Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah
View full book text
________________
सत्वासत्त्वधियं च संशयतया मन्दं विना को वदेद् ?
एकसिन् हि विरुद्धधर्मयुगलज्ञानं मतः संशयः । सत्त्वासत्त्वयुगं प्रसिध्यति यदै-कमिन् प्रमाणात्तदा
व्याघातः क इहोदयेत् ? कथमिदंसंप्रत्ययः संशयः ॥२६॥ स्थाणुर्वा नर एष वेत्यवगमः संविश्रुतः संशयोs- नास्था धर्मयुगे सतामभिमता दोलायमानेन च । नैवं तु प्रकृते, समस्ति सदसत् खान्यवरूपेण यत्
तद्रव्यानलधीर्व नैव सदसद्धीनिश्चला संशयः ॥ २७ ॥ नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवोऽ
नित्यार्थे क्रमतोऽक्रमादपि भवेन्नार्थक्रियासम्भवः । नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यतेऽ
नित्ये चात्मनि सौख्यदुःखविषयाभोगो न जाघव्यते ॥२८॥ नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयोऽ
नित्यैकान्तमते भवन्ति न पुनर्बन्धप्रमोक्षादयः । नित्यानित्यतया तु वस्तु वदतः कश्चिन्न बाधोदयो
बाधः कः कफकृद्गुडेन मिलिते पित्तावहे नागरे? ॥ २९ ॥ तेनोत्पादविपादसंस्थितियुतं भावं यथा गोरसं ।
स्थाद्वादिन् ! प्रतिपेदिरे तक मुखाम्भोजोद्भवं प्रशिलाः। भङ्गवा कुण्डलमातनोति कटकं तत्कुण्डलत्वं गतं
संजज्ञे कटकस्वरूपमुभयस्थं स्वर्णमत्र स्फुटम् ॥ ३०॥ नो संयोगि-तदन्यभावयुगलं मूलस्स चाग्रस्य चाऽ
वच्छेदेन यथाऽन्यदीयगुरुभिः कक्षीकृतं बाध्यते । नित्यानित्यतया तथैव सदसद्भावेन नो बाध्यते
मानात् सिध्यदशेषवस्तु तदहो! कान्तास्त्यनेकान्तगी॥३१॥ नानाकारकमेकरूपमवदत् ज्ञानस्य बौद्धेश्वरचित्रं रूपमनेकमेकमुचितं योगादिरावेदयत् ।

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42