Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 33
________________ अहम् ॥ अथ पञ्चमः स्तबकः॥ 2000OORONE सम्यग्ज्ञान-सुसंयमौ निगदितो मोक्षस्य पन्थाः परो याथार्थेन पदार्थसंपरिचयः सज्ज्ञानमावेदितम् । पुण्याऽघाऽऽस्रवसंवरा निजरणं बन्धश्च मोक्षः पुन जीवोऽजीव इति द्वयेऽपि भवति व्यासेन भावा नव ॥१॥ ज्ञानात्मा खलु जीव एतदितरोऽजीवस्तु धर्मादिकः स्यात् सत्कर्म च पुण्यमेतदितरत् पापं भवेदाश्रवः । द्वारं कर्मण एतदावरणकृत् स्यात् संवरो, निर्जरा __ध्वंसः कर्मण एव बन्धरचना बन्धोऽथ मोक्षः शिवम् ॥२॥ जीवास्तत्र मता द्विधा भवभृतो मुक्ताश्च तत्रादिमा __एकद्वित्रिचतुष्कपञ्चकरणा आवेदिताः प्राणिनः । एकाक्षाः कुजलामिवाततरवस्त्वङ्मात्रतः स्थावराः पर्याप्तेतरभेदकास्त्रसवपुर्भाजस्त्वनेकेन्द्रियाः ॥३॥ आहारः करणालयोऽक्षनिकरः प्राणाश्च भाषा मनः षट् पर्याप्तय एक-पञ्च-विकलाक्षाणां चतस्रः क्रमात् । षट् पश्चाप्यथ सूक्ष्म-बादरतयै-काक्षा द्रुमास्तु क्रमात् प्रोक्ता बादर-सूक्ष्मवादरतया प्रत्येकसाधारणाः ॥४॥ पञ्चाक्षाणि पुनस्त्वगेव रसना घ्राणं च नेत्रं श्रुतिः स्युः स्पर्शो-रस-गन्ध-रूप-निरवा अर्था अमीषां क्रमात् । तत्र त्वररसनेन्द्रियाः कृमि-जलौका-शङ्ख-शुक्त्यादय__ स्यक्षा नासिकया पुनः शतपदी-मत्कोट-लिक्षादयः ॥ ५॥ अक्ष्णा स्युश्चतुरिन्द्रियाश्च मशका भृङ्गाः पतङ्गादयस्तियेग्योनिभवा जल-स्थल-खगाः शेषास्तथा नारकाः।

Loading...

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42