________________
यद्यपि च जानाति सर्वोऽपि जैनशास्त्रावगाहकृतश्रमः-शिरसा शैलभेदवदतिभीमं पाणिभ्यां क्षमो-त्क्षेपवन्महाचण्डं हस्ताभ्यां जलनिधिसमुत्तरणवदतिगभीरं वक्षसा गगनजैवातृकमण्डलपरिरम्भवन्महागहनं कराग्रतः कनकगिरिप्रकम्पनवदतिकठिनं गतितः समीरातिक्रमणवन्महादुःसम्भवं महतो महाविषयस्य श्रीजैनप्रवचनस्य समासतोऽपि सङ्ग्रहणम् नास्मि पुनरहं तथाविधशक्तिविशेषसम्पन्नः समुद्भासुरप्रतिभाप्रदीपः; __ तथापि यथाकालानुभावं विगलदुद्धीनां जिज्ञासूनां विद्यासुधा. रसरसिकीचिकीर्षया, ममापि च भगवद्भक्तिसमुजागरया स्वभावाऽऽ नन्दस्वादाऽनुबुभूषया
___"शुभे यथाशक्ति यतनीयम्" इति शिष्टोक्तिसमुपजनितसमुत्साहाऽङ्करः परिमितच्छन्दःपद्धत्या श्रीजैनदर्शनतत्वे महागहनस्थलेऽपि यथाशक्ति सञ्चरमाणः "प्रौढप्रभावभाजां जगदुपकारप्रवीणगात्राणाम् । शास्त्रविशारद-जैनाचार्य श्रीविजयधर्मसुगुरूणाम् ॥१॥
महता प्रसादेन दत्तहस्तावलम्बनतया कुतः सम्भवामि स्खलितदोषभाजनम् । __अयं च न्यायकुसुमाञ्जलिण्याचार्यश्रीमदुदयनविरचित न्यायकुसुमाञ्जलिवत् पञ्चभिः स्तबकैग्रंथितोऽस्ति; इयान्पुनर्विशेषः, असौ खोपज्ञटीकापल्लवितोऽस्ति, नायं तु तथा । असौ चाऽनुष्टुब्बृत्तपरिगुम्फितोऽस्ति, नायं च तथा, किन्तु शार्दूलविक्रीडितधारया । असौ पुनरीश्वरसिद्धयुद्देशेन प्रवृत्तः प्रमाणतत्त्वचिन्तां कुर्वाणोऽन्तरा स्वाभिमतप्रमेयसिद्धिमस्ति विधाता, तथाऽयमपि मुक्त्युद्देशेन प्रवृत्तो वेदितव्यः, अयं पुनरेतद्विषयप्रपश्चः