SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ १४ स्मृतिप्रामाण्यापाकरणनिपुणः कः खलु भुवा ? विसंवादातीता न भवति किमध्यक्षवदसौ ? । गृहीतग्राहित्वं नहि किमनुमानार्थविषये ___ समक्षे, सम्बन्धावगमविषयायामनुमितौ ? ॥ १३ ॥ नाभावस्तु समस्ति मानमनुमाऽर्थापत्तिमानं पुन भिन्नं नाप्युपमानमापतितवत् स्यात् प्रत्यभिज्ञाधियाम् । ऐतिचं पुनरागमो, वितथवाक् चेद् न प्रमाणं तथा __ ज्ञानं प्रातिभमुक्त एव पतति, स्थाचानुमा सम्भवः ॥१४॥ मानं शासति सन्निकर्षमपि ये कीदृक् प्रभो ! तभ्रमः ? __ स्वाज्ञानः स्वयमेष यत्किमपरज्ञानं सृजेत् कुम्भवत् १ । अन्येषां हि सृजेत् प्रकाशनमसौ दीपः प्रकाशात्मकः प्रत्यक्षे सहकारिताभ्युपगमं त्वेतस्य को वारयेत् १ ॥१५॥ प्राप्यार्थ नयनं प्रतीतिजननं स्वीचक्रुषां का मति-? ! काचान्तरितार्थबुद्धिरुदयेत् प्राप्य ग्रहे चक्षुषा । कुड्याद्यन्तरितार्थबुद्धिरुदयेदप्राप्यबोधेऽपि चेत् ? नैवं, नेदृशयोग्यता ह्यपरथा स्याद् गन्धधीश्चक्षुषा ॥१६॥ गृह्णात्यर्थमवाप्य नेत्रमनसी मुक्त्वेन्द्रियाणां गणो जायेते यदनुग्रहोपहनने मेयप्रणीते इह । शब्दादिविषयो हि पुद्गलतयाऽऽभ्यागम्य कर्णादिकं सम्बध्नाति न किं क्रियाश्रयतया, नाप्राप्यकारीत्यतः ॥१७॥ स्वार्थोद्भाससमर्थमेव भवति ज्ञानं, भवेन्नान्यथाऽ र्थोद्भासो, निजभासनव्यवसितौ ज्ञानान्तरापेक्षिणः । ज्ञानादर्थविभासनस्य विरहाद् जाड्यात् स्वरूपस्य चा नुद्भासात् स्वत एव, देव ! निपुणं दृष्टे न बाधस्त्वया ॥१८॥ मानं वस्तु परिच्छिनत्ति सकलं स्याद्वादमुद्राङ्कितं देशमाहितया नयोऽन्यविषयौदासीन्यवानामतः ।
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy