Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
WIMMINS
A
क/AA
17
___ अहम् ॥ अथ तृतीयः स्तबकः॥
चार्वाको हि समक्षमेकमनुमायुग् बौद्धवैशेषिको
साङ्ख्यः शाब्दयुतं द्वयं तदुपमायुक् चाक्षपादस्वयम् । सार्थोपत्ति चतुष्टयं वदति तद् मानं प्रभाकृत्पुन
भट्टः सर्वमभावयुक्, जिनमतेऽध्यक्षं परोक्षं द्वयम् ॥१॥ प्रत्यक्षं व्यवहारतश्च परमार्थाच द्विधा भाषितं
तत्रावग्रहणादिनेन्द्रियमनोजातं चतुर्भेदकम् । आचं स्यात्, चरमं पुनस्त्रिविधक, तत्रादिमं केवलं
विश्वव्यापि, मनोभिपर्ययमथान्त्यं चावधिस्थोऽवधिः ॥२॥ अध्यक्षतरदस्ति च सरणधीः संप्रत्यभिज्ञा पुन
स्तर्कश्चानुमितिस्तथाऽऽगम इति प्रख्यापितं पञ्चधा। तत्राचं त्वनुभूतवस्तुविषयं स्याद् वासनोबोधना
दैक्यादिग्रहणं स्मृतेरनुभवाजातं द्वितीयं पुनः॥३॥ तर्कस्तु प्रतिबन्धबुद्धिरनुमा स्यात् साधनात् साध्यधी
द्वैधा स्वार्थपरार्थभेदत इयं तत्रादिमा साधनम् । सभिर्णीय परोक्षवस्त्ववगमो व्याप्तिं च नीत्वा स्मृति
हेतोस्त्वेष परा, तथोपचरिता हेतुर्वभाषेऽनुमा ॥४॥ व्याप्तत्वेन सुनिर्णयस्य विषयः प्रोचे पुनः साधनं
त्रैलक्षण्यमुखान्यलक्षणतया नो युज्यते साधनम् । आलोकादुपरि क्षितेर्दिनकरः खेन्दुर्जलेन्दोरिति__ स्थानाव्यापितया च तत्तनयतायेष्वप्यनेकान्ततः॥५॥ निर्बाधाभिमताविनिश्चितमथो साध्यं स धर्मान्वितो
धर्मी पक्ष उदाहृतः, कचिदसौ धर्मोऽनुमेयः पुनः ।

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42