SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ सत्वासत्त्वधियं च संशयतया मन्दं विना को वदेद् ? एकसिन् हि विरुद्धधर्मयुगलज्ञानं मतः संशयः । सत्त्वासत्त्वयुगं प्रसिध्यति यदै-कमिन् प्रमाणात्तदा व्याघातः क इहोदयेत् ? कथमिदंसंप्रत्ययः संशयः ॥२६॥ स्थाणुर्वा नर एष वेत्यवगमः संविश्रुतः संशयोs- नास्था धर्मयुगे सतामभिमता दोलायमानेन च । नैवं तु प्रकृते, समस्ति सदसत् खान्यवरूपेण यत् तद्रव्यानलधीर्व नैव सदसद्धीनिश्चला संशयः ॥ २७ ॥ नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवोऽ नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवः । नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यतेऽ नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यते ॥२८॥ नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयोऽ नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयः । नित्यानित्यतया तु वस्तु वदतः कश्चिन्न बाधोदयो बाधः कः कफकृद्गुडेन मिलिते पित्तावहे नागरे? ॥ २९ ॥ तेनोत्पादविपादसंस्थितियुतं भावं यथा गोरसं । स्थाद्वादिन् ! प्रतिपेदिरे तक मुखाम्भोजोद्भवं प्रशिलाः। भङ्गवा कुण्डलमातनोति कटकं तत्कुण्डलत्वं गतं संजज्ञे कटकस्वरूपमुभयस्थं स्वर्णमत्र स्फुटम् ॥ ३०॥ नो संयोगि-तदन्यभावयुगलं मूलस्स चाग्रस्य चाऽ वच्छेदेन यथाऽन्यदीयगुरुभिः कक्षीकृतं बाध्यते । नित्यानित्यतया तथैव सदसद्भावेन नो बाध्यते मानात् सिध्यदशेषवस्तु तदहो! कान्तास्त्यनेकान्तगी॥३१॥ नानाकारकमेकरूपमवदत् ज्ञानस्य बौद्धेश्वरचित्रं रूपमनेकमेकमुचितं योगादिरावेदयत् ।
SR No.022479
Book TitleNyaya Kusumanjali
Original Sutra AuthorN/A
AuthorNyayvijay
PublisherNavlaji Vardhaji Shah
Publication Year1914
Total Pages42
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy