Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 17
________________ नानैकान्तिकता यथोक्तनियमे लब्धावकाशा तत स्तद्यनाणुगुणोध्वनिर्नहि ततो व्योम्नोऽपि, युक्त्यैक्यतः॥३२॥ 'शब्दश्चागत एष एवमखिलप्रज्ञाप्रसिद्धा क्रिया शब्दं द्रव्यतया न साधयति किं ? किं स्याद् गुणः सक्रियः। श्रोत्रं शब्दभुवां न याति, न च वा न प्राप्यकारि स्मृतं गन्धद्रव्यवदेव तद् ध्वनिरयं द्रव्यं क्रियातो भवेत् ॥ ३३ ॥ सर्वप्राणिमतिप्रसिद्धजननेऽप्याबाधशून्येऽप्यहो ! शब्दं नित्यमुपेयुषां प्रतिपदं किं वर्णयामोऽधुना ?। व्यङ्गयत्वेऽथ च निर्मिते प्रयतने तत्तवनिव्यक्तये शब्दास्तत्स्थलसम्भवाः परइह व्यक्तिं कथं नाप्नुयुः ? ॥३४॥ व्यङ्ग्यत्वं नियतप्रकाशजनकैः शब्देषु चेत् ? नो, तथाऽ न्यत्राऽसम्प्रतिपत्तितोऽनुभवतो बाधोऽन्यथा दुर्धरः । दीपो द्रष्टुमुपाहितो दधिघटं गेहाङ्गणे भूस्पृशाऽ पूपानामपि हन्त ! तत्स्थलजुषां किं न प्रकाशं सृजेत् १ ॥३५॥ चैत्रो भाषत एवमावरणवानप्येष विज्ञायते तच्छब्दस्य विचित्रभाववशतः किं नाङ्ग ! मीमांसक !। व्यङ्ग्यत्वे त्वनुमानसंविदमिमां शक्नोषि कर्तुं कुतो? ___ व्यङ्ग्यैः कुम्भमुखैभवेदनुमितं दीपादि किं व्यञ्जकम् ॥३६॥ अर्थेऽसत्यपि दृश्यते ध्वनिगणो नातोविनाभाववान् तस्याऽसौ, न ततोऽर्थवाचकतया शब्दोऽभ्युपेतुं क्षमः। इत्येवं सुगतानुयायिविदुषां गर्हागृहं चिन्तनाऽ ध्यक्षादेरपि मानताविगलनात् कुत्राप्यनेकान्ततः ॥ ३७॥ स्फोटो नार्थनिगादकः, किमिह यत् मानं समुज्जृम्भते ? सामय्या परिदृष्टयार्थवदनेऽदृष्टाभिमानो न सन् । वर्णा नैव समस्ततानुपपदोऽधीशा अभिव्यञ्जितुं वैयर्थ्यात् पुनरन्यवर्णभणितेः प्रत्येकमप्येतकम् ॥ ३८ ॥

Loading...

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42