Book Title: Nyayamanjari Granthibhanga
Author(s): Chakradhar, Nagin J Shah
Publisher: L D Indology Ahmedabad
View full book text
________________
का पृ०३७७, वि०पृ०४०९] न्यायमञ्जरीग्रन्थिभङ्गः टीभवन्ती अङ्कुररूपाद्यवस्था यस्याः, पदानां तत्प्रतिपत्तिकारणत्वाव्यभिचारात् । संस्कारश्च पदार्थप्रतिपत्तौ सन्निकृष्टोपायत्वात् पत्रतया रूप्यते । पदार्थैः कुसुमचयवती, पदार्था एव कुसुमचयः पूर्वापेक्षया फलं प्रतिपत्तिः आसन्नत्वात् ।
. वेदस्य नान्यत' इति । अन्यतोऽपि रागादिमान् न वेत्ति, तस्यापि रागादिमत्त्वेन तत्तुल्यत्वात् ।
___ अवीचिकेदारकुटुम्बिनमिति । अवीच्याख्यनरकक्षेत्रस्वामिनं तत्सम्बद्धमित्यर्थः ।
निसर्गत एवाक्षतकण्ठाः । व्याकरणादिपाठेन न क्षतः कण्ठो येषाम् । तदनुचरोऽपीति । भार्यादासादिर्येन सहासावालपति ।
क्व प्रकरणे पठिताविति । प्रयाजादिवत् । अथ न प्रकरणपरिपठितौ तत्किमनारभ्याधीतौ[166B] 'यस्य पर्णमयी जुहूः' [तैत्ति० सं० ३.५.७.२.] इत्यादिवत् । क्लप्ताधिकारौ 'चित्रया यजेत' [तैत्ति०सं० २.४.६.१] इतिवत् । कल्प्याधिकारौ वा विश्वजिद्वत् ।
असाधुरनुमानेनेत्यस्य पक्षान्तरप्रतिपादकमुत्तरमर्धम्____"वाचकत्वाविशेषेऽपि नियमः पुण्य-पापयोः” वाक्यप० ३.३.३०] इति । अनुमानेन असाध्वनुमितात् साधोरर्थप्रत्यय इति । । विशिष्टक्रियाकरणत्वमिति । अभिधानलक्षणां विशिष्टां क्रियां जनयन् शब्दो वाचकः, न प्रतीतिमात्रजनकत्वेन, तां च तादृशीं क्रियां साधुरेव जनयति नासाधुरिति ।
पारिभाषिकत्वप्रसङ्गादिति । एवंविधस्य साधुशब्दार्थस्य लोकेऽप्रसिद्धः।
लवणोपयोगापनीतड्विकारोऽपीत्यनेनास्मद्विलक्षणस्वभावत्वं तस्य आह; अस्माकं हि लवणोपयोगात् तृड् वर्धते इति ।
नासाधोरप्रसङ्ग इति । अन्यनिवृत्तिफलो हि नियमो भवति । साधुः स्ववाचको भण्यते असाधुस्त्ववाचकस्ततस्तस्यावाचकत्वादेवासाधोरप्रसङ्गात् किं नियमेन ? इत्यर्थः ।
अथ प्रमादाशक्तिकृतेति । प्रमादकृतः 'अस्मकेभ्यः आगच्छामि' इति वक्तव्ये 'अस्मकैः आगच्छामि' इत्याह, [167A] अशक्तिकृतः 'कुमारी ऋतकः' इति
१ प्र०वा०३.३१७। २ मुद्रितमञ्जयां तु 'ज्वालायोगोपनीत” इति पाठः । ३ तन्त्रवा० १.३.८.२४।
२२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312