________________
श्रावकधर्मदिग्दर्शनम् , ब्रह्ममुक्तिस्वरूपनिवेदनम् , मुक्तौ परमानन्दसिद्धिः, वीतरागदेवस्यैव युक्तिगर्भउपासनोपदेशश्चेति ॥५॥
एते विषयाः क्रमशः पञ्चसु स्तबकेषु प्रतिपादिताः सन्ति, यान् मध्यस्थचेतसा द्रष्टारःसमर्हन्ति समुपलब्धुं तत्त्वसम्पदम्। असगृहग्रहगृहीतगलोपकण्ठास्तु दुःशका ब्रह्मणाऽपि प्रतिबोधयितुम् , अतस्तत्वज्ञानविरोधिनं कदाग्रहमवधूय प्रसादसुधाक्षालनसमुल्लसितमनसा एतद्न्थसमालोके यतेरन् सुधियः, सम्भवति हि सम्भावना, जिज्ञासया पर्यालोचयन्तः प्रबन्धमेतं मुहुर्मुहुर्भावयन्तश्च सरलेन हृदा वस्तुतत्त्वं लप्स्यन्ते कमप्यपूर्वशुद्धप्रमोदप्रवाहं सहृदयाः, इति
प्रार्थी-ग्रन्थकारः।
SXE HERE
और
CEO