________________
२३
अब्रह्मबतिनः परिग्रहरताः स्वच्छन्दचेष्टापराः
सत्यार्थानुपदेशकास्तु गुरवः श्रेयस्कराः सन्ति न ॥ ३१ ॥ रागी चेत्परमेश्वरो गुरुरपि ब्रह्मव्रताद्धष्टवान्
धर्मो निष्करुणो भवेत्तदहह क्लेशः कियानुच्यते ।। माध्यस्थ्येन विचारणात्तु हृदये दम्भोलिलेपायते
नीरागो भगवान् , गुरुश्चरितवान् , धर्मः कृपात्मेत्यदः॥३२॥ सर्वज्ञो विजिताऽखिलाऽऽन्तररिपुत्रैलोक्यसंपूजितः
सत्यार्थप्रतिपादकश्च भगवान् निर्धार्यतां नामभिः । विष्णु-ब्रह्म-महेश-शङ्कर-जिना-हत्-तीर्थनाथादिभि
र्नाम्ना स्थापनया तमर्चत जनाः! द्रव्येण भावेन च ॥३३॥ उत्सपिण्यवसर्पिणीसमययोः सर्पत्पतत्सम्पदोः
षट्राऽराऽऽत्मकयोः क्रमेण चलतोः कालस्य वा चक्रयोः । क्षेत्रे श्रीभरते भवन्ति विभवोऽर्हन्तश्चतुर्विंशति
लभ्यन्ते तु विदेहभूमिषु सदा तीर्थङ्कराः शङ्कराः ॥३४॥ तन्नामस्मरणाद् भवेत्स भगवान् नाम्ना समभ्यर्चित
स्तद्धिम्बार्चनतो भवेत्स भगवान् मूर्त्या समभ्यर्चितः । आर्हन्त्यस्य भविष्यतोऽभिनमनात्स्यात्पूजितो द्रव्यतः
साक्षाच्छ्रीपरमेशितुर्महनतः सात्पूजितो भावतः ॥३५॥ पूज्या न प्रतिमाहतामिति वचः स्यात्कस्य चेतखिनो ?
नीरूपेश्वरमूर्त्तिमारचयिता भ्रान्तः कथं नेति चेत् । नैवं, नित्यविमुक्तमभ्युपयतो देवं प्रतीदं भवेत्
जीवन्मुक्तमहेशमप्युपयतां नो नो इदं दूषणम् ॥ ३६॥ साम्राज्यं सुमहद्विहाय तृणवद्योगं समारूढवान्
कृत्वा घोरवने तपोऽतिगहनं कर्मेन्धनोद्दाहतः। लोकालोकविदं धियं परिगतोहपूर्विकातो नतो योगीन्द्रस्त्रिदशेश्वरैः सुमिलितैरेऽपि तिर्यग्गणैः ॥ ३७॥