SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ भूपालस्तु न बुध्यते विदधतं गुप्तं कुकृत्यं नरं प्राकट्ये तु स दण्डयेत्, कुचरितं जानस्तु रुन्द्धे ध्रुवम् ॥६॥ सद्बुद्धिं ददते न किं स जगतः कुर्यात् सुकर्मैव यत् ? तेन क्लेशसमर्पणश्रमवतेशेनापि भूयेत नो। प्राचीनावरणादुदेति कुमतिश्चेत् तद् विमुञ्चेश्वरं प्राचीनावरणात् सुखासुखविधि निर्वाधमङ्गीकुरु ॥ ७॥ ईशत्वं खलु निर्निमित्तमथवा स्थाद्धेतुमद्, नादिमः स्थात् न सादथवाखिलस्य, न परो, हेतुर्यतः को भवेत् ? । तद्धेतुं समसाधयत् विभुरसावेवापरः कोऽपि ने त्यत्रापि प्रवदेत् प्रमाणममलं मानाद्धि मेयं स्फुरेत् ॥८॥ मुक्तिर्बन्धमृते कदापि न भवेत् , बन्धो न चेदीशितुः स्थान्मुक्तव्यपदेशभाक् स गिरिजास्वामी कथं चिन्तय ?। श्रेयोऽश्रेयफलार्पणे स जगतः प्राप्तोऽधिकारं कुतः ? किं मुक्ता अधिकारमेतमपरे मुक्तत्वतो नाप्नुयुः १ ॥९॥ मानं पोज्झितवान् स शून्यवदनः किं शून्यवादं वदेत् ? मानं संश्रितवान् स शून्यवदनः किं शून्यवादं वदेत् । विश्वस्य व्यवहारसाधकतया किं शून्यवादं वदेत् ? धावन् वज्रनिपात आशु गगनात् किं शून्यवादं वदेत् ? १० एकान्तक्षणिक पदार्थमुपयन् बौद्धो महानिस्त्रपः . सम्बन्धो नहि साधकस्य भवितुं सार्धं फलेनाऽर्हति । स्थाद्धेतुर्वधको वधस्य च कथं ? सत्प्रत्यभिज्ञास्मृती विश्वार्थव्यवहारकारणतया स्वामिन् ! भवेतां कुतः ? ॥११॥ ज्ञानं तजडबुद्धिधर्ममुपयन् साख्यो न सङ्ख्याश्रितो निर्लेपात्मचिदं वदन् विविषयां साङ्ख्यो न सख्याश्रितः। जल्पन् बन्धविमोक्षशून्यपुरुषं साङ्ख्यो न सङ्ख्याश्रितस्तत्तन्मात्रजमम्बरादि निगदन् साङ्ख्यो न सख्याश्रितः॥
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy