्नादिमन्मात्राधिष्ठितत्वं भवताऽप्यभ्युपगतमेवेति । एवं च विशेषविरुद्धोद्भावने सकलानुमानोच्छेदप्रसङ्ग इत्यसकृदुक्तम् । तत्संज्ञितामितिफलम् । अयं स गवय इति या संज्ञितामितिः संज्ञासंज्ञिसम्बन्धप्रतिपत्तिः सैव फलम् ।
"सर्वे संस्काराः । [7] सर्वे ते संभूय हेतुभिः क्रियन्त इति संस्काराश्च ते । न क्वचित् किञ्चिदाश्रितम् । क्षणिकत्वे सति आश्रयाश्रयिभावाभावादिति भावः । यतोऽधिष्ठान कल्पना । गुणस्य निरधिष्ठानस्यानुपलम्भादिति । निराश्रयेष्विति । विज्ञानान्येव कार्यकारणभावेन स्थितानि राशीक्रियमाणानि विज्ञानस्कन्ध" इत्युच्यते ।
यद्यपि च सन्तत्यन्तरेति । तथाहि —समीहादिनाऽनुमीयमाना सन्तानान्तर
१ न्यायसू० १. १. १०, ३. २.१८-४१ । २ वास्यादीनामिव करणानां कर्तृ प्रयोजयत्वदर्शनात् शब्दादिषु प्रसिद्धया च प्रसाधकोऽनुमीयते । प्रशस्त० भा० पृ० ३६० । ३ शरीरसमवायिनीभ्यां च हिताहितप्राप्तिपरिहारयोग्याभ्यां प्रवृत्तिनिवृत्तिभ्यां रथकर्मणा सारथिवत् प्रयत्नवान् विग्रहस्याधिष्ठाताऽनुमीयते । प्रशस्त० भा० पृ० ३६० ४ शरीरपरिगृहीते वायौ विकृतकर्मदर्शनात्.... प्रशस्त०भा०पृ० ३६० । ५ वृद्धिक्षतभग्नसंरोहणात् । प्रशस्त०भा० पृ० ३६०| १-५ प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तरविकाराः सुखदुःखे इच्छाद्वेषौ प्रयत्नश्चेत्यात्मलिङ्गानि । वैशे०सू० ३.२.४. । ६ समाख्या सम्बन्धप्रतिपत्तिरुपमानार्थ इत्याह । 'यथा गौरेवं गवयः' इत्युपमाने प्रयुक्ते गवा समानधर्ममर्थ मिन्द्रियार्थसन्निकर्षादुपलभमानोऽस्य गवयशब्दः संज्ञेति संज्ञासंज्ञिसम्बन्धं प्रतिपद्यते इति । न्यायभा० १ १ ६ । ७ क्षणिकाः सर्वसंस्कारा अस्थिराणां कुतः क्रिया । भूतिर्येषां क्रिया सैव कारकं सैव चोच्यते ॥ बोधिचर्यावतारपञ्जिकायां (९. ६) उद्घृतेयं कारिका । ८ प्रतिक्षणविनाशे हि भावानां भावसन्ततेः । तथोत्पत्तेः सहेतुत्वादाश्रयोऽयुक्तमन्यथा ॥ प्र०वा० १. ६९ । ९ राश्यायद्वार गोत्रार्थाः स्कन्घायतनधातवः । अभि०को० १. २० । १० विषयं विषयं प्रति विज्ञप्तिरुपलब्धिर्विज्ञान स्कन्ध इत्युच्यते । स पुनः षड़ विज्ञानकायाः चक्षुर्विज्ञानं यावन्मनोविज्ञानमिति । अभि० को ० भा० १. १६ ।
Jain Education International
૨૮૭
For Private & Personal Use Only
www.jainelibrary.org