________________
हत्वाऽनादिसमस्तकल्मषमलं यः प्राप्य सर्वज्ञतां
विश्वोद्धारणमातनोनिजगिरा तं वीरदेवं स्तुवे ॥ ४ ॥ यज्ञार्थं मिलिता विलोक्य विबुधानेकादश ब्राह्मणा
यातोऽन्नतये निशम्य च जनात् सर्वज्ञमत्रागतम् । वादार्थ प्रभुमागता गणधरा निःसंशया गौतमा
To प्रतिबोधनाद् विदधिरे तं वीरदेवं वहे ॥ ५ ॥ यः कारुण्यमहार्णवो मुनिमनः पाथोजहंसो जग
नेत्रानन्दकलाधरोऽखिलभवोपग्राहि कर्मक्षयात् । सिद्धार्थः खलु सर्वथा त्रिभुवनावासं विहाय क्षणात्
तत्सद्ब्रह्मपरात्मना समभवत् तं वीरमन्तर्णये ॥ ६ ॥ शक्तो योगिजनस्तव स्तवविधौ किं नाम विश्वेश्वर !
प्रादुष्कर्तुमलं पुनस्तव गुणान् सर्वज्ञवर्ग : किमु ? | कोऽहं तद् भगवन् ! अतीवजडधी : किश्चेदमारब्धवा
नूर्ध्वकृत्य किलाङ्गुलीं गणयितुं चेष्टे नभस्तारकाः ॥ ७ ॥ भाव्यं यत्नवता शुभे निजबलौचित्येतिसद्भाषितं
दाणो हृदि वा मनागपि कथं हासास्पदं स्यां सताम् ? | निष्कम्पे च गुणानुरागरमणेऽज्ञस्यापि मे साम्प्रतं
नायासः किमु ? पूर्वसूरिवदयं स्तोत्रे तवाधीश्वर ! ॥ ८ ॥ मुक्तिस्तावदुदीरिता द्वविधा, जीवत्स्वरूपाऽऽदिमा
विध्वंसेन चतुष्टयस्य नितमां सा घातिनां कर्मणाम् । लोकालोकविलोकनैककुशलः श्रीकेवलाहस्करः
स्यादौदारिकदेहिनो जगति यो नित्यं समुद्भासुरः ॥ ९ ॥ जीवन्मुक्तिमुपागता द्वयविधास्तीर्थङ्करा आदिमा -
स्तच्छ्रन्या अपरे द्वयेऽप्यभयदा आतन्वते देशनाम् । भव्यान्तश्चिरकालिकाऽलघुमलप्रक्षालनाम्भः समां
नानादेशमहीषु सञ्चरणतो निर्वाणकल्पद्रुमाः ॥ १० ॥