Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 38
________________ त्रैलोक्येश ! मनस्तथापि तरलं नोऽद्यापि नो तृप्यते ... त्वत्सेवासुखमीहते प्रतिभवं मोक्षाभिकाङ्क्षा जहत् ॥ ३२ ॥ इष्टानिष्टवियोगयोगहरणीं त्वद्भक्तिमेवाश्रये विश्वव्यापियश शशाङ्कजननीं त्वद्भक्तिमेवाश्रये । चक्रेशामरशक्रतां प्रददतीं त्वद्भक्तिमेवाश्रये मोक्षानन्दमहोदयं विदधतीं त्वद्भक्तिमेवाश्रये ॥३३॥ मानुष्यं विफलं प्रशस्तकुलभूभावोऽप्यकिश्चित्करो वैशारद्यमबोधता गुरुपदारोहोपि पापास्पदम् । ज्ञान-ध्यान-तपो-जपादिविधयः क्लेशावहाः केवलं श्रद्दध्याद्यदि दुर्भगस्त्रिभुवनाधीशं भवन्तं नहि ॥ ३४ ॥ तेषामुग्रतपस्यया भवतु ये त्वद्वाक्सुधास्वादिन स्तेषामुग्रतपस्यया भवतु येऽत्वद्वाक्सुधास्वादिनः । तैर्लेभे शिवमन्दिरं सकुतुकं यैः शिश्रिये त्वत्पथ स्तैलेभेऽशिवमन्दिरं सकुतुकं यैः शिश्रियेऽत्वत्पथः ॥ ३५ ॥ ते धावन्ति मरीचिकां प्रति तृषाशान्त्यै सरस्त्यागत स्ते गृह्णन्ति पयःकृते च गवयं माहापरित्यागतः । ते तैलं च पिबन्ति धीनयनयोः पुष्ट्यै घृतत्यागतो ये देवान्तरमाश्रयन्ति भगवन् ! मुक्त्यै भवत्यागतः ॥३६॥ निर्दोषानुभवानुरूपविषयव्याकारिणः स्वामिनो न्याय्यं खल्ववलम्बनं न तु परेशामन्यथाभावतः ।। वकं वीक्ष्य विशेषकस्य करणं नीतौ नहि श्रूयते । तिष्ठत्येव सदा सतां हृदि पुनः सत्पक्षपातोऽर्हति ॥ ३७॥ अर्हद्गृह्याः समुचितकृतः सन्ति किं न्यायतो नाऽ- ' नहगृह्या अनुचितकृतः सन्ति किं न्यायतो न ?। । श्रद्धामात्रात् न समुपगमश्चाप्तितस्त्वहंदीशो नेयामात्रादसमुपगमः किन्त्वनाप्तेः परेषाम् ॥ ३८ ॥

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42