Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 16
________________ मातङ्गस्य च मत्कुणस्य च वपुः सामस्त्यतश्चेतनोऽ वष्टनात्यथवैकदेशत इति प्रश्नो भवेद् वैभवे । नायोऽध्यक्षविवाधनात् जिनमतस्वीकारपातात् पुन नन्त्यिः सावयवत्वमापतति यत् ध्वंसप्रसङ्गश्च तत् ॥ २६ ॥ इष्टः सावयवः स चेत् तनुमितो नात्मा किमास्थीयते ? किं सङ्कोचनविस्तृती तनुमतः स्यातां न दीपस्य वा। स्वीकुर्वन्ति कथश्चनाऽवयवितां जीवस्य जैनेश्वराः कार्यत्वं तत एव तैरुपगतं कौटस्थ्यनिष्खण्डनात् ॥ २७ ॥ कौटस्थ्ये हि शरीरिणः परिणतिः कौतस्कुती सम्भवेत् ? ज्ञानध्यानतपोजपप्रभृतिभिर्वैचित्र्यसिद्धिः कुतः ? । तिर्यग्देवमनुष्यनारकतयोत्पादोपपादः कुतो? नश्येत् किं न च बन्धमोक्षपदवी ? कीदृश्यसामञ्जसी ॥२८॥ नानारूपविचित्रभाववशतोनित्यत्वमप्यात्मनो जीवत्वेन सदातनस्य विबुधैः सोत्कण्ठमङ्गीकृतम् । जीवस्याम्बरवद् विभोः स्मृतिमतिध्यानादिकं स्यात् कुतो ? न खाद्यात्मनि वैभवाऽभ्युपगमे चेष्टादिकं व्योमवत् ॥२९॥ शब्दं व्योमगुणं वदन्, न परमाणूनां गुणं किं वदेत् ? स्थाबाऽऽस्साकसमक्षगोचरतयाऽणूनां गुणत्वे स चेत् । ताऽऽसाकसमक्षगोचरतया व्योम्नो गुणत्वे भवेत् ? न स्युवाऽणुगुणाः समस्तखगुणाः प्रत्यक्षगम्या यतः ॥३०॥ कर्मत्वप्रतिषेधनेऽपि नियमात् द्रव्यं ध्वनि मन्यतां ये ह्यत्यन्तपरोक्षवस्तुगगुणा असत्समक्षा न ते । रूपाद्यं परमाणुवृत्ति च यथा, शब्दोपि तस्मानभो धर्मः सिध्यति नाऽन्यथा न हि भवेदध्यक्षधीगोचरः॥३१॥ स्पर्शप्रत्यय एव वायुरपि चाध्यक्षः समाश्रीयतां मन्यन्ते हि तमोगृहे कृतघटस्पर्शाः समक्षं घटम् ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42