Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
Catalog link: https://jainqq.org/explore/022479/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ शिवगंजनिवासि शाह नवलाजी-वरधाजीकी सहायतासे छपा । Qap न्यायकुसुमांजलिः । कर्ता न्यायविशारद-न्यायतीर्थ मुनि न्यायविजयजी। Page #2 -------------------------------------------------------------------------- ________________ न्यायविशारद-न्यायतीर्थ मुनि श्रीन्यायविजयप्रणीतः महावीरपूजा परनामा -.. न्यायकुसुमाञ्जलिः। द्वितीयं संस्करणम् । मुम्बइपुय्या निर्णयसागरमुद्रणालये मुद्रितम् । वीरसंवत् २४४०. सन १९१४. Page #3 -------------------------------------------------------------------------- ________________ Published by Shaha Navalaji Vardhaji; Shivaganj. Printed by R. Y. Shedge, at the “Nirnaya-sagar" Press, 23, Kolbhat Lane, Bombay. Page #4 -------------------------------------------------------------------------- ________________ प्रस्तावना। को हि नाम, उपलेभानं सर्वज्ञमूलतया सकललोकालोकस्वरूपम्, परिरेभाणं दुराग्रहपरिहारेण मध्यस्थवृत्तितो वस्तुतत्त्वपरिज्ञाने प्रवृत्तवतां महामतीनामात्मानम्, प्रतिलेभानं प्राचां परधर्माचार्याणां प्रबन्धेषु मुहुः स्मृतिगोचरताम्, अप्रलेभानं परब्रह्म परिस्पृहया समहोत्साहमहमहमिकया समाश्रितवतामनन्तमहामुनिजनानां कमपि, अलेभानं पुनः प्रबलप्रतिस्पर्धनवावदूकवादिवारेभ्यो. ऽद्यापि कदापि पराभूतिलेशम्। किंबहुना, संहरमाणं निजप्रचंडप्रतापेन सर्वतेजस्विदर्शनतेजांसि दिवाकरवत्, प्रहरमाणं दृष्टिदुर्ग्रहहुताशनज्वालाज्वलित-कालीभूतानर्धविदग्धध्वासान् निशाकरवत् , आहरमाणं निखिलपरिपथिविद्वद्राजेभ्यो विजयपताकामहोदयसम्पदं चक्रेश्वरवत्। तथा प्रपद्यमानं साम्प्रतमपि समन्ततो भारते देशान्तरेषु च महतीं प्रसिद्धिम्, अभिष्ट्रयमानं च स्वविहितसूक्ष्मसमीक्षां सम्यक् सहमानतया समुच्छलत्प्रमोदपूरं गुणैकबद्धपक्षपातैरिहत्य-पाश्चात्त्यपण्डितमहोदयः अपि च प्रतिकूलानुकूलयोगवियोगसंहारकर सकलमनीषितपूरणकल्पपादपं कर्मवल्लीसमुच्छेदनिशितकरवालं संसारमहोदधिनिस्तरणमहायानपात्रं सकलवस्तुस्तोमयथार्थविद्याप्रदानेनाऽमूल्यसर्वज्ञताक्रयमहाऽऽपणं जैनप्रवचन-स्याद्वाददर्शनाऽनेकान्तवादप्रभृतिनामान्तरविख्यातमनादिनिधनं श्रीजैनदर्शनं परिचयपदवीं नानैषीत् । Page #5 -------------------------------------------------------------------------- ________________ यद्यपि च जानाति सर्वोऽपि जैनशास्त्रावगाहकृतश्रमः-शिरसा शैलभेदवदतिभीमं पाणिभ्यां क्षमो-त्क्षेपवन्महाचण्डं हस्ताभ्यां जलनिधिसमुत्तरणवदतिगभीरं वक्षसा गगनजैवातृकमण्डलपरिरम्भवन्महागहनं कराग्रतः कनकगिरिप्रकम्पनवदतिकठिनं गतितः समीरातिक्रमणवन्महादुःसम्भवं महतो महाविषयस्य श्रीजैनप्रवचनस्य समासतोऽपि सङ्ग्रहणम् नास्मि पुनरहं तथाविधशक्तिविशेषसम्पन्नः समुद्भासुरप्रतिभाप्रदीपः; __ तथापि यथाकालानुभावं विगलदुद्धीनां जिज्ञासूनां विद्यासुधा. रसरसिकीचिकीर्षया, ममापि च भगवद्भक्तिसमुजागरया स्वभावाऽऽ नन्दस्वादाऽनुबुभूषया ___"शुभे यथाशक्ति यतनीयम्" इति शिष्टोक्तिसमुपजनितसमुत्साहाऽङ्करः परिमितच्छन्दःपद्धत्या श्रीजैनदर्शनतत्वे महागहनस्थलेऽपि यथाशक्ति सञ्चरमाणः "प्रौढप्रभावभाजां जगदुपकारप्रवीणगात्राणाम् । शास्त्रविशारद-जैनाचार्य श्रीविजयधर्मसुगुरूणाम् ॥१॥ महता प्रसादेन दत्तहस्तावलम्बनतया कुतः सम्भवामि स्खलितदोषभाजनम् । __अयं च न्यायकुसुमाञ्जलिण्याचार्यश्रीमदुदयनविरचित न्यायकुसुमाञ्जलिवत् पञ्चभिः स्तबकैग्रंथितोऽस्ति; इयान्पुनर्विशेषः, असौ खोपज्ञटीकापल्लवितोऽस्ति, नायं तु तथा । असौ चाऽनुष्टुब्बृत्तपरिगुम्फितोऽस्ति, नायं च तथा, किन्तु शार्दूलविक्रीडितधारया । असौ पुनरीश्वरसिद्धयुद्देशेन प्रवृत्तः प्रमाणतत्त्वचिन्तां कुर्वाणोऽन्तरा स्वाभिमतप्रमेयसिद्धिमस्ति विधाता, तथाऽयमपि मुक्त्युद्देशेन प्रवृत्तो वेदितव्यः, अयं पुनरेतद्विषयप्रपश्चः Page #6 -------------------------------------------------------------------------- ________________ प्रथमस्तबकेप्रथमेऽष्टौ श्लोका मगलरूपाः, मुक्तिद्वैविध्यकथनम्, जीवन्मुक्तिप्रदर्शनम् , सर्वज्ञसिद्धिः, केवलिनो भवस्थस्य कवलाहारसिद्धिः, स्त्रीमोक्षसिद्धिश्चेति ॥१॥ द्वितीयस्तबकेजगत्कर्तृत्वखण्डनम् , शून्यवादि-बौद्ध-सांख्य-मायावादिनां प्रतिक्षेपः, जीवस्य सिद्धिः, कर्मणः पौगलिकत्वसिद्धिः, जीवस्य व्यापकत्ववादसंहारः, कौटस्थ्यतिरस्कारः, शब्दस्याऽऽकाशगुणत्वनिराकारः, शब्दस्याऽभिव्यङ्ग्यत्वाभिमानधिक्कारः, शब्दस्याऽर्थवाचकत्वसाधनेन सौगतमतपराकारः, स्फोटवादाऽधरीकारः, तमसो द्रव्यत्वरूपेण सत्कारश्चेति ॥२॥ तृतीयस्तबकेसर्वदर्शनाभिमतप्रमाणभेदपरिज्ञप्तिः, जैनदर्शनाभिमतप्रमाणतस्वविवेचनम्, नय-सप्तभङ्गी-स्थाद्वादतत्त्वोपदर्शनम्, षड्द्रव्यीनिर्देशः, दर्शनान्तराणामेकनयप्रभवत्वस्य जैनशासनस्य सर्वनयात्मकत्वस्य चावेदनं चेति ॥ ३॥ चतुर्थस्तबकेहिंसागर्दा, वेदस्य पौरुषेयत्वसिद्धिः, यज्ञादौ विहिता हिंसा हिंसा भवतीतिप्रदर्शनम्, द्रुमार्चन-पितृतर्पण-गोवन्द्यता-अग्निहोमादिविचारः, देव-गुरु-धर्मलक्षणतत्त्वत्रयपरिचायनम् , नाम-स्थापनाद्रव्य-भावैः परमेश्वरस्य पूजाविधिः, मूर्तिपूजासिद्धिश्चेति ॥४॥ ___ पञ्चमस्तबकेमोक्षमार्गप्रकाशः, नवतत्त्वीसलक्षणनिर्देशः, जीवविचारः, जीवस्याऽऽनन्त्यप्रदर्शनम्, मुक्तानां पुनर्भवावतारव्यपाकारः, साधु Page #7 -------------------------------------------------------------------------- ________________ श्रावकधर्मदिग्दर्शनम् , ब्रह्ममुक्तिस्वरूपनिवेदनम् , मुक्तौ परमानन्दसिद्धिः, वीतरागदेवस्यैव युक्तिगर्भउपासनोपदेशश्चेति ॥५॥ एते विषयाः क्रमशः पञ्चसु स्तबकेषु प्रतिपादिताः सन्ति, यान् मध्यस्थचेतसा द्रष्टारःसमर्हन्ति समुपलब्धुं तत्त्वसम्पदम्। असगृहग्रहगृहीतगलोपकण्ठास्तु दुःशका ब्रह्मणाऽपि प्रतिबोधयितुम् , अतस्तत्वज्ञानविरोधिनं कदाग्रहमवधूय प्रसादसुधाक्षालनसमुल्लसितमनसा एतद्न्थसमालोके यतेरन् सुधियः, सम्भवति हि सम्भावना, जिज्ञासया पर्यालोचयन्तः प्रबन्धमेतं मुहुर्मुहुर्भावयन्तश्च सरलेन हृदा वस्तुतत्त्वं लप्स्यन्ते कमप्यपूर्वशुद्धप्रमोदप्रवाहं सहृदयाः, इति प्रार्थी-ग्रन्थकारः। SXE HERE और CEO Page #8 -------------------------------------------------------------------------- ________________ ॥ शास्त्रविशारद - जैनाचार्य श्रीविजयधर्मसूरिगुरुभ्यो नमः ॥ महावीरपूजाऽ परनाम न्यायकुसुमाञ्जलिप्रकरणम् यस्य स्वर्गपदादनल्पविभवाच्युत्वैयुषो भारते श्रीमत्क्षत्रियकुण्डनामनगरे सिद्धार्थराजालये । . देवी श्री त्रिशलोदरे त्रिभुवनानन्द्यासनोत्कम्पतः श्रीजन्मक्षण आकृषद्धरिगणं तं वीरदेवं श्रये ॥ १ ॥ पादाङ्गुष्ठनिपीडनात् सुरगिरेः कम्पेन लोकोत्तरं यस्य स्थान विलोक्य देवपतिनाऽप्युत्पन्नमात्रस्य यः । दत्तां वीर इति प्रकृष्टमुदया साश्वर्यमाख्यां व्यधा दन्वर्थी सकलान्तरारिदलनात् तं वीरदेवं यजे ॥ २ ॥ पित्रोः प्रेम परं विबुध्य निजके गर्भस्थलेऽभ्यग्रहीद् दीक्षां विरहे तदापि सदने ज्येष्ठस्य चात्याग्रहात् । स्थित्वाऽब्दद्वयमोज्य राज्यविभवं भूत्वा महासंयमी यो विश्वस्य मुदं परामजनयत् तं वीरदेवं भजे ॥ ३॥ गोपालाद्युपसर्गदुःखमसकृद् देवात् पुनः सङ्गमाद् घोरा घोरमुपद्रवं विषहिता त्रैलोक्यवीरः क्ष्मी । Page #9 -------------------------------------------------------------------------- ________________ हत्वाऽनादिसमस्तकल्मषमलं यः प्राप्य सर्वज्ञतां विश्वोद्धारणमातनोनिजगिरा तं वीरदेवं स्तुवे ॥ ४ ॥ यज्ञार्थं मिलिता विलोक्य विबुधानेकादश ब्राह्मणा यातोऽन्नतये निशम्य च जनात् सर्वज्ञमत्रागतम् । वादार्थ प्रभुमागता गणधरा निःसंशया गौतमा To प्रतिबोधनाद् विदधिरे तं वीरदेवं वहे ॥ ५ ॥ यः कारुण्यमहार्णवो मुनिमनः पाथोजहंसो जग नेत्रानन्दकलाधरोऽखिलभवोपग्राहि कर्मक्षयात् । सिद्धार्थः खलु सर्वथा त्रिभुवनावासं विहाय क्षणात् तत्सद्ब्रह्मपरात्मना समभवत् तं वीरमन्तर्णये ॥ ६ ॥ शक्तो योगिजनस्तव स्तवविधौ किं नाम विश्वेश्वर ! प्रादुष्कर्तुमलं पुनस्तव गुणान् सर्वज्ञवर्ग : किमु ? | कोऽहं तद् भगवन् ! अतीवजडधी : किश्चेदमारब्धवा नूर्ध्वकृत्य किलाङ्गुलीं गणयितुं चेष्टे नभस्तारकाः ॥ ७ ॥ भाव्यं यत्नवता शुभे निजबलौचित्येतिसद्भाषितं दाणो हृदि वा मनागपि कथं हासास्पदं स्यां सताम् ? | निष्कम्पे च गुणानुरागरमणेऽज्ञस्यापि मे साम्प्रतं नायासः किमु ? पूर्वसूरिवदयं स्तोत्रे तवाधीश्वर ! ॥ ८ ॥ मुक्तिस्तावदुदीरिता द्वविधा, जीवत्स्वरूपाऽऽदिमा विध्वंसेन चतुष्टयस्य नितमां सा घातिनां कर्मणाम् । लोकालोकविलोकनैककुशलः श्रीकेवलाहस्करः स्यादौदारिकदेहिनो जगति यो नित्यं समुद्भासुरः ॥ ९ ॥ जीवन्मुक्तिमुपागता द्वयविधास्तीर्थङ्करा आदिमा - स्तच्छ्रन्या अपरे द्वयेऽप्यभयदा आतन्वते देशनाम् । भव्यान्तश्चिरकालिकाऽलघुमलप्रक्षालनाम्भः समां नानादेशमहीषु सञ्चरणतो निर्वाणकल्पद्रुमाः ॥ १० ॥ Page #10 -------------------------------------------------------------------------- ________________ हन्ताऽनादिककर्ममण्डलसमुच्छेदः कथं सर्वथा ? सादेवाऽपचयं समागतवतो ध्वंसो ध्रुवं सर्वथा। नासिद्धोऽपचयः समस्तजनताऽध्यक्षप्रमागोचरोऽ मुष्यातश्च भवत्यनादिकमलौघस्यापि संप्रक्षयः ॥ ११ ॥ सर्वज्ञोऽस्ति, विधूपरागप्रमुखज्ञानान्यथाऽसिद्धितः सिद्धो नाश्रय इत्यसाधुवचनं सिद्धो विकल्पाद्यतः । किंचाऽसिद्धिरपि स्फुरेदिह कथं ? मानाऽप्रसिद्धत्वत__ श्वेदेतद् नु विकल्पसिद्धिविरहे वक्तुं कथं शक्नुयाः ॥१२॥ नैवानादि विनश्यतीतिनियमः किं प्रागभावादिनाऽ नेकान्तो न ? नवाऽवसानरहितो ध्वंसोऽप्यहो ! सादिकः ।। कोऽपह्नोतुमलं समक्षमिदकं ? संयोगिताऽनादितोऽ प्युच्छेदं समुपैति भर्ममलयो वा विचित्रास्ततः ॥१३॥ सर्व प्रतिषेधयन् क्व भगवन् ! मीमांसको धावितः . स्थादेवाऽतिशयो धियः परिमितेराकाशवद् विश्रमी । सामान्यप्रमितेः पुनर्विषयता प्रत्यक्षधीगोचरी भावस्याव्यभिचारिणीति सकलज्ञस्योपपत्तावपि ॥ १४ ॥ भुक्तिं केवलिनः समाकलयतोऽप्यौदारिकं भूधनं सत्त्वे वेदनकर्म तैजसवपुःपर्याप्तिहेतोरपि । व्यासेधन यदि वेद्यकर्म निगदेत् निर्दग्धरज्जुस्थिती त्येतनागमिकं भवेदितरथा करसाद् भवोपग्रहः ? ॥१५॥ क्षुद्भावेऽपि न भुञ्जते जिनवरा हंहो ! महत् कौतुकं ___ का कुक्षिभरिता जगत्यनुपमा ? भृत्वोदरं स्वात्मनः । क्षुत्क्षामं निजनाथमारचयति न्यक्षार्थलाभेऽप्यहो ! नो विद्मः सहने क्षुधो भगवतां कोऽर्थो भवेत्तद्धियाम् ?॥१६॥ स्यादौदारिकदेहिनां भगवतां नूनं क्षुधासम्भवोऽ सद्वद्, नो परमं सुधीः प्रणिगदेदौदारिकं भूधनम् । Page #11 -------------------------------------------------------------------------- ________________ धान्यं तत्, नहि नाम धातुरहितं निर्वस्तुमीश्येत तद् : गार्हस्थ्येऽपि च भोजनं नहि भवेत् तादृग्वपुष्कत्वतः॥१७॥ शाहारानुररीकृतावतिशयैः कसाच्चतुस्त्रिंशता सम्भूयेत ? समस्ति जन्मसमयादाहारनीहारयोः । तीर्थेशामनवेक्षणं ह्यतिशयः प्रोज्जृम्भमाणः सदाऽ नन्यौजस्सपि पूर्ववद् न च कथं भुक्तिर्भवेत् केवले ॥ १८ ॥ आहारोपगमे क्षतिर्भवति का ? सश्चिन्तनीयं सतां - निद्रा दर्शनघातिकर्मविलये मूलाद् विलीना किल । निर्मोहेऽपि गतिस्थितिप्रभृतिवद् भुक्तिविरुध्येत नो पुष्पायेऽभिमुखेऽपि गन्धमतिवद् भुक्तौ मतिः स्यात् कुतः ।। स्त्रियो मुक्ता न स्युर्गमनविकलाः सप्तमभुवा. मिति प्रोचानानां भवति विपरीतो न नियमः । तथा चामव्यादेरपि तदनुषङ्गः सुदुरसोऽ नुमानं सिद्धान्तोऽपि च तदमृते खल्वभिमुखः ॥२०॥ मानादौदारिकत्वात् कवलसमशनं केवलालोकभाजां निर्बाधाच्छक्तिमत्त्वात् शिवपदगमनं योषितां च प्रसिद्धम् । त्वद्वाक्संवादसिद्धं भुवनगुरुगुरो! त्वत्पदाम्भोजभक्ताः सन्तोऽप्यन्येऽत्र सन्तोऽभ्युपगमविषयीकुर्वते हन्त! नैव॥२१॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ , प्रथमः स्तबकः ॥१॥ daWA MARDAN Sot SAMA NODUmay: Page #12 -------------------------------------------------------------------------- ________________ अर्हम् ॥ अथ द्वितीयः स्तबकः ॥ केचिन्मन्वत ईश्वरं विदधतं सृष्टिं न तद्युक्तिमत् कस्मात् सृष्टिमसौ सृजेत् करुणया केनापि चार्थेन वा १ । issur यत् करुणा क्व ? देहविषयाऽजातावजातेऽसुखे नाप्यर्थः कृतकृत्यतां कलयतो देवस्य जाघट्यते ॥ १ ॥ कारुण्यार्णव ईश्वरो न सुखवत् कुर्वीत विश्वं कथं ? जीवाऽदृष्टवशात् सुखासुखफलाभोगे किमीशा कृतम् १ | सौख्याद्यर्पणईरितानि तनुते कर्माणि चेनेदृशं सत्कार्यं तदभाव एव हि भवेत् शुद्धोऽगुणः प्राणभृत् ॥२॥ कर्माभ्यर्जननैपुणीं कलयता कर्माणि किं जन्तुना प्रेर्येरन्न, सुखासुखार्पणविधौ नार्थ ईशो भवेत् ? । कर्मादेः खलु तत्स्वभावमन ने कश्चिन्न बाधोदयः पीयूषद्युतिशेखरस्य तु कृतार्थीभावबाधो महान् ॥ ३ ॥ कर्माऽनादिककालतस्तनुमता सम्बन्धि यद्युच्यते तत्तेनाऽस्तु जगत्प्रवाह इतराधीशेन कोऽर्थो ननु १ । सम्बन्धो यदि कर्मणा तनुमतो निष्पादितः स्थाणुना तत्कस्माद् वद ! कर्मणो हि विरहे निष्केश आत्मा भवेत् ॥ दत्ते देहभृतां फलं स सदसत्कर्मानुसारेण चेद् ? एकः साधु परस्त्वसाधु कुरुते कर्माऽत्र किं कारणम् १ । ईशेच्छा यदि, साधुकर्मकरणे किं न प्रयुक्तेऽखिलान् ? सर्वज्ञोऽखिलशक्तिमान् कुचरितं रुन्धे न किं देहिनः १ ॥ ५ ॥ जानानोऽपि च शक्तिमानपि न यः कूपे पतन्तं जनं रुन्द्धेऽसौ वदितव्य एव करुणाहीनोऽधमाग्रेसरः । Page #13 -------------------------------------------------------------------------- ________________ भूपालस्तु न बुध्यते विदधतं गुप्तं कुकृत्यं नरं प्राकट्ये तु स दण्डयेत्, कुचरितं जानस्तु रुन्द्धे ध्रुवम् ॥६॥ सद्बुद्धिं ददते न किं स जगतः कुर्यात् सुकर्मैव यत् ? तेन क्लेशसमर्पणश्रमवतेशेनापि भूयेत नो। प्राचीनावरणादुदेति कुमतिश्चेत् तद् विमुञ्चेश्वरं प्राचीनावरणात् सुखासुखविधि निर्वाधमङ्गीकुरु ॥ ७॥ ईशत्वं खलु निर्निमित्तमथवा स्थाद्धेतुमद्, नादिमः स्थात् न सादथवाखिलस्य, न परो, हेतुर्यतः को भवेत् ? । तद्धेतुं समसाधयत् विभुरसावेवापरः कोऽपि ने त्यत्रापि प्रवदेत् प्रमाणममलं मानाद्धि मेयं स्फुरेत् ॥८॥ मुक्तिर्बन्धमृते कदापि न भवेत् , बन्धो न चेदीशितुः स्थान्मुक्तव्यपदेशभाक् स गिरिजास्वामी कथं चिन्तय ?। श्रेयोऽश्रेयफलार्पणे स जगतः प्राप्तोऽधिकारं कुतः ? किं मुक्ता अधिकारमेतमपरे मुक्तत्वतो नाप्नुयुः १ ॥९॥ मानं पोज्झितवान् स शून्यवदनः किं शून्यवादं वदेत् ? मानं संश्रितवान् स शून्यवदनः किं शून्यवादं वदेत् । विश्वस्य व्यवहारसाधकतया किं शून्यवादं वदेत् ? धावन् वज्रनिपात आशु गगनात् किं शून्यवादं वदेत् ? १० एकान्तक्षणिक पदार्थमुपयन् बौद्धो महानिस्त्रपः . सम्बन्धो नहि साधकस्य भवितुं सार्धं फलेनाऽर्हति । स्थाद्धेतुर्वधको वधस्य च कथं ? सत्प्रत्यभिज्ञास्मृती विश्वार्थव्यवहारकारणतया स्वामिन् ! भवेतां कुतः ? ॥११॥ ज्ञानं तजडबुद्धिधर्ममुपयन् साख्यो न सङ्ख्याश्रितो निर्लेपात्मचिदं वदन् विविषयां साङ्ख्यो न सख्याश्रितः। जल्पन् बन्धविमोक्षशून्यपुरुषं साङ्ख्यो न सङ्ख्याश्रितस्तत्तन्मात्रजमम्बरादि निगदन् साङ्ख्यो न सख्याश्रितः॥ Page #14 -------------------------------------------------------------------------- ________________ मायां ख्यातवता समभ्युपगता किं सत्यसौ वाऽसती? स्थादाद्ये द्वयतत्त्वसिद्धिरसती चेत् ? तत् प्रपञ्चः कुतः १ । स्यान्मायाऽर्थसहाप्यथेतिवदता स्वामिन् ! तवासूयिना स्याद् वन्ध्या च जनन्यपीति भुवने प्रख्यापिता किंमतिः ॥१३ चैतन्यं च शरीरवृत्ति न भवेत्, यत् स्याच्छवेऽप्यन्यथा _ ज्ञानाद्यं, ननु सम्भवेत्, लवणिमाद्यं वा कुतस्तत्र तत् ? । नैवं, तत्र भवेद्यतो लवणिमा, स्यादन्यथात्मैव त न्मात्राहेतुतयाऽन्यहेतुमनने चैतन्यवत् सिद्धवान् ॥ १४ ॥ प्राणाभावत एव बुद्धिविरहो युक्तो न वक्तुं शवे सञ्चारे नलिकादिनापि न भवेत् चैतन्यसंप्रत्ययः। चैतन्ये वपुषः पुनः प्रतिदिनं त्वन्यान्यभावे कुतो जायेतोत्तरवासरे स्मरणधीः पूर्वानुभूतस्य भोः ! ॥ १५॥ निर्ज्ञानं खलु भूतवस्तु तदहो ! तजं शरीरं कुत- चैतन्यादिगुणाश्रयो ? न हि पटः सम्पद्यते मृत्स्नया । भूतानामपि चेतना सकलधीनिर्बाधनाद् बाधिता साहित्येऽपि च चेतना नहि, तथाभूतेऽन्यतो बाधतः ॥१६॥ ज्ञानी वा सुखितोऽस्मि वाऽस्म्यसुखितः सम्प्रत्यहं खल्विति प्रज्ञानादबहिर्मुखाकृतितया विश्वाङ्गिना सिद्धवान् । आत्मा यद्यपलप्यतेऽसुखसुखाद्यैर्भिन्नरूपं जगत् सिध्येत् किं तदनाद्यदृष्टपुरुषाभावे समालोच्यताम् ॥१७॥ वैचित्र्यं जगतः प्रसिध्यतितरां हन्त ! स्वभावादिति खच्छं नैष विहेतुता यदि तदा सद् वा सदा स्थादसत् । नापि स्वात्मनिमित्तभाव उदयेदात्माश्रयो दूषणं कश्चिद् वस्तुविशेष एव यदि तत् नादृष्टभिन्नं भवेत् ॥१८॥ एतद् बालवपुस्तदन्तरवपुःपूर्व हृषीकादिना तारुण्याढ्यवपुर्वदित्यनुमयाऽदृष्टं समाश्रीयताम् । ... Page #15 -------------------------------------------------------------------------- ________________ प्राच्यातीतशरीरपूर्वकमिदं न स्याद्, यतस्तद्भवे तद् ध्वस्तं, नियतप्रदेशगतये सात्कार्मणः पुद्गलः ॥ १९॥ एतत् कर्म च पुद्गलात्मकतया स्वीकुर्वते च्छेकिला आत्मा नापरथा भवेत् परवशो, ज्ञेयं यथा बन्धनम् । क्रोधाद्यैर्व्यभिचारिता नहि, यतस्ते पारतन्त्र्यात्मका स्तद्धेतुः किल कर्म पुद्गलतया सिद्धिं समारूढवत् ॥२०॥ नाक्षाणामपि चेतनाभ्युपगमः सम्यग् , यतश्चक्षुषः प्रध्वंसे प्रभवेत् कुतः स्मरणधी रूपस्य संवीक्ष्यताम् । अन्यालोकितवस्तुनः स्मरणधीरन्यस्य नो युज्यते भावाक्षाणि तु चेतनात्मकतया जैनेश्वरा मेनिरे ।। २१ ॥ जीवं वैभवशालिनं निगदतां त्वद्रोहिणां का च धीः · यो यत्रैव यदस्ति दृष्टगुणकस्तत्रैव खल्वप्यसौ । कुम्भं पश्य ! स यत्र दृष्टगुणकस्तत्रैव खल्वप्यसौ. __ भ्रान्ता देव ! भवद्वचोऽमृतरसानन्देभ्य ईर्ष्यालवः ॥२२॥ जीवानां प्रमितेर्वपुष्परिमितेर्भेदेन भेदे भवे. नानातेति च मा म शङ्कत पृथग्भावेऽपि रक्तादिना । कुम्भाभेद इवात्मनः परिमितेर्भेदेऽपि भेदो न यत् .... __शुद्धार्थैक्यविशिष्टभेदयुगलं धत्ते विरोधं नहि ॥ २३ ॥ मूर्त्तत्वेऽ सुमतो वपुर्मिततयाऽङ्गे स्यात्प्रवेशः कुतो? नैतत्सद्, ननु मूर्तता हि किमियं ? रूपादिमत्त्वं यदि । चित्तेन व्यभिचारतो न हि वदेत् स्यान्चेदियत्तान्वितं . ___ मानं तत् तदभीष्टमेव विभुताशून्यस्य तद्भावतः ॥ २४ ॥ हंहो ! सुन्दर! मूर्त्तवस्तुनि भवेद् मूर्तप्रवेशः किमु ? ___ स्यादेव प्रिय ! वालुकादिषु जलादीनां प्रवेशः स्फुटः । देहासङ्गिन आत्मनश्च नभसः को भेद आवेद्यतां ? नो विनो बहिरङ्गतोऽभ्युपगमे जीवस्य किं कारणम् ॥२५॥ Page #16 -------------------------------------------------------------------------- ________________ मातङ्गस्य च मत्कुणस्य च वपुः सामस्त्यतश्चेतनोऽ वष्टनात्यथवैकदेशत इति प्रश्नो भवेद् वैभवे । नायोऽध्यक्षविवाधनात् जिनमतस्वीकारपातात् पुन नन्त्यिः सावयवत्वमापतति यत् ध्वंसप्रसङ्गश्च तत् ॥ २६ ॥ इष्टः सावयवः स चेत् तनुमितो नात्मा किमास्थीयते ? किं सङ्कोचनविस्तृती तनुमतः स्यातां न दीपस्य वा। स्वीकुर्वन्ति कथश्चनाऽवयवितां जीवस्य जैनेश्वराः कार्यत्वं तत एव तैरुपगतं कौटस्थ्यनिष्खण्डनात् ॥ २७ ॥ कौटस्थ्ये हि शरीरिणः परिणतिः कौतस्कुती सम्भवेत् ? ज्ञानध्यानतपोजपप्रभृतिभिर्वैचित्र्यसिद्धिः कुतः ? । तिर्यग्देवमनुष्यनारकतयोत्पादोपपादः कुतो? नश्येत् किं न च बन्धमोक्षपदवी ? कीदृश्यसामञ्जसी ॥२८॥ नानारूपविचित्रभाववशतोनित्यत्वमप्यात्मनो जीवत्वेन सदातनस्य विबुधैः सोत्कण्ठमङ्गीकृतम् । जीवस्याम्बरवद् विभोः स्मृतिमतिध्यानादिकं स्यात् कुतो ? न खाद्यात्मनि वैभवाऽभ्युपगमे चेष्टादिकं व्योमवत् ॥२९॥ शब्दं व्योमगुणं वदन्, न परमाणूनां गुणं किं वदेत् ? स्थाबाऽऽस्साकसमक्षगोचरतयाऽणूनां गुणत्वे स चेत् । ताऽऽसाकसमक्षगोचरतया व्योम्नो गुणत्वे भवेत् ? न स्युवाऽणुगुणाः समस्तखगुणाः प्रत्यक्षगम्या यतः ॥३०॥ कर्मत्वप्रतिषेधनेऽपि नियमात् द्रव्यं ध्वनि मन्यतां ये ह्यत्यन्तपरोक्षवस्तुगगुणा असत्समक्षा न ते । रूपाद्यं परमाणुवृत्ति च यथा, शब्दोपि तस्मानभो धर्मः सिध्यति नाऽन्यथा न हि भवेदध्यक्षधीगोचरः॥३१॥ स्पर्शप्रत्यय एव वायुरपि चाध्यक्षः समाश्रीयतां मन्यन्ते हि तमोगृहे कृतघटस्पर्शाः समक्षं घटम् । Page #17 -------------------------------------------------------------------------- ________________ नानैकान्तिकता यथोक्तनियमे लब्धावकाशा तत स्तद्यनाणुगुणोध्वनिर्नहि ततो व्योम्नोऽपि, युक्त्यैक्यतः॥३२॥ 'शब्दश्चागत एष एवमखिलप्रज्ञाप्रसिद्धा क्रिया शब्दं द्रव्यतया न साधयति किं ? किं स्याद् गुणः सक्रियः। श्रोत्रं शब्दभुवां न याति, न च वा न प्राप्यकारि स्मृतं गन्धद्रव्यवदेव तद् ध्वनिरयं द्रव्यं क्रियातो भवेत् ॥ ३३ ॥ सर्वप्राणिमतिप्रसिद्धजननेऽप्याबाधशून्येऽप्यहो ! शब्दं नित्यमुपेयुषां प्रतिपदं किं वर्णयामोऽधुना ?। व्यङ्गयत्वेऽथ च निर्मिते प्रयतने तत्तवनिव्यक्तये शब्दास्तत्स्थलसम्भवाः परइह व्यक्तिं कथं नाप्नुयुः ? ॥३४॥ व्यङ्ग्यत्वं नियतप्रकाशजनकैः शब्देषु चेत् ? नो, तथाऽ न्यत्राऽसम्प्रतिपत्तितोऽनुभवतो बाधोऽन्यथा दुर्धरः । दीपो द्रष्टुमुपाहितो दधिघटं गेहाङ्गणे भूस्पृशाऽ पूपानामपि हन्त ! तत्स्थलजुषां किं न प्रकाशं सृजेत् १ ॥३५॥ चैत्रो भाषत एवमावरणवानप्येष विज्ञायते तच्छब्दस्य विचित्रभाववशतः किं नाङ्ग ! मीमांसक !। व्यङ्ग्यत्वे त्वनुमानसंविदमिमां शक्नोषि कर्तुं कुतो? ___ व्यङ्ग्यैः कुम्भमुखैभवेदनुमितं दीपादि किं व्यञ्जकम् ॥३६॥ अर्थेऽसत्यपि दृश्यते ध्वनिगणो नातोविनाभाववान् तस्याऽसौ, न ततोऽर्थवाचकतया शब्दोऽभ्युपेतुं क्षमः। इत्येवं सुगतानुयायिविदुषां गर्हागृहं चिन्तनाऽ ध्यक्षादेरपि मानताविगलनात् कुत्राप्यनेकान्ततः ॥ ३७॥ स्फोटो नार्थनिगादकः, किमिह यत् मानं समुज्जृम्भते ? सामय्या परिदृष्टयार्थवदनेऽदृष्टाभिमानो न सन् । वर्णा नैव समस्ततानुपपदोऽधीशा अभिव्यञ्जितुं वैयर्थ्यात् पुनरन्यवर्णभणितेः प्रत्येकमप्येतकम् ॥ ३८ ॥ Page #18 -------------------------------------------------------------------------- ________________ ११ ध्वान्तोऽभावतया परैर्निगदितो नैवास्ति युक्तिक्षमो रूपाद्, द्रव्यतयोपपत्तिपदवीप्राप्तेः क्रियायाः पुनः । कुम्भाभाववदुद्भवेच्च तमसो भावस्य साक्षात्कृतिर्नालोकेन विना, दृशोरभिगमात् द्रव्यं तमः सिद्धवत् ॥ ३९॥ विश्वादित्य ! प्रवचनगवीचारुतत्त्वामृतं ते यद्यन्येषां सृजति विकृतिं दुर्ग्रहे सन्निपाते । किं माधुर्य तदिह गतवत् १ प्राप्तवतूच्च धीनां नित्यानन्दोद्भवकरणतामन्यसंव्याप्यभावाम् ॥ ४० ॥ भेकः कूपरतो यथा च मनुते किञ्चिन्न कृपाधिकं न त्वा स्वस्वमतारता इह तथा प्रादेशिका जानते । भ्रान्ता नाथ ! वितत्य ते निजनिजप्रज्ञोद्भवाः कल्पना गेहेनर्दिन एव मान्ति कुधियो गेहे न देहेऽपि न ॥ ४१ ॥ हिंसादेरुपदेशतः कलुषितं पूर्वापरार्थेषु च व्याघातैर्मलिनं गृहीतमधमैरेकान्तबाधाहतम् । प्रामाण्यं नहि सासहीतरकृतं शास्त्रं भवद्वन्मुखं साध्वेकं तु विपर्ययात् कृतधियोऽभ्यर्चन्ति ते शासनम् ॥४२॥ तेषां कामलरोग एष किमहो ! किं वैष वातोदयः १ केयं भ्रान्तिरलौकिकी निजशिरश्छेदो ध्रुवं स्वासिना । सिद्धान्ते शमशील पुण्यकरुणापूर्णे प्रदीपेऽपि यत् शान्धौ हठतः पतन्ति कुधियोऽत्वद्वान्प्रयाङ्गीकृतेः ॥ ४३ ॥ लेभे तस्कररोहिणेय इह ते वाचासुधालेशतोऽकस्मात् कर्णपुटादपीष्यिततया पीतात् पुनर्जीवनम् । मुक्तः श्रेणिकभूपमारविपदस्तच्छ्रद्धया सेविता कात्सूर्येनाप्युपदेशमीश ! पुरुषो जाने न कीदृग् भवेत् १ ॥४४॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ - द्वितीयः स्तबकः ॥ ६॥ Page #19 -------------------------------------------------------------------------- ________________ WIMMINS A क/AA 17 ___ अहम् ॥ अथ तृतीयः स्तबकः॥ चार्वाको हि समक्षमेकमनुमायुग् बौद्धवैशेषिको साङ्ख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादस्वयम् । सार्थोपत्ति चतुष्टयं वदति तद् मानं प्रभाकृत्पुन भट्टः सर्वमभावयुक्, जिनमतेऽध्यक्षं परोक्षं द्वयम् ॥१॥ प्रत्यक्षं व्यवहारतश्च परमार्थाच द्विधा भाषितं तत्रावग्रहणादिनेन्द्रियमनोजातं चतुर्भेदकम् । आचं स्यात्, चरमं पुनस्त्रिविधक, तत्रादिमं केवलं विश्वव्यापि, मनोभिपर्ययमथान्त्यं चावधिस्थोऽवधिः ॥२॥ अध्यक्षतरदस्ति च सरणधीः संप्रत्यभिज्ञा पुन स्तर्कश्चानुमितिस्तथाऽऽगम इति प्रख्यापितं पञ्चधा। तत्राचं त्वनुभूतवस्तुविषयं स्याद् वासनोबोधना दैक्यादिग्रहणं स्मृतेरनुभवाजातं द्वितीयं पुनः॥३॥ तर्कस्तु प्रतिबन्धबुद्धिरनुमा स्यात् साधनात् साध्यधी द्वैधा स्वार्थपरार्थभेदत इयं तत्रादिमा साधनम् । सभिर्णीय परोक्षवस्त्ववगमो व्याप्तिं च नीत्वा स्मृति हेतोस्त्वेष परा, तथोपचरिता हेतुर्वभाषेऽनुमा ॥४॥ व्याप्तत्वेन सुनिर्णयस्य विषयः प्रोचे पुनः साधनं त्रैलक्षण्यमुखान्यलक्षणतया नो युज्यते साधनम् । आलोकादुपरि क्षितेर्दिनकरः खेन्दुर्जलेन्दोरिति__ स्थानाव्यापितया च तत्तनयतायेष्वप्यनेकान्ततः॥५॥ निर्बाधाभिमताविनिश्चितमथो साध्यं स धर्मान्वितो धर्मी पक्ष उदाहृतः, कचिदसौ धर्मोऽनुमेयः पुनः । Page #20 -------------------------------------------------------------------------- ________________ धर्मी सिध्यति मानतः, कचन तु ज्ञानाद् विकल्पातथो भाभ्यामप्यथ वह्निमांश्च, सकलज्ञश्च, ध्वनिज़सवान् ॥६॥ सात् सत्तेतरसाध्यको नियमतो धर्मी विकल्पागतो ज्ञेया साध्यनिराकृतिश्च बहुधाऽनुष्णोऽनलोऽध्यक्षतः। नित्यः शब्द इति प्रजात्यनुमया, जैनेन भोज्यं निशी त्येवं चागमतः, शिरःशुचि जनात् , वाचा च वन्ध्याऽम्बिका॥७॥ त्रेधासिद्धविरुद्धसंव्यभिचराः प्रोक्ताश्च दुहेतवो ___ दृष्टान्तः खलु साध्यहेतुनियमो यस्मिन् विनिश्चीयते । दुष्टोऽसौ पुनरष्टधाऽथ नवधा साधर्म्यवैधर्म्यतो ___ दृष्टेष्टाप्रतिबाधशब्दजनितज्ञानं भवेदागमः ॥ ८ ॥ शब्दं खल्वनुमानमानमवदत् यत् तन युक्तिक्षम नह्यभ्यासदशास्त्रसावनुमितिर्वस्तुप्रतीते?तम् । कूटाकूटसुवर्णवीक्षणपरप्रत्यक्षवद् वीक्ष्यता मभ्यासान्यदशास्वमुं त्वनुमिति को नाभ्युपेयात् सुधीः १ ॥९॥ परस्याभिप्रायं कथमुपलभेताऽनुमितितो विना तच्चार्वाकाननकमलमुद्रा समजनि । न शक्यः प्रत्यक्षात् परहृदयवृत्तेरधिगमो विशेषाच्चेष्टाया इति यदि तदाऽऽपप्तदनुमा ॥ १०॥ तर्कार्थग्रहणं विकल्पकधिया पाश्चात्ययाऽध्यक्षतो मेनानो निगदेत् विकल्पकमतिः सा स्यात् प्रमा वाप्रमा । षण्ढाद् दारकदोहदस्तु चरमे, प्राच्ये समक्षानुमा_मानार्थान्तरमानमापतितवत्ततर्क आश्रीयताम् ॥ ११ ॥ यस्तु स्वीकुरुते सुपेशलमतिर्न प्रत्यभिज्ञा प्रमा मेकत्वादिधियो ध्रुवं करणतां कस्याप्यसौ ग्याहरेत् । नैषाध्यक्षत उद्भवेदितस्थाऽऽद्याध्यक्षकालेऽपि सोन्मजेद्, न स्मृतितस्ततो, यविषये न स्यात् प्रवृतिः कचित्॥१२॥ Page #21 -------------------------------------------------------------------------- ________________ १४ स्मृतिप्रामाण्यापाकरणनिपुणः कः खलु भुवा ? विसंवादातीता न भवति किमध्यक्षवदसौ ? । गृहीतग्राहित्वं नहि किमनुमानार्थविषये ___ समक्षे, सम्बन्धावगमविषयायामनुमितौ ? ॥ १३ ॥ नाभावस्तु समस्ति मानमनुमाऽर्थापत्तिमानं पुन भिन्नं नाप्युपमानमापतितवत् स्यात् प्रत्यभिज्ञाधियाम् । ऐतिचं पुनरागमो, वितथवाक् चेद् न प्रमाणं तथा __ ज्ञानं प्रातिभमुक्त एव पतति, स्थाचानुमा सम्भवः ॥१४॥ मानं शासति सन्निकर्षमपि ये कीदृक् प्रभो ! तभ्रमः ? __ स्वाज्ञानः स्वयमेष यत्किमपरज्ञानं सृजेत् कुम्भवत् १ । अन्येषां हि सृजेत् प्रकाशनमसौ दीपः प्रकाशात्मकः प्रत्यक्षे सहकारिताभ्युपगमं त्वेतस्य को वारयेत् १ ॥१५॥ प्राप्यार्थ नयनं प्रतीतिजननं स्वीचक्रुषां का मति-? ! काचान्तरितार्थबुद्धिरुदयेत् प्राप्य ग्रहे चक्षुषा । कुड्याद्यन्तरितार्थबुद्धिरुदयेदप्राप्यबोधेऽपि चेत् ? नैवं, नेदृशयोग्यता ह्यपरथा स्याद् गन्धधीश्चक्षुषा ॥१६॥ गृह्णात्यर्थमवाप्य नेत्रमनसी मुक्त्वेन्द्रियाणां गणो जायेते यदनुग्रहोपहनने मेयप्रणीते इह । शब्दादिविषयो हि पुद्गलतयाऽऽभ्यागम्य कर्णादिकं सम्बध्नाति न किं क्रियाश्रयतया, नाप्राप्यकारीत्यतः ॥१७॥ स्वार्थोद्भाससमर्थमेव भवति ज्ञानं, भवेन्नान्यथाऽ र्थोद्भासो, निजभासनव्यवसितौ ज्ञानान्तरापेक्षिणः । ज्ञानादर्थविभासनस्य विरहाद् जाड्यात् स्वरूपस्य चा नुद्भासात् स्वत एव, देव ! निपुणं दृष्टे न बाधस्त्वया ॥१८॥ मानं वस्तु परिच्छिनत्ति सकलं स्याद्वादमुद्राङ्कितं देशमाहितया नयोऽन्यविषयौदासीन्यवानामतः । Page #22 -------------------------------------------------------------------------- ________________ भिन्नाभिन्नमतः फलं निजगदेऽज्ञानप्रणाशादिकं __ सन्देहभ्रमबुद्धयश्च करणाद्या दुष्प्रमाणात्मकाः॥ १९ ॥ माताऽऽत्मा स्वपरावभासनिपुणः कर्ता च भोक्ता निजो द्यत्संवेदनसिद्धतामुपगतो भिन्नः प्रतिक्षेत्रकम् । सौवाक्षालयमान आवरणकं बिभ्रत् पुनः पौद्गलं ज्ञानात्मा परिणामवान् भगवतः सिद्धान्त आवेदितः ॥२०॥ वाक्यं माननयस्य चानुगतवत् स्यात् सप्तभङ्गीमिहै कस्मिन् वस्तुनि चैकधर्मविषयप्रश्नादनिधिया । व्यस्तत्वेन समासतोऽपि च विधिव्यासेधयोः कल्पनात् स्याद्युक्ता खलु सप्तधैव भणितिः सा सप्तभङ्गी स्मृता ॥२१॥ द्वेधा सा परिकीर्त्तिता च सकलादेशस्वभावेतरा ___ मानालम्बितवस्तुनश्च युगपत् कालादिभिपिकम् । सोऽभेदादथवा त्वभेदमनसा वाक्यं भवेदादिमा नादेशोऽथ विपर्ययात्तु चरमादेशो जिनेन्द्रागमे ॥ २२ ॥ सर्व वस्तु च वर्त्तते सदसदाद्यानन्तधर्मात्मकं सन् वाऽसन्नथवा प्रसिध्यतितरामेकान्ततोऽर्थो नहि । खद्रव्यादिकतः सदेव हि परद्रव्यादितोऽसत् पुन र्हानिः स्यान्न किमन्यथेतरगतात्मापत्तितः स्वात्मनः ॥२३॥ एकसिन् पितृपुत्रताप्रभृतयो धर्मा विरुद्धाः परैः सह्यन्ते यदि, तर्हि नाम सदसद्भावादिधर्मा न किम् । स्याद् दोषः, सदसत्तयाऽभ्युपगमोऽवच्छेदकैक्येऽपि चेत् ? सापेक्षा तु विरुद्धधर्मपरिषत् स्यादेव शीतोष्णवत् ॥ २४ ॥ सत्त्वासत्त्वविरुद्धधर्मयुगलं नैकत्र युक्तं भवे दित्येकान्तमतोग्रभूतनिहताः पूत्कुर्वते सर्वतः । पश्यन्तोऽपि विरुद्धवर्णरचनां तन्मेचकेषु स्फुट सिध्येद् वै सदसत्तया निजपरात्माख्यादवच्छेदकात् ॥२५॥ Page #23 -------------------------------------------------------------------------- ________________ सत्वासत्त्वधियं च संशयतया मन्दं विना को वदेद् ? एकसिन् हि विरुद्धधर्मयुगलज्ञानं मतः संशयः । सत्त्वासत्त्वयुगं प्रसिध्यति यदै-कमिन् प्रमाणात्तदा व्याघातः क इहोदयेत् ? कथमिदंसंप्रत्ययः संशयः ॥२६॥ स्थाणुर्वा नर एष वेत्यवगमः संविश्रुतः संशयोs- नास्था धर्मयुगे सतामभिमता दोलायमानेन च । नैवं तु प्रकृते, समस्ति सदसत् खान्यवरूपेण यत् तद्रव्यानलधीर्व नैव सदसद्धीनिश्चला संशयः ॥ २७ ॥ नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवोऽ नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवः । नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यतेऽ नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यते ॥२८॥ नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयोऽ नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयः । नित्यानित्यतया तु वस्तु वदतः कश्चिन्न बाधोदयो बाधः कः कफकृद्गुडेन मिलिते पित्तावहे नागरे? ॥ २९ ॥ तेनोत्पादविपादसंस्थितियुतं भावं यथा गोरसं । स्थाद्वादिन् ! प्रतिपेदिरे तक मुखाम्भोजोद्भवं प्रशिलाः। भङ्गवा कुण्डलमातनोति कटकं तत्कुण्डलत्वं गतं संजज्ञे कटकस्वरूपमुभयस्थं स्वर्णमत्र स्फुटम् ॥ ३०॥ नो संयोगि-तदन्यभावयुगलं मूलस्स चाग्रस्य चाऽ वच्छेदेन यथाऽन्यदीयगुरुभिः कक्षीकृतं बाध्यते । नित्यानित्यतया तथैव सदसद्भावेन नो बाध्यते मानात् सिध्यदशेषवस्तु तदहो! कान्तास्त्यनेकान्तगी॥३१॥ नानाकारकमेकरूपमवदत् ज्ञानस्य बौद्धेश्वरचित्रं रूपमनेकमेकमुचितं योगादिरावेदयत् । Page #24 -------------------------------------------------------------------------- ________________ १७ साङ्ख्यः सत्त्वमुखैः प्रधानमगदत् युक्तं विरुद्धैर्गुणैः कोऽनेकान्तमतावलम्बनमृते स्वस्थीबभूवानिह ? || ३२ ॥ तिर्यगू नाम तथोर्ध्वताख्यमुदितं सामान्यमर्हन्मते द्वेधा, तत्र पुनः समा परिणतिः सर्वास्वपि व्यक्तिषु । गोत्वाद्यादिममूर्ध्वता तु कटकाद्यन्यान्यपर्यायगं पर्यायस्तु विशेष एतदुभयं नार्थात् पृथक् सर्वथा ॥ ३३ ॥ धर्मः स्यात् जडजीवयोर्गतिकृतौ पानीयवद् यादसोऽ धर्मः स्यात् समवायिकः स्थितिकृतौ छायाऽध्वयातुर्यथा । सर्वव्याप्यवकाशदायि च नभोऽनन्तप्रदेशात्मकं कालो वर्त्तनलक्षणो निजगदे स्पर्शादिमान् पुद्गलः ॥ ३४ ॥ षड्द्रव्ययेषा सजीवा जिनमतविदिता तत्र कालातिरिक्ताः सर्वे सन्ति प्रदेशप्रचयपरिगता जीवभिन्ना अबोधाः । कालं चर्चेऽस्तिकायाः पुनरिमकऋते पुद्गलं मूर्त्तिहीना उत्पादध्वंससत्तात्रितयपरिणताः सर्व एते पदार्थाः ॥ ३५ ॥ नाथ ! तवोच्च नीतिपदवीं चेतश्चमत्कारिणीं गुप्तागुप्ततया सदाऽपि दधतः स्पर्श तकस्याः परे । त्वामीशं नहि मन्वते जडतमाः कोऽप्येष हा ! दारुणो मोहो ? गृहत आशु काचशकलं निर्मुच्य चिन्तामणिम् ॥ ३६ ॥ अभूतां काणादाचरणमते नैगमनयात् तथा साङ्ख्याद्वैते समुदभवतां सङ्ग्रहनयात् । दृशो बौद्ध्याः प्रादुर्भवनमृजुसूत्रात् प्रकटयन् भवानेको दृष्टिं समसमनयां नन्दति विभो ! ॥ ३७ ॥ नासौ विद्वान् न चासौ प्रशमरसरतो नाप्यसौ योगपात्रं ध्यानी नासौ तपखी नहि न पुनरसौ मुक्तियोग्यः समस्ति । स्वामिन्! ते पादपद्मं सकलभवभयोद्रावणं शाश्वतश्रीसंप्रापेऽनन्यहेतुर्न मनसि रमते यस्य दौर्भाग्यभाजः ॥ ३८ ॥ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाञ्जलौ तृतीयः स्तबकः ॥ ३॥ Page #25 -------------------------------------------------------------------------- ________________ DAR अहम् ॥ अथ चतुर्थः स्तबकः॥ शार्दूल्याः कृमिसङ्कलं प्रददुषो बुद्धस्य सौवं वपु यादेयविमोहिनः सदयता व्यावयेते कीदृशी? । खाम्बाया निजजन्मनश्च समये कुक्षेस्समुद्दारिणः किं ब्रूमः सुगतस्य हन्त ! हृदयं मांसादनं प्रोचुषः १ ॥१॥ हिंसां प्राणभृतां श्रुतिप्रगदितां धर्मस्य सम्पादिकां मेनानो मुनिजैमिनिन हृदये किञ्चित् समालोचयत् । प्रत्यक्षोत्कटयातनानुभववानप्यात्मनि क्लेशतोऽ न्येषां देहभृतां विहिंसनविधौ निष्कम्पचेता हहा ! ॥२॥ किं ब्रूमः कमुपासहे निकटतः कस्याऽत्र पूत्कुर्महे ? विश्वं निःशरणं विनायकमपत्राणं व्यतीताश्रयम् । साक्षाच्छ्रीजगदम्बिकाऽक्षिपुरतो बद्धा पशोराननं _शस्त्रं निर्भयमुत्क्षिपन्ति गलके सम्भूय भूदेवताः॥३॥ देवी चेजगदम्बिका, भवति तन्माता पशूनां न कि ? __ सत्येवं च पशोः सुतस्य वधतस्तुष्येत्कथं नन्वसौ ? । रुष्टा काप्यसुरी कथं भवतु नो ? नैतावता साम्प्रतं त्यक्तुं धर्मपथं कृतेऽप्यनुचिते धर्मो न तच्चेष्यताम् ! ॥४॥ हिंसातो यदि धर्मसम्भवमतिधर्मो दयातः कुतः ? यागादिर्नहि हिंसया विरहितः किं नाम सम्पद्यते । यागादौ यदि नो भवेत्पशुवधः का दृश्यते तत्क्षतिः ? संतोषार्पणमेव देवभजनं तिष्ठेरक हिंसाविधौ ? ॥ ५॥ Page #26 -------------------------------------------------------------------------- ________________ १९ स्वर्गश्रीरुपतिष्ठते यदि पशुं यागे हतं सत्वरं पित्रादेरपि देवशर्मददने नैव किमाचर्यते ? | हिंसायामितरत्र किं तदधिकं यागीयहिंसाविधे का सुकृतस्य हेतुरितरा पापस्य हेतुर्भवेत् । ॥ ६ ॥ सर्वेषां च मतं, सती सुमनसा स्यादन्यतोऽन्या गतियोगे चारटतः पशोः कटुरसं दैन्यप्रकम्पादिभिः । दुर्ध्यानं स्फुटमीक्ष्यते, कथमतः स्वर्गस्य सम्भावना ? हन्तुर्दुष्परिणामतो न च कथं श्वभ्रस्य सम्भावना ? ॥ ७ ॥ शीघ्राऽऽकस्मिकवल्लभाऽऽशुभसमाचारश्रुतौ तत्क्षणं स्वल्पं नो मुखतो निरेति रसना, कस्यैष न प्रत्ययः १ । दुर्मारेण विमार्यमाणपशवः स्फूर्जद्रसज्ञा बहि: स्युः की विपद पदे निपतिताः ? हंहो ! स्वयं ध्यायतं ! ॥८॥ सद्यो लम्बितलोल-लोहितबहिर्निर्यात गोलाक्षिकं मूकं दीनतरं कृपोद्भवभुवं वक्त्रं पशूनां वधे । आलोक्याऽपि कृपाङ्कुरः स्फुरति नो येषां मनोमन्दिरे तेषां ग्रावकठोरमानसभुवे भूयाद् मदीयं नमः ॥ ९ ॥ धर्मश्वोदनयो- दितोऽखिलजगत्प्रज्ञापनाशक्तया साधीयानिति जल्पितं मतिमतामग्रेसरैः श्रोत्रियैः । न त्वेतत्सद पौरुषेयक तया वागात्मनोऽसिद्धितो वैशिष्ट्यं च कुमारसम्भवगिरः प्रोज्जृम्भते किं श्रुतौ १ ॥१०॥ वेदः स्यात् पुरुषप्रणीत इतरो वाऽऽद्येऽखिलज्ञो न वा ? नाद्यः सर्वविदस्त्वयाऽनुपगमात्, अन्त्ये प्रमाणं कुतः । नाप्यन्त्यस्तदसम्भवात्, गगनतो व्यक्ताक्षराऽप्रत्ययात् सिध्येन्माघवदेव पूरुषजता वर्णात्मकत्वाच्छ्रुतेः ॥ ११ ॥ प्रामाण्यं पुनराप्तलोकविवशं वाचां न मन्येत कः ? सत्येवं पुनराप्तवश्यविरहाद् वेदः प्रमाणं कुत: ? । Page #27 -------------------------------------------------------------------------- ________________ छागादिप्रमय-द्रुमार्चन-पितृप्रप्रीति-पापनगो-- ___ स्पर्श-प्रीणितनाकिहव्यप्रमुखानल्पोपदेशान्वितः ॥ १२ ॥ तत्र च्छागवपुष्मतो विहननं स्वर्गप्रदं स्यात्कथं ? ___ वर्गप्राप्त्यनुषङ्गतो नरवपुःसंज्ञप्तितोऽप्यन्यथा । हीनत्वेन नरात् पशोर्विहननं सङ्गच्छते चेत्तदा हीनत्वेन सुरात् नरस्य हननं सङ्गच्छते किं नहि ? ॥१३॥ धर्म चालपता दयां, पशुवधो धर्मः कथं शक्यते __ वक्तुं वेदकृता ?, न मत्रविहिता हिंसा न हिंसेति सत् । मन्त्रः किं नरकप्रदानप्रभुतामाहन्ति हिंसास्थिता मेवं चेत् प्रतिषेध एव विहितोऽघानां भवेद् निष्फलः॥१४॥ सत्यं जल्पति नातनोति कलहं निन्दामसूयां तथा कामाऽलुब्धमना महर्षिचरणोपासीश्वरे भक्तिमान् । यो यागं पशुहिंसया विरहितं निर्मात्य-हिंसाव्रती । भो भो ब्रूत! समस्त्यसौ नरवरो मोक्षाऽध्वपान्थो न वा?॥१५।। आयेऽनेकविशारदैरनुगतो-पास्या दयादेवता मान्यो धर्मतया पुनः पशुवधो नो कुत्रचित् कर्हिचित् । अन्त्यं त्वालपतामलौकिकधियां मन्ये, भवेन्मानसं ग्राव्णो वा परमाणुभिर्विरचितं लोहस्य वज्रस्य वा ॥१६॥ युग्मम् । पञ्चत्वं समुपेयुषः पितृजनान् विप्रोपभुक्तं कथं संप्राप्नोति ? विचारयन्तु सुधियः ! कोऽयं पथोऽलौकिकः । कुम्भस्यापि परिग्रहे विदधते लोकाः परीक्षां दृढां __धर्म त्वेकपदे समीक्षणमृते गृह्णन्ति, केयं मतिः ? ॥ १७ ॥ धर्मो भूरिविधः समस्ति भुवने, सर्वे पुनर्नायकाः । - स्खं खं धर्ममुदाहरन्ति विमलं मुक्तिश्रियः साधनम् । सत्येवं कुलधर्मदुर्ग्रहमनीभावो न युक्तः सतां कूपे स्खे पितरोऽपतन्निति पतेत्वोऽपीति कोऽयं नयः॥१८॥ Page #28 -------------------------------------------------------------------------- ________________ आत्मा कर्म करोति यादृशमिह प्राप्नोति तादृक्फलं नो केनाप्युपभुक्तवस्तु मृतवानासादयेत् कर्हि चित् । देवत्वे कवलोपभोगविरहात् श्वभ्रे च दुःखोच्चयात् तिर्यक्त्वे नृगतौ पुनः स्फुटतया प्रत्यक्षवाधोदयात् ॥ १९॥ भुक्तं विप्रजनैः पुरीषपथतो निर्गम्यते प्रस्फुटं तद्गत्यन्तरमीयुषा तनुमता शक्यं विलब्धुं कथम् । भुञ्जानो द्विज एव वेत्ति न पुनर्मृत्वा स कुत्राऽगमत् __ हहो ! ध्यायत, भुक्तवस्तु तदसौ प्रेषेत कस्यां गतौ ? ॥२०॥ स्पर्श पापहरं गवां निगदता नोक्तः खराणां कथं ? चेदुग्धेन जनोपकारकरणात् किं नोपकर्ताऽस्ति तत् ? । दुग्धं न प्रददाति किश्च महिषी ? माहात्म्यमुच्चैः पशोः किं मात्? सुकृतैर्नरत्वमिव किं तिर्यक्त्वमासाद्यते ? ॥२१ खादन्त्या अपवित्रवस्तु, मनुजैः सन्ताडितायाः पुन निघ्नत्या लघुदेहिनः, परवशीसत्यास्तथा स्वामिनः । किं वा स्पष्टसुदीर्यते बहु, वृषस्यन्त्या निजं दारकं माहाया अपि वन्द्यतां जगदुषां जाने न कीदृग् मतिः॥२२ स्थानं गौः प्रणिगद्यते यदि पुनस्तीर्थर्षि-नाकोकसां कमाद्विक्रय-दोहन-प्रहणनाद्याचर्यते तर्हि गोः ? । निम्बोऽर्कः कमुदूखलं च मुसलं चुल्ली तथा पिप्पली देहल्याद्यपि देवता निजगदे यैः, कोऽत्र तैर्वर्जितः ? ॥२३॥ देवप्रीतिकरं हुतं हुतभुजीत्येतद् न सम्यग्वचो भसीभावविलोकनाद् निपततो हव्यस्य वह्नौ द्रुतम् । अन्तस्तृप्तिजुषोऽभिलाषसमयोद्भूतामृतैः सर्वदा नासद्वद् घुसदश्च सन्ति कवलाहारा वपुर्भेदतः ॥ २४ ॥ "देवा अग्निमुखा" इति श्रुतिबलादप्येष पक्षो न सन् किं वह्नावपवित्रवस्तु न पतेदू ? अग्रे स्वयं चिन्त्यताम् ! । Page #29 -------------------------------------------------------------------------- ________________ २२ एकसाद् मुखतोऽशने दिविषदामुच्छिष्टभुक्तिन किं ? किं ब्रूमो बहु? दृष्टिरागविलयात्तत्त्वं स्वयं जानताम् ! ॥२५॥ सत्यासत्यपथा ह्यनादिसमयादायान्ति नित्यस्थिता स्तिर्यक्-श्वभ्र-मनुष्य-देवगतयोऽप्युद्धाटिताः सर्वदा। असाकं पुनरैति गच्छति न वा स्वच्छन्दवृत्तौ नृणां भव्यान्तःकरणप्रबोधविधये त्वेता गिरः साम्प्रतम् ॥ २६ ॥ यमिन्नेव मुनिव्रतं प्रतिमिलेद् यसिंश्च कर्म त्रुटेद् यस्मिन्सर्वगता पुनः समुदयेद् यसिंश्च मुक्तिर्भवेत् । संसारे गहनेऽपि पुण्यविभवैस्तत्प्राप्य मानुष्यक सामग्रीसकलं सुदुर्लभतरं स्वःसत्समीहाऽऽस्पदम् ॥ २७ ॥ भव्याः ! विघ्नत ! दृष्टिदुहतमः सम्मील्य नेत्रे पुनः स्वस्थाऽन्तःकरणेन दीर्घमतितस्तत्त्वत्रयं ध्यायत ! । को देवो भगवान् गुरुर्भवति को धर्मः पुनः कीदृशः ? कीदृक्षस्य गुरोः श्रयेण भगवान् धर्मोऽथवा प्राप्यते ॥२८॥ युग्मम् । विप्राणां महनीयता सुचरितैर्ब्राह्मण्ययोगेन वा ? ___ यः कोऽप्यस्तु चरित्रवान्नरवरो वन्द्यो भवेद् आदिमे । कीदृक्षोऽपि भवेद्विजो, मुनिजनात्तूत्कृष्टचर्यो न वै नाऽन्त्यो, दुश्चरितद्विजस्य गुरुताप्राप्तिप्रसक्तेः पुनः ॥ २९ ॥ भार्याया रमणो द्विजो, मुनिजनो ब्रह्मवती सर्वथा द्रव्यस्याऽनुचरो द्विजो, मुनिजनो भिक्षुर्गतखस्पृहः । सर्व भक्षयति द्विजो, मुनिजनोऽगर्धेन योग्याऽऽशक___ स्तमाद्वर्णगुरोद्विजस्य गुरवः पूज्या अमी साधवः ॥ ३० ॥ युज्यन्ते गुरवो महाव्रतधराः सामायिकस्थाः पुन धीरा भैक्षकवृत्तयो विदधतो धर्मोपदेशं शुभम् । Page #30 -------------------------------------------------------------------------- ________________ २३ अब्रह्मबतिनः परिग्रहरताः स्वच्छन्दचेष्टापराः सत्यार्थानुपदेशकास्तु गुरवः श्रेयस्कराः सन्ति न ॥ ३१ ॥ रागी चेत्परमेश्वरो गुरुरपि ब्रह्मव्रताद्धष्टवान् धर्मो निष्करुणो भवेत्तदहह क्लेशः कियानुच्यते ।। माध्यस्थ्येन विचारणात्तु हृदये दम्भोलिलेपायते नीरागो भगवान् , गुरुश्चरितवान् , धर्मः कृपात्मेत्यदः॥३२॥ सर्वज्ञो विजिताऽखिलाऽऽन्तररिपुत्रैलोक्यसंपूजितः सत्यार्थप्रतिपादकश्च भगवान् निर्धार्यतां नामभिः । विष्णु-ब्रह्म-महेश-शङ्कर-जिना-हत्-तीर्थनाथादिभि र्नाम्ना स्थापनया तमर्चत जनाः! द्रव्येण भावेन च ॥३३॥ उत्सपिण्यवसर्पिणीसमययोः सर्पत्पतत्सम्पदोः षट्राऽराऽऽत्मकयोः क्रमेण चलतोः कालस्य वा चक्रयोः । क्षेत्रे श्रीभरते भवन्ति विभवोऽर्हन्तश्चतुर्विंशति लभ्यन्ते तु विदेहभूमिषु सदा तीर्थङ्कराः शङ्कराः ॥३४॥ तन्नामस्मरणाद् भवेत्स भगवान् नाम्ना समभ्यर्चित स्तद्धिम्बार्चनतो भवेत्स भगवान् मूर्त्या समभ्यर्चितः । आर्हन्त्यस्य भविष्यतोऽभिनमनात्स्यात्पूजितो द्रव्यतः साक्षाच्छ्रीपरमेशितुर्महनतः सात्पूजितो भावतः ॥३५॥ पूज्या न प्रतिमाहतामिति वचः स्यात्कस्य चेतखिनो ? नीरूपेश्वरमूर्त्तिमारचयिता भ्रान्तः कथं नेति चेत् । नैवं, नित्यविमुक्तमभ्युपयतो देवं प्रतीदं भवेत् जीवन्मुक्तमहेशमप्युपयतां नो नो इदं दूषणम् ॥ ३६॥ साम्राज्यं सुमहद्विहाय तृणवद्योगं समारूढवान् कृत्वा घोरवने तपोऽतिगहनं कर्मेन्धनोद्दाहतः। लोकालोकविदं धियं परिगतोहपूर्विकातो नतो योगीन्द्रस्त्रिदशेश्वरैः सुमिलितैरेऽपि तिर्यग्गणैः ॥ ३७॥ Page #31 -------------------------------------------------------------------------- ________________ २४ विश्वाभ्यन्तरगाढमोहतिमिरश्रेणीमनादिस्थिता...' मध्वंसामपि सप्तसप्तिशतकैः संसारसंसारिणीम् । वाचा शान्तिसुधामहारसभृता पुं-देव-तिर्यग्मनो___ गामिन्या प्रभया जघान नितरां योऽलौकिकोऽहस्करः॥३८॥ तं त्रैलोक्यमहेश्वरं निरुपमज्योतिःस्वरूपात्मकं ब्रह्मानन्दमहोदयं च परमेष्ठिष्वादिमं दैवतम् । दध्राणं करपादशीर्षवदनाद्यङ्गं यथाऽस्मद्वपुजीवन्मुक्तमधिक्षिपेः प्रतिमया ध्यायन्तमाः पातकिन्!॥३९॥ त्रिभिर्विशेषकम्, ब्रह्माणं परमेश्वरं विरहितं देहादिभिः सर्वथा रूपातीतमगम्यरूपमपि वा मूर्ती समारोप्य सद् । ध्यायन्तं स निराकरोदलभताऽऽरोपस्वरूपं न यः . शास्त्रात्स्वानुभवात् जगद्यवहृतेः सिद्धं विवेकान्धलः ॥ ४०॥ पापाद्वा विफलत्वतः किमथवा पुण्यप्रसक्तेर्भयाद् ? द्रव्याणां व्ययतोऽथवा तनुमतां हिंसासमुद्भूतितः ? । देवाकृत्यसमुद्भवादितरसत्कर्त्तव्यसंव्याहते र्जाड्याद्वा प्रतिमार्च्यते न भवते-त्यष्टौ विकल्पा इमे ॥४१॥ नो पापं गुरुपादमूर्तिनतिवद्, बोध्याद्य तुच्छं फलं पुण्यान्मोक्षपथानुगान्नहि भयं, द्रव्यव्ययः सार्थकः । पापेऽल्पेऽपि महाफलं सुहृदयारम्भस्य, शान्ताकृतिः शं दत्ते, गुरुकार्यमेतदपि, किं चिन्तामणौ नादरः ॥ ४२ ॥ चेत्तोयेऽश्मा तरति तरणिश्चोदियाचेत्प्रतीच्या निर्धात्वङ्गं यदि नृषु भवेद् धातुमचामरेषु । खादुत्तीर्यो-पदिशतितरामीश्वरीभूय साक्षात् कश्चिन्मायी तदपि भगवन् ! त्वां कदाचिन मुश्चे ॥४३॥ Page #32 -------------------------------------------------------------------------- ________________ च्युतं चिन्तारनं गलितममृतं कामकलशः परिध्वस्तो हस्तादमरफलिनोऽदह्यत पुनः । अमीषां दुर्भाग्यज्वलितमनसां हन्त ! भगवन् ! असूयां ये मन्दा दधति भवतः पूजनसुखे ॥ ४४ ॥ इति श्रीन्यायविशारदकृते न्यायकुसुमाअलौ चतुर्थः स्तबकः ॥४॥ Lam Page #33 -------------------------------------------------------------------------- ________________ अहम् ॥ अथ पञ्चमः स्तबकः॥ 2000OORONE सम्यग्ज्ञान-सुसंयमौ निगदितो मोक्षस्य पन्थाः परो याथार्थेन पदार्थसंपरिचयः सज्ज्ञानमावेदितम् । पुण्याऽघाऽऽस्रवसंवरा निजरणं बन्धश्च मोक्षः पुन जीवोऽजीव इति द्वयेऽपि भवति व्यासेन भावा नव ॥१॥ ज्ञानात्मा खलु जीव एतदितरोऽजीवस्तु धर्मादिकः स्यात् सत्कर्म च पुण्यमेतदितरत् पापं भवेदाश्रवः । द्वारं कर्मण एतदावरणकृत् स्यात् संवरो, निर्जरा __ध्वंसः कर्मण एव बन्धरचना बन्धोऽथ मोक्षः शिवम् ॥२॥ जीवास्तत्र मता द्विधा भवभृतो मुक्ताश्च तत्रादिमा __एकद्वित्रिचतुष्कपञ्चकरणा आवेदिताः प्राणिनः । एकाक्षाः कुजलामिवाततरवस्त्वङ्मात्रतः स्थावराः पर्याप्तेतरभेदकास्त्रसवपुर्भाजस्त्वनेकेन्द्रियाः ॥३॥ आहारः करणालयोऽक्षनिकरः प्राणाश्च भाषा मनः षट् पर्याप्तय एक-पञ्च-विकलाक्षाणां चतस्रः क्रमात् । षट् पश्चाप्यथ सूक्ष्म-बादरतयै-काक्षा द्रुमास्तु क्रमात् प्रोक्ता बादर-सूक्ष्मवादरतया प्रत्येकसाधारणाः ॥४॥ पञ्चाक्षाणि पुनस्त्वगेव रसना घ्राणं च नेत्रं श्रुतिः स्युः स्पर्शो-रस-गन्ध-रूप-निरवा अर्था अमीषां क्रमात् । तत्र त्वररसनेन्द्रियाः कृमि-जलौका-शङ्ख-शुक्त्यादय__ स्यक्षा नासिकया पुनः शतपदी-मत्कोट-लिक्षादयः ॥ ५॥ अक्ष्णा स्युश्चतुरिन्द्रियाश्च मशका भृङ्गाः पतङ्गादयस्तियेग्योनिभवा जल-स्थल-खगाः शेषास्तथा नारकाः। Page #34 -------------------------------------------------------------------------- ________________ गीर्वाणा मनुजाः पुनः प्रभणिताः श्रोत्रेण पञ्चेन्द्रियाः ___ पश्चाक्षा अपि संश्यसंज्ञिविधयः, संज्ञा च शिक्षामतिः ॥६॥ भाषा-काय-मनोबले-न्द्रियगणाऽऽ-युः-श्वासरूपा दश प्राणास्तत्र समेषु देह-करणो च्छासाऽऽयुषां सम्भवः । चित्तं संज्ञिवपुष्मतोऽस्ति विकलासंज्ञाभृतो गीः पुन देवानामथ नारकक्षितिजुषां जन्मोपपादो मतः ॥ ७॥ गर्भश्वाण्ड-जरायु-पोतजनुषां शेषास्तु सम्मूच्छिनः स्त्रीपुंवेदभृतः पुनर्दिविषदः, संमूछिनो नारकाः। क्लीवाः, तत्रयवेदभाज इतरेऽथौ-दारिकं वैक्रियं सादाहारक-तेज-आवरणकं पश्चप्रकारं वपुः ॥ ८॥ ज्योतिष्का भवनाधिवासपतयो वैमानिका व्यन्तरा देवाः सन्ति चतुर्विधा इह चतुःषष्टिः सुरेन्द्राः पुनः । आद्यो-पान्त्यसुरा भवन्त्युपरिगाः शेषा अधोवासिनः क्लिष्टाः सप्तसु नारका अपि तथाऽधोऽधःपृथुक्षोणिषु ॥९॥ जम्बू-धातकि-पुष्करार्धधरणीमध्यूषिवांसो जना स्तियश्चस्तु भवन्त्य-तोऽपि परतोऽसङ्ख्याऽम्बुनिध्यादिषु । लोकोऽलोक इति द्विधा च भुवनं धर्मास्तिकायादिषड् द्रव्यात्मा खलु लोक एष च, नभोमात्रं त्वलोकः पुनः॥१०॥ स्युर्लक्षाणि च सप्त कौ-धनरसे-वह्नौ-समीरे तथाऽ नन्तद्रौ मनुजे चतुर्दश, दश प्रत्येकभूमीरुहि । स्युस्तियक्षु तथा दशाऽथ नरके देवे चतस्रः पुन ोनीनां चतुरुत्तरे-त्यसुमतां लक्षाण्य-शीतिर्भवे ॥ ११ ॥ एवं सन्त्यनन्तकास्तनुभृतो भव्या अभव्या द्विधा भव्या योग्यतया मताः शिवपदेऽभव्यास्तु नैवंविधाः । कुम्भार्हाप्यखिला न मृत् कलशतामासादयेत् कहिचित् मोक्षार्होऽप्यसुमान् तथा न सकलो निर्वाणमासादयेत्॥१२॥ Page #35 -------------------------------------------------------------------------- ________________ भव्यानन्ततया न भव्यरहितः संसार आपद्यते कालो नाम समाप्नुयात् यदि तदा भव्यः समाप्तिं व्रजेत् । इत्थंबुद्धिबहिष्कृतैर्मितवपुष्मद्वादबद्धाग्रहै। शून्यत्वस्य भवे भिया जडतमैर्लेपेऽपि मुक्तागमः ॥ १३ ॥ मुक्तानां पुनरागमं भंवपुरे का स्वस्थधीरालपे दत्यन्तं भवबीजकर्मदलने मुक्तिं समासेदुषाम् । बीजस्याऽसमुपस्थितेरिह पुनर्जन्मोदयाभावतो बीजस्थाऽपरथाऽङ्कुरोद्भवसमापत्तेः प्रदाहेऽप्यहो ! ॥ १४ ॥ स्यान्मानुष्यक एव मुक्तिवनितो-द्वाहप्रमोदोदयः क्लीवः सिध्यति नैव, नैव विबुधो मृत्वो-पगच्छेदिवि । न श्वश्रेऽपि च, नारकोऽपि नरके स्वर्गेपि मृत्वै ति नो तिर्यग्देहवां नृणां च गतयोऽरुद्धाश्चतस्रोपि हि ॥ १५ ॥ सर्वसादथ देशतः परिहतिः सावद्यवृत्तेरिह प्रोक्तः संयम आदिमो मुनिमतोऽन्त्यः श्रावकैः स्वीकृतः । पश्चत्रिंशत एव नीतिजधनादीनां गुणानां सृजन् सेवां भव्यजनो भवेदधिकृतः श्रीश्राद्धधर्मादरे ॥ १६ ॥ प्रोचुः पञ्च महाव्रतानि यतिनां, श्राद्धत्वमासेदुषां .. सन्ति द्वादश सुव्रतानि विकसत्सम्यक्त्वमूलानि च । श्रामण्यश्रियमीप्सतां बलवतो विघ्नादसम्पापुषां। तत्राप्रीतिमतस्तु देशविरतिः सम्यक् न सम्भाषिता ॥ १७ योगोऽयं परिकीर्तितो भगवता श्रीअर्हता विष्णुना माहात्म्यादिदमीयतोऽनवधितो निःशेषकर्मक्षयात् । आतिथ्यं नरकाऽऽपदामुपगता घोराघसङ्घातत चैलातेयदृढप्रहारिप्रमुखा अप्यत्रजनितिम् ॥ १८ ॥ प्राग्भारा सुरभिश्च लोकशिखरे पुण्या परं भासुरा तन्वी सिद्धिशिलाऽऽयान्तरयुता विश्वम्भरा वर्तते । Page #36 -------------------------------------------------------------------------- ________________ विष्कम्भं दधती नृलोकसदृशं श्वेतातपत्रोपमा सिध्यन्त्यङ्गिन एकयोजनमतचोर्ध्व ततोऽलोकखम् ॥ १९ ॥ ऊर्ध्व याति समप्रयाणविधया श्रीकेवली भूधनं मुक्त्वा यावदुपैति लोकशिखरं नोज़ तु लोकाग्रतः। कश्चिद्गन्तुमधीश्वरो भवति, यत् सत्तामलोकाम्बरे गत्याद्योपकृतिक्षमा न दधते धर्मास्तिकायादयः ॥ २० ॥ जीवा ऊर्ध्वगतिस्वभावसहिता अप्यावृतिप्रेरणात् तिर्यग्यांत्यध एव वाऽधइतयः स्युः पुद्गलाश्चोर्ध्वगाः। लोकाग्रं समुपागतस्तु भगवान् नायात्यधो गौरवाऽ. भावात्प्रेरकमन्तरेण न पुनः कुर्वीत तिर्यग्गतिम् ॥ २१॥ वर्त्तन्ते, त्रिजगत्स्वरूपविषयानन्तप्रबोधात्मका विज्ञानावरणस्य निर्हणनतो नाशाच्च दृष्ट्यावृतेः । अन्तागोचरदर्शनप्रस्मरप्रोद्भासरूपं गता . मोहस्य प्रलयात् गता अनुपमे सम्यक्त्व चारित्रके ॥ २२ ॥ सौख्यं वीर्यमनन्तमप्युपगता वेद्यान्तरायक्षयेऽ मूर्त्तानन्तविगाहना प्रलयतो नाम्नश्च गोत्रस्य च । आयुष्कस्य निशुम्भतोऽक्षयगतिं सम्प्राप्तवन्तः पुनः । सिद्धास्तत्र महेश्वरा इति भवेदेषा परा निर्वृतिः ॥ २३ ॥ युग्मम् । भूपानां बलिविद्विषां हलभृतां चक्रेश्वराणां पुन. देवानामपि वज्रिणां भवति यः प्रोन्निद्रशर्मोदयः। सिद्धानां परमेशिनां सकलभूगङ्गं समाजग्मुषां शुद्धानन्दमहोदयस्य महतो नानन्तभागेऽप्यसौ ॥ २४ ॥ मुक्तानां सुखशून्यतामुपयतो यौगस्य किं वैदुषी ? तेनेत्थं वदता यतः शिवपुरद्वारं दृढं मुद्रितम् । । सौख्यार्थेन हि मुक्तये सुमनसचेष्टन्त उच्चस्तरां । दुःखाभावसमीहितं तु भविता मूर्छाद्यवस्थास्वपि ॥ २५ ॥ Page #37 -------------------------------------------------------------------------- ________________ सौख्ये रक्ततया मुनिननु कथं मोक्षं समासादयेत् ? , दुःखे द्विष्टतया मुनिर्ननु कथं मोक्षं समासादयेत् ? । दुःखेऽद्विष्टतया मुनिर्न नु कथं मोक्षं समासादयेत् ? सौख्येऽरक्ततया मुनिर्न नु कथं मोक्षं समासादयेत् ? ॥२६॥ यत्तूक्तं 'न सुखासुखे' इति तदप्यस्त्येव नो बाधकं सौख्यासौख्ययुगं न तत्र भवतीत्येतत्परा हि श्रुतिः । एवं चैकसुखश्रियोऽभ्युपगमेऽप्येतद्विरोधः कुतः ? सत्येकत्र घटेऽपि “नो घटपटौ स्तोत्रे"-तिसंप्रत्ययात् ॥२७॥ आहाऽऽत्यन्तिकबुद्धिगम्यकरणातीतं सुखं यत्र वै जानीयादकृतात्मदुर्लभतरं तं मोक्षमेवं स्मृतिः। को बाधः सुखसङ्गरे शिवपदे १ सांसारिकं यत् सुखं सम्मोहप्रभवं स्वरूपरमणानन्दस्तु मोक्षः पुनः ॥ २८॥ ये तु ज्ञानत एव मुक्तिमवदन् सत्येतरत्तेऽवदन् न ज्ञानात् सुखितो भवेन्नर इह स्त्रीभक्ष्यभोगाभिवित् । ये त्वाहुः क्रिययैव मुक्तिरमणीं तेऽप्याहुरुच्छृङ्खलं मिथ्याज्ञानवतः कृतेऽपि यतनेऽसंवादसंदर्शनात् ॥ २९ ॥ तसात् ज्ञानमथ क्रिया द्वयमिहार्थप्रापणप्रत्यलं मोक्षप्राप्तिनिबन्धनं द्वयमिदं संकीर्तितं स्वामिना । न ज्ञानं नहि सर्वथे-हितवतो वस्त्रादिकप्रापणे निज्ञानाऽपरथा क्रियाऽथजननी स्यान्मूछितादेरपि ॥३०॥ इत्येवं जगदीश ! युक्तिविसरैः स्वच्छैः प्रसिद्धि गते _ यच्चतो रमते न ते प्रवचने ते वज्रसाराशयाः। किन्त्वन्वेषयितुं प्रवीणमनसस्त्वां निर्गताऽसगृहा रन्तारो नियमेन शासनमहाप्रासादमाश्रित्य ते ॥ ३१ ॥ असाकं तु महेश ! शङ्कर ! विभो ! त्वद्वाक्सुधाधोरणी... पानावन्मुखदर्शने समभवत् नेत्रं निमेषोज्झितम् । Page #38 -------------------------------------------------------------------------- ________________ त्रैलोक्येश ! मनस्तथापि तरलं नोऽद्यापि नो तृप्यते ... त्वत्सेवासुखमीहते प्रतिभवं मोक्षाभिकाङ्क्षा जहत् ॥ ३२ ॥ इष्टानिष्टवियोगयोगहरणीं त्वद्भक्तिमेवाश्रये विश्वव्यापियश शशाङ्कजननीं त्वद्भक्तिमेवाश्रये । चक्रेशामरशक्रतां प्रददतीं त्वद्भक्तिमेवाश्रये मोक्षानन्दमहोदयं विदधतीं त्वद्भक्तिमेवाश्रये ॥३३॥ मानुष्यं विफलं प्रशस्तकुलभूभावोऽप्यकिश्चित्करो वैशारद्यमबोधता गुरुपदारोहोपि पापास्पदम् । ज्ञान-ध्यान-तपो-जपादिविधयः क्लेशावहाः केवलं श्रद्दध्याद्यदि दुर्भगस्त्रिभुवनाधीशं भवन्तं नहि ॥ ३४ ॥ तेषामुग्रतपस्यया भवतु ये त्वद्वाक्सुधास्वादिन स्तेषामुग्रतपस्यया भवतु येऽत्वद्वाक्सुधास्वादिनः । तैर्लेभे शिवमन्दिरं सकुतुकं यैः शिश्रिये त्वत्पथ स्तैलेभेऽशिवमन्दिरं सकुतुकं यैः शिश्रियेऽत्वत्पथः ॥ ३५ ॥ ते धावन्ति मरीचिकां प्रति तृषाशान्त्यै सरस्त्यागत स्ते गृह्णन्ति पयःकृते च गवयं माहापरित्यागतः । ते तैलं च पिबन्ति धीनयनयोः पुष्ट्यै घृतत्यागतो ये देवान्तरमाश्रयन्ति भगवन् ! मुक्त्यै भवत्यागतः ॥३६॥ निर्दोषानुभवानुरूपविषयव्याकारिणः स्वामिनो न्याय्यं खल्ववलम्बनं न तु परेशामन्यथाभावतः ।। वकं वीक्ष्य विशेषकस्य करणं नीतौ नहि श्रूयते । तिष्ठत्येव सदा सतां हृदि पुनः सत्पक्षपातोऽर्हति ॥ ३७॥ अर्हद्गृह्याः समुचितकृतः सन्ति किं न्यायतो नाऽ- ' नहगृह्या अनुचितकृतः सन्ति किं न्यायतो न ?। । श्रद्धामात्रात् न समुपगमश्चाप्तितस्त्वहंदीशो नेयामात्रादसमुपगमः किन्त्वनाप्तेः परेषाम् ॥ ३८ ॥ Page #39 -------------------------------------------------------------------------- ________________ सौभाग्येन महीयसा मुनिपते ! त्वच्छासनं प्राप्यते __ तत् संप्राप्तवति प्रभो ! मयि जने दीने दयामातनु । धृलीकल्पविकल्पजालमलिनीभावापहारेण यत् नीतेनाऽऽत्मगृहे त्वया सह सदा कुर्वीय गोष्ठीसुखम् ॥३९॥ भ्रामं भ्राममनादिकालत इह प्रापं महान्तं श्रमं तदूरीकरणाय देवसदनं प्राप्तं न मोक्ष्याम्यथ । ... सानन्दोऽपि च तत्र देवचरणक्षीरं महानन्ददं पातुं न प्रभवामि दुर्भगतया हा हन्त ! बद्धोऽस्म्यहम् ॥४० अगम्योऽध्यात्मज्ञैर्वचनचणवाचामविषयः परोक्षोऽप्यक्षाणां त्रिभुवनविचित्रात्मविभवः । जगत्सृष्टि-ध्वस्ति-स्थितिकरणजम्बालविमुखः सदाब्रह्मानन्दो मम नुतिमपीतोऽसि भगवान् ॥ ४१ ॥ धन्योऽहं ननु जन्मवानहमहं पुण्यः कृतार्थोऽप्यहं भव्योऽहं पुरुषोऽप्यहं शिवपदश्रीभाजनं खल्वहम् । अद्याऽस्तोकशुभैर्जिनेन्द्र ! भवतो निर्बाधसिद्धान्तगी: सौन्दर्यानुभवप्रमोदविसरे जातोऽसि यल्लम्पटः ॥ ४२ ॥ किं लिप्सेऽथ कदापि कल्पलतिकां ? दूरेऽस्तु चिन्तामणिः ___ कुर्वे कामघटेन किं ? सुरगवीं मन्ये तृणायापि न । दग्धा दुर्भगताऽद्य पुण्यकमलालीला समुन्मीलिता यल्लोकोत्तरदेव ! मादृशदृशोरप्यागमो गोचरम् ॥ ४३ ॥ प्रलापं स्वच्छन्दं विदधतु परे नाथ ! भवतः पिधातुं त्वीशीरन् कथमिव यथार्थप्रवचनम् ? । गुणः खल्वेकोऽयं सुविहितधियां कम्पयति के विवेक्तुं तत्के हा ममक परितो मातुमिव खम् ? ॥४४॥ इति विरमणे देवार्य ! त्वां प्रणम्य कृताञ्जलि प्रविदध इमां संविज्ञप्तिं प्रसीद ! गृहाण ! ताम् । Page #40 -------------------------------------------------------------------------- ________________ प्रतिभवमपि श्रीमत्पादाम्बुजातयुगस्य ते ... परिचरणतो लप्सीयाऽहं शमामृतसम्पदम् ॥ ४५ ॥ रागद्वेषपरिक्षयेऽपि भवतः सम्यक्तरां श्रद्दधे चिन्तारत्नवदीश ! भक्तिरमलाऽभीष्टार्थसंसाधिनी । सोऽयं न्यायसुमाञ्जलिस्तव पदे सम्यक्त्वगन्धोद्धुरो निर्बाधो विनिवेशितोऽमृतरसं भक्ताय दासीष्ट तत् ॥४६॥ इति वीरप्रभोः पूजामजमेरपुरेऽकरोत् । धर्माचार्यपदाम्भोजभृङ्गो न्यायविशारदः ॥४७॥ इत्याचार्यश्रीविजयधर्मसूरीश्वरचरणकमलमधुकरमुनिश्रीन्यायविजयविरचिते महावीरपूजाऽपरनामन्यायकुसुमाञ्जलौ पञ्चमः स्तबकः ॥५॥ । समाजमाध्यं अन्धः॥ | ॥समाप्तश्चाऽयं ग्रन्थः ॥ . Page #41 --------------------------------------------------------------------------  Page #42 -------------------------------------------------------------------------- ________________ Published by Shaha Navalaji Vardhaji; Shivaganj. Printed by Ramchandra Yesu Shedge, at the "Nirnaya-sagar" Press, 23, Kolbhat Lane, Bombay.