SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ प्राच्यातीतशरीरपूर्वकमिदं न स्याद्, यतस्तद्भवे तद् ध्वस्तं, नियतप्रदेशगतये सात्कार्मणः पुद्गलः ॥ १९॥ एतत् कर्म च पुद्गलात्मकतया स्वीकुर्वते च्छेकिला आत्मा नापरथा भवेत् परवशो, ज्ञेयं यथा बन्धनम् । क्रोधाद्यैर्व्यभिचारिता नहि, यतस्ते पारतन्त्र्यात्मका स्तद्धेतुः किल कर्म पुद्गलतया सिद्धिं समारूढवत् ॥२०॥ नाक्षाणामपि चेतनाभ्युपगमः सम्यग् , यतश्चक्षुषः प्रध्वंसे प्रभवेत् कुतः स्मरणधी रूपस्य संवीक्ष्यताम् । अन्यालोकितवस्तुनः स्मरणधीरन्यस्य नो युज्यते भावाक्षाणि तु चेतनात्मकतया जैनेश्वरा मेनिरे ।। २१ ॥ जीवं वैभवशालिनं निगदतां त्वद्रोहिणां का च धीः · यो यत्रैव यदस्ति दृष्टगुणकस्तत्रैव खल्वप्यसौ । कुम्भं पश्य ! स यत्र दृष्टगुणकस्तत्रैव खल्वप्यसौ. __ भ्रान्ता देव ! भवद्वचोऽमृतरसानन्देभ्य ईर्ष्यालवः ॥२२॥ जीवानां प्रमितेर्वपुष्परिमितेर्भेदेन भेदे भवे. नानातेति च मा म शङ्कत पृथग्भावेऽपि रक्तादिना । कुम्भाभेद इवात्मनः परिमितेर्भेदेऽपि भेदो न यत् .... __शुद्धार्थैक्यविशिष्टभेदयुगलं धत्ते विरोधं नहि ॥ २३ ॥ मूर्त्तत्वेऽ सुमतो वपुर्मिततयाऽङ्गे स्यात्प्रवेशः कुतो? नैतत्सद्, ननु मूर्तता हि किमियं ? रूपादिमत्त्वं यदि । चित्तेन व्यभिचारतो न हि वदेत् स्यान्चेदियत्तान्वितं . ___ मानं तत् तदभीष्टमेव विभुताशून्यस्य तद्भावतः ॥ २४ ॥ हंहो ! सुन्दर! मूर्त्तवस्तुनि भवेद् मूर्तप्रवेशः किमु ? ___ स्यादेव प्रिय ! वालुकादिषु जलादीनां प्रवेशः स्फुटः । देहासङ्गिन आत्मनश्च नभसः को भेद आवेद्यतां ? नो विनो बहिरङ्गतोऽभ्युपगमे जीवस्य किं कारणम् ॥२५॥
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy