Book Title: Nyaya Kusumanjali
Author(s): Nyayvijay
Publisher: Navlaji Vardhaji Shah

View full book text
Previous | Next

Page 14
________________ मायां ख्यातवता समभ्युपगता किं सत्यसौ वाऽसती? स्थादाद्ये द्वयतत्त्वसिद्धिरसती चेत् ? तत् प्रपञ्चः कुतः १ । स्यान्मायाऽर्थसहाप्यथेतिवदता स्वामिन् ! तवासूयिना स्याद् वन्ध्या च जनन्यपीति भुवने प्रख्यापिता किंमतिः ॥१३ चैतन्यं च शरीरवृत्ति न भवेत्, यत् स्याच्छवेऽप्यन्यथा _ ज्ञानाद्यं, ननु सम्भवेत्, लवणिमाद्यं वा कुतस्तत्र तत् ? । नैवं, तत्र भवेद्यतो लवणिमा, स्यादन्यथात्मैव त न्मात्राहेतुतयाऽन्यहेतुमनने चैतन्यवत् सिद्धवान् ॥ १४ ॥ प्राणाभावत एव बुद्धिविरहो युक्तो न वक्तुं शवे सञ्चारे नलिकादिनापि न भवेत् चैतन्यसंप्रत्ययः। चैतन्ये वपुषः पुनः प्रतिदिनं त्वन्यान्यभावे कुतो जायेतोत्तरवासरे स्मरणधीः पूर्वानुभूतस्य भोः ! ॥ १५॥ निर्ज्ञानं खलु भूतवस्तु तदहो ! तजं शरीरं कुत- चैतन्यादिगुणाश्रयो ? न हि पटः सम्पद्यते मृत्स्नया । भूतानामपि चेतना सकलधीनिर्बाधनाद् बाधिता साहित्येऽपि च चेतना नहि, तथाभूतेऽन्यतो बाधतः ॥१६॥ ज्ञानी वा सुखितोऽस्मि वाऽस्म्यसुखितः सम्प्रत्यहं खल्विति प्रज्ञानादबहिर्मुखाकृतितया विश्वाङ्गिना सिद्धवान् । आत्मा यद्यपलप्यतेऽसुखसुखाद्यैर्भिन्नरूपं जगत् सिध्येत् किं तदनाद्यदृष्टपुरुषाभावे समालोच्यताम् ॥१७॥ वैचित्र्यं जगतः प्रसिध्यतितरां हन्त ! स्वभावादिति खच्छं नैष विहेतुता यदि तदा सद् वा सदा स्थादसत् । नापि स्वात्मनिमित्तभाव उदयेदात्माश्रयो दूषणं कश्चिद् वस्तुविशेष एव यदि तत् नादृष्टभिन्नं भवेत् ॥१८॥ एतद् बालवपुस्तदन्तरवपुःपूर्व हृषीकादिना तारुण्याढ्यवपुर्वदित्यनुमयाऽदृष्टं समाश्रीयताम् । ...

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42