________________
प्रस्तावना।
को हि नाम, उपलेभानं सर्वज्ञमूलतया सकललोकालोकस्वरूपम्, परिरेभाणं दुराग्रहपरिहारेण मध्यस्थवृत्तितो वस्तुतत्त्वपरिज्ञाने प्रवृत्तवतां महामतीनामात्मानम्, प्रतिलेभानं प्राचां परधर्माचार्याणां प्रबन्धेषु मुहुः स्मृतिगोचरताम्, अप्रलेभानं परब्रह्म परिस्पृहया समहोत्साहमहमहमिकया समाश्रितवतामनन्तमहामुनिजनानां कमपि, अलेभानं पुनः प्रबलप्रतिस्पर्धनवावदूकवादिवारेभ्यो. ऽद्यापि कदापि पराभूतिलेशम्।
किंबहुना, संहरमाणं निजप्रचंडप्रतापेन सर्वतेजस्विदर्शनतेजांसि दिवाकरवत्, प्रहरमाणं दृष्टिदुर्ग्रहहुताशनज्वालाज्वलित-कालीभूतानर्धविदग्धध्वासान् निशाकरवत् , आहरमाणं निखिलपरिपथिविद्वद्राजेभ्यो विजयपताकामहोदयसम्पदं चक्रेश्वरवत्। तथा प्रपद्यमानं साम्प्रतमपि समन्ततो भारते देशान्तरेषु च महतीं प्रसिद्धिम्, अभिष्ट्रयमानं च स्वविहितसूक्ष्मसमीक्षां सम्यक् सहमानतया समुच्छलत्प्रमोदपूरं गुणैकबद्धपक्षपातैरिहत्य-पाश्चात्त्यपण्डितमहोदयः
अपि च प्रतिकूलानुकूलयोगवियोगसंहारकर सकलमनीषितपूरणकल्पपादपं कर्मवल्लीसमुच्छेदनिशितकरवालं संसारमहोदधिनिस्तरणमहायानपात्रं सकलवस्तुस्तोमयथार्थविद्याप्रदानेनाऽमूल्यसर्वज्ञताक्रयमहाऽऽपणं जैनप्रवचन-स्याद्वाददर्शनाऽनेकान्तवादप्रभृतिनामान्तरविख्यातमनादिनिधनं श्रीजैनदर्शनं परिचयपदवीं नानैषीत् ।