Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
अर्हम् ॥ अथ द्वितीयः स्तबकः ॥
केचिन्मन्वत ईश्वरं विदधतं सृष्टिं न तद्युक्तिमत् कस्मात् सृष्टिमसौ सृजेत् करुणया केनापि चार्थेन वा १ । issur यत् करुणा क्व ? देहविषयाऽजातावजातेऽसुखे नाप्यर्थः कृतकृत्यतां कलयतो देवस्य जाघट्यते ॥ १ ॥ कारुण्यार्णव ईश्वरो न सुखवत् कुर्वीत विश्वं कथं ?
जीवाऽदृष्टवशात् सुखासुखफलाभोगे किमीशा कृतम् १ | सौख्याद्यर्पणईरितानि तनुते कर्माणि चेनेदृशं
सत्कार्यं तदभाव एव हि भवेत् शुद्धोऽगुणः प्राणभृत् ॥२॥ कर्माभ्यर्जननैपुणीं कलयता कर्माणि किं जन्तुना
प्रेर्येरन्न, सुखासुखार्पणविधौ नार्थ ईशो भवेत् ? । कर्मादेः खलु तत्स्वभावमन ने कश्चिन्न बाधोदयः
पीयूषद्युतिशेखरस्य तु कृतार्थीभावबाधो महान् ॥ ३ ॥ कर्माऽनादिककालतस्तनुमता सम्बन्धि यद्युच्यते
तत्तेनाऽस्तु जगत्प्रवाह इतराधीशेन कोऽर्थो ननु १ । सम्बन्धो यदि कर्मणा तनुमतो निष्पादितः स्थाणुना तत्कस्माद् वद ! कर्मणो हि विरहे निष्केश आत्मा भवेत् ॥ दत्ते देहभृतां फलं स सदसत्कर्मानुसारेण चेद्
?
एकः साधु परस्त्वसाधु कुरुते कर्माऽत्र किं कारणम् १ । ईशेच्छा यदि, साधुकर्मकरणे किं न प्रयुक्तेऽखिलान् ? सर्वज्ञोऽखिलशक्तिमान् कुचरितं रुन्धे न किं देहिनः १ ॥ ५ ॥ जानानोऽपि च शक्तिमानपि न यः कूपे पतन्तं जनं रुन्द्धेऽसौ वदितव्य एव करुणाहीनोऽधमाग्रेसरः ।

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42