Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 39
________________ सौभाग्येन महीयसा मुनिपते ! त्वच्छासनं प्राप्यते __ तत् संप्राप्तवति प्रभो ! मयि जने दीने दयामातनु । धृलीकल्पविकल्पजालमलिनीभावापहारेण यत् नीतेनाऽऽत्मगृहे त्वया सह सदा कुर्वीय गोष्ठीसुखम् ॥३९॥ भ्रामं भ्राममनादिकालत इह प्रापं महान्तं श्रमं तदूरीकरणाय देवसदनं प्राप्तं न मोक्ष्याम्यथ । ... सानन्दोऽपि च तत्र देवचरणक्षीरं महानन्ददं पातुं न प्रभवामि दुर्भगतया हा हन्त ! बद्धोऽस्म्यहम् ॥४० अगम्योऽध्यात्मज्ञैर्वचनचणवाचामविषयः परोक्षोऽप्यक्षाणां त्रिभुवनविचित्रात्मविभवः । जगत्सृष्टि-ध्वस्ति-स्थितिकरणजम्बालविमुखः सदाब्रह्मानन्दो मम नुतिमपीतोऽसि भगवान् ॥ ४१ ॥ धन्योऽहं ननु जन्मवानहमहं पुण्यः कृतार्थोऽप्यहं भव्योऽहं पुरुषोऽप्यहं शिवपदश्रीभाजनं खल्वहम् । अद्याऽस्तोकशुभैर्जिनेन्द्र ! भवतो निर्बाधसिद्धान्तगी: सौन्दर्यानुभवप्रमोदविसरे जातोऽसि यल्लम्पटः ॥ ४२ ॥ किं लिप्सेऽथ कदापि कल्पलतिकां ? दूरेऽस्तु चिन्तामणिः ___ कुर्वे कामघटेन किं ? सुरगवीं मन्ये तृणायापि न । दग्धा दुर्भगताऽद्य पुण्यकमलालीला समुन्मीलिता यल्लोकोत्तरदेव ! मादृशदृशोरप्यागमो गोचरम् ॥ ४३ ॥ प्रलापं स्वच्छन्दं विदधतु परे नाथ ! भवतः पिधातुं त्वीशीरन् कथमिव यथार्थप्रवचनम् ? । गुणः खल्वेकोऽयं सुविहितधियां कम्पयति के विवेक्तुं तत्के हा ममक परितो मातुमिव खम् ? ॥४४॥ इति विरमणे देवार्य ! त्वां प्रणम्य कृताञ्जलि प्रविदध इमां संविज्ञप्तिं प्रसीद ! गृहाण ! ताम् ।

Loading...

Page Navigation
1 ... 37 38 39 40 41 42