Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
प्रतिभवमपि श्रीमत्पादाम्बुजातयुगस्य ते ...
परिचरणतो लप्सीयाऽहं शमामृतसम्पदम् ॥ ४५ ॥ रागद्वेषपरिक्षयेऽपि भवतः सम्यक्तरां श्रद्दधे
चिन्तारत्नवदीश ! भक्तिरमलाऽभीष्टार्थसंसाधिनी । सोऽयं न्यायसुमाञ्जलिस्तव पदे सम्यक्त्वगन्धोद्धुरो निर्बाधो विनिवेशितोऽमृतरसं भक्ताय दासीष्ट तत् ॥४६॥ इति वीरप्रभोः पूजामजमेरपुरेऽकरोत् । धर्माचार्यपदाम्भोजभृङ्गो न्यायविशारदः ॥४७॥
इत्याचार्यश्रीविजयधर्मसूरीश्वरचरणकमलमधुकरमुनिश्रीन्यायविजयविरचिते महावीरपूजाऽपरनामन्यायकुसुमाञ्जलौ पञ्चमः स्तबकः ॥५॥
। समाजमाध्यं अन्धः॥
| ॥समाप्तश्चाऽयं ग्रन्थः ॥ .

Page Navigation
1 ... 38 39 40 41 42