SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ धर्मी सिध्यति मानतः, कचन तु ज्ञानाद् विकल्पातथो भाभ्यामप्यथ वह्निमांश्च, सकलज्ञश्च, ध्वनिज़सवान् ॥६॥ सात् सत्तेतरसाध्यको नियमतो धर्मी विकल्पागतो ज्ञेया साध्यनिराकृतिश्च बहुधाऽनुष्णोऽनलोऽध्यक्षतः। नित्यः शब्द इति प्रजात्यनुमया, जैनेन भोज्यं निशी त्येवं चागमतः, शिरःशुचि जनात् , वाचा च वन्ध्याऽम्बिका॥७॥ त्रेधासिद्धविरुद्धसंव्यभिचराः प्रोक्ताश्च दुहेतवो ___ दृष्टान्तः खलु साध्यहेतुनियमो यस्मिन् विनिश्चीयते । दुष्टोऽसौ पुनरष्टधाऽथ नवधा साधर्म्यवैधर्म्यतो ___ दृष्टेष्टाप्रतिबाधशब्दजनितज्ञानं भवेदागमः ॥ ८ ॥ शब्दं खल्वनुमानमानमवदत् यत् तन युक्तिक्षम नह्यभ्यासदशास्त्रसावनुमितिर्वस्तुप्रतीते?तम् । कूटाकूटसुवर्णवीक्षणपरप्रत्यक्षवद् वीक्ष्यता मभ्यासान्यदशास्वमुं त्वनुमिति को नाभ्युपेयात् सुधीः १ ॥९॥ परस्याभिप्रायं कथमुपलभेताऽनुमितितो विना तच्चार्वाकाननकमलमुद्रा समजनि । न शक्यः प्रत्यक्षात् परहृदयवृत्तेरधिगमो विशेषाच्चेष्टाया इति यदि तदाऽऽपप्तदनुमा ॥ १०॥ तर्कार्थग्रहणं विकल्पकधिया पाश्चात्ययाऽध्यक्षतो मेनानो निगदेत् विकल्पकमतिः सा स्यात् प्रमा वाप्रमा । षण्ढाद् दारकदोहदस्तु चरमे, प्राच्ये समक्षानुमा_मानार्थान्तरमानमापतितवत्ततर्क आश्रीयताम् ॥ ११ ॥ यस्तु स्वीकुरुते सुपेशलमतिर्न प्रत्यभिज्ञा प्रमा मेकत्वादिधियो ध्रुवं करणतां कस्याप्यसौ ग्याहरेत् । नैषाध्यक्षत उद्भवेदितस्थाऽऽद्याध्यक्षकालेऽपि सोन्मजेद्, न स्मृतितस्ततो, यविषये न स्यात् प्रवृतिः कचित्॥१२॥
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy